Categories
Narayaneeyam

நாராயணீயம் பதினொன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 11th Dashakam audio mp3


நாராயணீயம் பதினொன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 11th Dashakam audio mp3

Have given the 11th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये एकादशं दशकम्

क्रमेण सर्गे, परिवर्धमाने, कदापि दिव्या:, सनकादयस्ते ।

भवद्विलोकाय, विकुण्ठलोकं, प्रपेदिरे, मारुतमन्दिरेश ॥ १ ॥

 

मनोज्ञनैश्रेयस,काननाद्यै:, अनेकवापी,मणिमन्दिरैश्च ।

अनोपमं तं, भवतो निकेतं, मुनीश्वरा:, प्रापु:, अतीतकक्ष्या: ॥ २ ॥

 

भवद्दिदृक्षून्, भवनं विविक्षून्, द्वा:स्थौ जयस्तान्, विजयोऽपि, अरुन्धाम् ।

तेषां च चित्ते, पदमाप कोप:, सर्वं, भवत्प्रेरणयैव, भूमन् ॥ ३ ॥

 

वैकुण्ठलोकानुचितप्रचेष्टौ, कष्टौ युवां, दैत्यगतिं भजेतम् ।

इति प्रशप्तौ, भवदाश्रितौ तौ, हरिस्मृतिर्न:, अस्त्विति, नेमतुस्तान् ॥ ४ ॥

 

तदेतदाज्ञाय, भवान् अवाप्त:, सहैव लक्ष्म्या, बहिरम्बुजाक्ष ।

खगेश्वरांसार्पित,चारुबाहु:, आनन्दयन्, तान्, अभिराममूर्त्या ॥ ५ ॥

 

प्रसाद्य गीर्भि:, स्तुवतो मुनीन्द्रान्, अनन्यनाथौ, अथ पार्षदौ तौ ।

संरम्भयोगेन, भवैस्त्रिभिर्मां, उपेतं, इत्यात्तकृपं, न्यगादी: ॥ ६ ॥

 

त्वदीयभृत्यौ, अथ काश्यपात्तौ, सुरारिवीरौ, उदितौ दितौ द्वौ ।

सन्ध्यासमुत्पादन,कष्टचेष्टौ, यमौ च लोकस्य, यमाविवान्यौ ॥ ७ ॥

 

हिरण्यपूर्व:, कशिपु: किलैक:, परो, हिरण्याक्ष इति प्रतीत: ।

उभौ, भवन्नाथं, अशेषलोकं, रुषा न्यरुन्धां, निजवासनान्धौ ॥ ८ ॥

 

तयो:, हिरण्याक्षमहासुरेन्द्र:, रणाय धावन्, अनवाप्तवैरी ।

भवत्प्रियां क्ष्मां, सलिले निमज्य, चचार गर्वात्, निनदन् गदावान् ॥ ९ ॥

 

ततो जलेशात्, सदृशं भवन्तं, निशम्य, बभ्राम, गवेषयन्, त्वाम् ।

भक्तैकदृश्य:, स कृपानिधे त्वं, निरुन्धि रोगान्, मरुदालयेश ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये एकादशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 11th dashakam.

Series Navigation<< நாராயணீயம் பத்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 10th Dashakam audio mp3நாராயணீயம் பன்னிரெண்டவது தசகம் ஒலிப்பதிவு; Narayaneeyam 12th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.