Categories
Narayaneeyam

நாராயணீயம் ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 7th Dashakam audio mp3


நாராயணீயம் ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 7th Dashakam audio mp3

Have given the 7th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये सप्तमं दशकम्

एवं देव, चतुर्दशात्मकजगद्रूपेण, जात: पुन:,

तस्योर्ध्वं खलु, सत्यलोकनिलये, जातोऽसि, धाता स्वयम् ।

यं शंसन्ति, हिरण्यगर्भं, अखिलत्रैलोक्यजीवात्मकं,

योऽभूत्, स्फीतरजोविकार,विकसन्नाना,सिसृक्षारस: ॥ १ ॥

 

सोऽयं, विश्वविसर्गदत्तहृदय:, सम्पश्यमान: स्वयं,

बोधं खलु, अनवाप्य विश्वविषयं, चिन्ताकुल:, तस्थिवान् ।

तावत्त्वं जगतां पते, तप तपेत् एवं हि वैहायसीं,

वाणीं, एनं, अशिश्रव:, श्रुतिसुखां, कुर्वन्, तप:प्रेरणाम् ॥ २ ॥

 

कोऽसौ मां, अवदत् पुमानिति, जलापूर्णे, जगन्मण्डले,

दिक्षूद्वीक्ष्य, किमपि,अनीक्षितवता, वाक्यार्थं, उत्पश्यता ।

दिव्यं, वर्षसहस्रं, आत्ततपसा तेन, त्वं आराधित:,

तस्मै दर्शितवानसि, स्वनिलयं, वैकुण्ठं, एकाद्भुतम् ॥ ३ ॥

 

माया यत्र कदापि, नो विकुरुते, भाते, जगद्भ्यो बहि:,

शोकक्रोधविमोह,साध्वसमुखा:, भावास्तु, दूरं गता: ।

सान्द्रानन्दझरी च, यत्र, परमज्योति:प्रकाशात्मके,

तत्ते धाम, विभावितं, विजयते, वैकुण्ठरूपं विभो ॥ ४ ॥

 

यस्मिन्नाम, चतुर्भुजा:, हरिमणिश्यामावदातत्विष:,

नानाभूषण,रत्नदीपितदिश:, राजत्,विमानालया: ।

भक्तिप्राप्त,तथाविधोन्नतपदा:, दीव्यन्ति दिव्या जना:,

तत्, ते धाम, निरस्तसर्वशमलं, वैकुण्ठरूपं, जयेत् ॥ ५ ॥

 

नानादिव्यवधूजनै:, अभिवृता:, विद्युल्लतातुल्यया,

विश्वोन्मादन,हृद्यगात्रलतया, विद्योतिताशान्तरा ।

त्वत्पादांबुज, सौरभैककुतुकात्, लक्ष्मी:, स्वयं लक्ष्यते,

यस्मिन्, विस्मयनीय,दिव्यविभवा, तत् ते पदं, देहि मे ॥ ६ ॥

 

तत्रैवं, प्रतिदर्शिते निजपदे, रत्नासनाध्यासितं,

भास्वत्कोटिलसत्किरीट,कटकाद्याकल्प,दीप्राकृति ।

श्रीवत्साङ्कितं, आत्तकौस्तुभमणिच्छायारुणं, कारणं-

विश्वेषां, तव रूपं, ऐक्षत विधि:, तत्ते विभो, भातु मे ॥ ७ ॥

 

कालांभोदकलाय,कोमलरुचीचक्रेण, चक्रं दिशां,

आवृण्वानं,उदारमन्दहसित,स्यन्दप्रसन्नाननम् ।

राजत्कम्बुगदारि,पङ्कजधर,श्रीमद्भुजामण्डलं,

स्रष्टु:, तुष्टिकरं, वपुस्तव विभो, मद्रोगमुद्वासयेत् ॥ ८ ॥

 

दृष्ट्वा, सम्भृतसम्भ्रम:, कमलभू:, त्वत्पादपाथोरुहे,

हर्षावेश,वशंवदो, निपतित:, प्रीत्या, कृतार्थीभवन् ।

जानास्येव, मनीषितं मम, विभो, ज्ञानं तत्, आपादय,

द्वैताद्वैत,भवत्स्वरूपपरमिति, आचष्ट, तं त्वां भजे ॥ ९ ॥

 

आताम्रे चरणे, विनम्रं, अथ तं, हस्तेन, हस्ते स्पृशन्,

बोधस्ते भविता, न सर्गविधिभि:, बन्धोऽपि, सञ्जायते ।

इत्याभाष्य गिरं, प्रतोष्य नितरां, तच्चित्तगूढ: स्वयं,

सृष्टौ तं, समुदैरय:, स भगवन्, उल्लासय, उल्लाघताम् ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये सप्तमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 7th dashakam.

Series Navigation<< நாராயணீயம் ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 6th Dashakam audio mp3நாராயணீயம் எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 8th Dashakam audio mp3 >>

One reply on “நாராயணீயம் ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 7th Dashakam audio mp3”

மஹோதயர்களே!உங்களுக்கு பாத நமஸ்காரம். ஸ்ரீ கண்ணபெருமான் தலையசைத்து அங்கீகரித்த ஸ்ரீமத் நாராயணீயத்தைத் தங்கள் கிருபையால் கேட்கப் பெற்றேன், நான் பிறந்த பலனை அனுபவித்தேன், மீண்டும் பதித்தவர்களின் திருப்பாதக் கமலங்களின் என் அடிபணிந்த நமஸ்காரங்கள்

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.