Categories
Narayaneeyam

நாராயணீயம் எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 8th Dashakam audio mp3


நாராயணீயம் எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 8th Dashakam audio mp3

Have given the 8th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये अष्टमं दशकम्

एवं तावत्, प्राकृतप्रक्षयान्ते, ब्राह्मे कल्पे हि, आदिमे लब्धजन्मा ।

ब्रह्मा, भूय:, त्वत्त एवाप्य वेदान्, सृष्टिं चक्रे, पूर्वकल्पोपमानाम् ॥ १ ॥

 

सोऽयं, चतुर्युगसहस्रमितानि, अहानि, तावन्मिताश्च रजनी:, बहुशो निनाय ।

निद्रात्यसौ, त्वयि निलीय समं स्वसृष्टै:, नैमित्तिकप्रलयं, आहुरतोऽस्य रात्रिम् ॥ २ ॥

 

अस्मादृशां पुन:, अहर्मुखकृत्यतुल्यां, सृष्टिं करोत्यनुदिनं, स:, भवत्प्रसादात् ।

प्राग्ब्रह्मकल्पजनुषां च, परायुषां तु, सुप्तप्रबोधनसमास्ति, तदाऽपि सृष्टि: ॥ ३ ॥

 

पञ्चाशदब्दमधुना, स्ववयोर्धरूपं, एकं परार्धं, अतिवृत्य हि, वर्ततेऽसौ ।

तत्र अन्त्यरात्रिजनितान्, कथयामि भूमन्, पश्चाद्दिनावतरणे च, भवद्विलासान् ॥ ४ ॥

 

दिनावसानेऽथ, सरोजयोनि:, सुषुप्तिकाम:, त्वयि सन्निलिल्ये ।

जगन्ति च त्वज्जठरं, समीयु:, तदेदमेकार्णवमास, विश्वम् ॥ ५ ॥

 

तवैव वेषे, फणिराजि शेषे, जलैकशेषे, भुवने स्म शेषे ।

आनन्द,सान्द्रानुभवस्वरूप:, स्वयोगनिद्रा, परिमुद्रितात्मा ॥ ६ ॥

 

कालाख्यशक्तिं, प्रलयावसाने, प्रबोधयेति, आदिशता किलादौ ।

त्वया प्रसुप्तं, परिसुप्तशक्तिव्रजेन, तत्र, अखिलजीवधाम्ना ॥ ७ ॥

 

चतुर्युगाणां च, सहस्रमेवं, त्वयि प्रसुप्ते पुन:, अद्वितीये ।

कालाख्यशक्ति:, प्रथमप्रबुद्धा, प्राबोधयत्, त्वां किल, विश्वनाथ ॥ ८ ॥

 

विबुध्य च त्वं, जलगर्भशायिन्, विलोक्य लोकान्, अखिलान् प्रलीनान् ।

तेष्वेव, सूक्ष्मात्मतया, निजान्तस्स्थितेषु विश्वेषु, ददाथ दृष्टिम् ॥ ९ ॥

 

तत:, त्वदीयात्, अयि नाभिरन्ध्रात्, उदञ्चितं, किंचन दिव्यपद्मम् ।

निलीननिश्शेष,पदार्थमालासंक्षेपरूपं, मुकुलायमानम् ॥ १० ॥

 

तदेतत्, अम्भोरुहकुड्मलं, ते कलेबरात्, तोयपथे, प्ररूढम् ।

बहिर्निरीतं, परित:, स्फुरद्भि:, स्वधामभि:, ध्वान्तं, अलं न्यकृन्तत् ॥ ११ ॥

 

संफुल्लपत्रे, नितरां विचित्रे, तस्मिन्, भवद्वीर्यधृते सरोजे ।

स पद्मजन्मा, विधि:, आविरासीत्, स्वयंप्रबुद्धाखिल,वेदराशि: ॥ १२ ॥

 

अस्मिन् परात्मन्, ननु पाद्मकल्पे, त्वमित्थं उत्थापितपद्मयोनि: ।

अनन्तभूमा, मम रोगराशिं, निरुन्धि, वातालयवास विष्णो ॥ १३ ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये अष्टमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 8th dashakam.

Series Navigation<< நாராயணீயம் ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 7th Dashakam audio mp3நாராயணீயம் ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 9th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.