Categories
Narayaneeyam

நாராயணீயம் ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 9th Dashakam audio mp3


நாராயணீயம் ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 9th Dashakam audio mp3

Have given the 9th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये नवमं दशकम्

स्थितस्स कमलोद्भव:, तव हि नाभिपङ्केरुहे,

कुत: स्वित्, इदं अम्बुधौ, उदितमिति, अनालोकयन् ।

तदीक्षणकुतूहलात्, प्रतिदिशं, विवृत्तानन:,

चतुर्वदनतां, अगात्, विकसदष्ट,दृष्ट्यम्बुजाम् ॥ १ ॥

 

महार्णवविघूर्णितं, कमलमेव, तत्केवलं,

विलोक्य तदुपाश्रयं, तव तनुं तु, नालोकयन् ।

क एष कमलोदरे, महति, निस्सहायो ह्यहं,

कुत: स्वित्, इदमम्बुजं, समजनीति, चिन्तां अगात् ॥ २ ॥

 

अमुष्य हि सरोरुह:, किमपि कारणं, सम्भवेत्,

इति स्म कृतनिश्चय:, स खलु, नालरन्ध्राध्वना ।

स्वयोगबलविद्यया, समवरूढवान्, प्रौढधी:,

त्वदीयं, अतिमोहनं, न तु कलेबरं, दृष्टवान् ॥३॥

 

तत:, सकलनालिका,विवरमार्गगो, मार्गयन्,

प्रयस्य, शतवत्सरं, किमपि, नैव, संदृष्टवान् ।

निवृत्य, कमलोदरे, सुखनिषण्ण:, एकाग्रधी:,

समाधिबलं, आदधे, भवदनुग्रहैकाग्रही ॥ ४ ॥

 

शतेन परिवत्सरै:, दृढसमाधि,बन्धोल्लसत्,

प्रबोधविशदीकृत:, स खलु, पद्मिनीसम्भव: ।

अदृष्टचरं, अद्भुतं, तव हि रूपं, अन्तर्दृशा,

व्यचष्ट, परितुष्टधी:, भुजगभोगभागाश्रयम् ॥ ५ ॥

 

किरीटमुकुटोल्लसत्,कटकहारकेयूरयुग्,

मणिस्फुरितमेखलं, सुपरिवीतपीताम्बरम् ।

कलायकुसुमप्रभं, गलतलोल्लसत्कौस्तुभं,

वपुस्तत्, अयि भावये, कमलजन्मने, दर्शितम् ॥ ६ ॥

 

श्रुतिप्रकरदर्शितप्रचुरवैभव, श्रीपते,

हरे जय जय, प्रभो, पदमुपैषि, दिष्ट्या, दृशो: ।

कुरुष्व धियं, आशु मे, भुवननिर्मितौ, कर्मठां,

इति द्रुहिणवर्णित,स्वगुणबंहिमा, पाहि माम् ॥ ७ ॥

 

लभस्व, भुवनत्रयीरचनदक्षतां, अक्षतां,

गृहाण मदनुग्रहं, कुरु तपश्च, भूयो, विधे ।

भवतु, अखिलसाधनी, मयि च भक्ति:, अत्युत्कटेति,

उदीर्य गिरं, आदधा:, मुदितचेतसं, वेधसम् ॥ ८ ॥

 

शतं कृततपा:, तत: स खलु, दिव्यसंवत्सरान्,

अवाप्य च तपोबलं, मतिबलं च, पूर्वाधिकम् ।

उदीक्ष्य किल कम्पितं, पयसि पङ्कजं, वायुना,

भवद्बलविजृम्भित:, पवनपाथसी, पीतवान् ॥ ९ ॥

 

तवैव कृपया पुन:, सरसिजेन, तेनैव स:,

प्रकल्प्य, भुवनत्रयीं, प्रववृते, प्रजानिर्मितौ ।

तथाविध,कृपाभरो, गुरुमरुत्पुराधीश्वर,

त्वं, आशु परिपाहि मां, गुरुदयोक्षितै:, ईक्षितै: ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये नवमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 9th dashakam.

Series Navigation<< நாராயணீயம் எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 8th Dashakam audio mp3நாராயணீயம் பத்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 10th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.