Categories
Narayaneeyam

நாராயணீயம் பத்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 10th Dashakam audio mp3


நாராயணீயம் பத்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 10th Dashakam audio mp3

Have given the 10th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये दशमं दशकम्

वैकुण्ठ, वर्धितबलोऽथ, भवत्प्रसादात्, अम्भोजयोनि:, असृजत् किल जीवदेहान् ।

स्थास्नूनि, भूरुहमयानि, तथा तिरश्चां जाती:, मनुष्यनिवहानपि, देवभेदान् ॥ १ ॥

 

मिथ्याग्रहास्मिमतिरागविकोपभीति:, अज्ञानवृत्तिं, इति, पञ्चविधां, स सृष्ट्वा ।

उद्दामतामसपदार्थ,विधानदून:, तेने, त्वदीयचरणस्मरणं, विशुद्ध्यै ॥ २ ॥

 

तावत् ससर्ज मनसा, सनकं सनन्दं, भूय: सनातनमुनिं च, सनत्कुमारम् ।

ते सृष्टिकर्मणि तु, तेन नियुज्यमाना:, त्वत्पादभक्तिरसिका:, जगृहुर्न वाणीम् ॥ ३ ॥

 

तावत् प्रकोपं, उदितं, प्रतिरुन्धतोऽस्य, भ्रूमध्यतोऽजनि, मृड:, भवदेकदेश: ।

नामानि मे कुरु, पदानि च, हा विरिञ्चेति, आदौ रुरोद किल, तेन स रुद्रनामा ॥ ४ ॥

 

एकादशाह्वयतया च, विभिन्नरूपं, रुद्रं विधाय, दयिता:, वनिताश्च दत्वा ।

तावन्ति, अदत्त च, पदानि, भवत्प्रणुन्न:, प्राह, प्रजाविरचनाय च, सादरं तम् ॥ ५ ॥

 

रुद्राभिसृष्टभयदाकृति,रुद्रसंघसम्पूर्यमाण,भुवनत्रयभीतचेता: ।

मा मा प्रजा: सृज, तपश्चर मङ्गलाय, इत्याचष्ट तं, कमलभू:, भवदीरितात्मा ॥ ६ ॥

 

तस्याथ सर्गरसिकस्य, मरीचि:, अत्रि:, तत्र, अङिगरा: क्रतुमुनि:, पुलह:, पुलस्त्य: ।

अङ्गात्, अजायत भृगुश्च, वसिष्ठदक्षौ, श्रीनारदश्च भगवान्, भवदंघ्रिदास: ॥ ७ ॥

 

धर्मादिकान्, अभिसृजन्, अथ कर्दमं च, वाणीं विधाय, विधि:, अङ्गजसंकुलोऽभूत् ।

त्वद्बोधितै:, सनकदक्षमुखै:, तनूजै:, उद्बोधितश्च, विरराम, तमो विमुञ्चन् ॥ ८ ॥

 

वेदान् पुराणनिवहानपि, सर्वविद्या:, कुर्वन्, निजाननगणात्, चतुराननोऽसौ ।

पुत्रेषु तेषु, विनिधाय, स सर्गवृद्धिं अप्राप्नुवन्, तव पदाम्बुजं, आश्रितोभूत् ॥ ९ ॥

 

जानन् उपायं, अथ, देहमजो विभज्य, स्रीपुंसभावं, अभजत्, मनुतद्वधूभ्याम् ।

ताभ्यां च मानुषकुलानि, विवर्धयन्, त्वं, गोविन्द, मारुतपुराधिप, रुन्धि रोगान् ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये दशमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 10th dashakam.

Series Navigation<< நாராயணீயம் ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 9th Dashakam audio mp3நாராயணீயம் பதினொன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 11th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.