Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் மூன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 3rd sargam audio mp3

ஸுந்தரகாண்டம் மூன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 3rd sargam audio mp3
Sundarakandam 3rd sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் மூன்றாவது ஸர்கம்

सुन्दरकाण्डे तृतीयस्सर्ग:

स लम्बशिखरे लम्बे लम्बतोयदसन्निभे।

सत्त्वमास्थाय मेधावी हनुमान् मारुतात्मजः।।5.3.1।।

निशि लङ्कां महासत्त्व: विवेश कपिकुञ्जरः।

रम्यकाननतोयाढ्यां पुरीं रावणपालिताम्।।5.3.2।।

शारदाम्बुधरप्रख्यै: भवनैरुपशोभिताम्।

सागरोपमनिर्घोषां सागरानिलसेविताम्।।5.3.3।।

सुपुष्टबलसड़घुष्टां यथैव विटपावतीम्।

चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम्।।5.3.4।।

भुजगाचरितां गुप्तां शुभां भोगवतीमिव।

तां स विद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम्।।5.3.5।।

मन्दमारुतसञ्चारां यथाचाप्यमरावतीम्।

शातकुम्भेन महता प्राकारेणाभिसंवृताम्।।5.3.6।।

किङ्किणीजालघोषाभिः पताकाभिरलङ्कृताम्।

आसाद्य सहसा हृष्टः प्राकारं अभिपेदिवान्।।5.3.7।।

विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः।

जाम्बूनदमयैर्द्वारै: वैडूर्यकृतवेदिकैः।।5.3.8।।

वज्रस्फटिकमुक्ताभि: मणिकुट्टिमभूषितैः।

तप्तहाटकनिर्यूहै: राजतामलपाण्डुरैः।।5.3.9।।

वैढूर्यकृतसोपानैः स्फाटिकान्तरपांसुभिः।

चारुसंजवनोपेतैः खमित्वोत्पतितैः शुभैः।।5.3.10।।

क्रौञ्चबर्हिणसङ्घुष्टैः राजहंस निषेवितैः।

तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम्।।5.3.11।।

वस्वौकसाराप्रतिमां तां वीक्ष्य नगरीं ततः।

खमित्वोत्पतितां लङ्कां जहर्ष हनुमान् कपिः।।5.3.12।।

तां समीक्ष्य पुरीं लङ्कां राक्षसाधिपतेः शुभाम्।

अनुत्तमां ऋद्धियुतां चिन्तयामास वीर्यवान्।।5.3.13।।

नेयमन्येन नगरी शक्या धर्षयितुं बलात्।

रक्षिता रावणबलै: उद्यतायुधधारिभिः।।5.3.14।।

कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः।

प्रसिद्धेयं भवेद्भूमि: मैन्दद्विविदयोरपि।।5.3.15।।

विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः।

ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत्।।5.3.16।।

समीक्ष्य तु महाबाहु: राघवस्य पराक्रमम्।

लक्ष्मणस्य च विक्रान्तं अभवत् प्रीतिमान् कपिः।।5.3.17।।

तां रत्नवसनोपेतां गोष्ठागारावतंसकाम्।

यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम्।।5.3.18।।

तां नष्टतिमिरां दीपै: भास्वरैश्च महागृहैः।

नगरीं राक्षसेन्द्रस्य ददर्श स महाकपिः।।5.3.19।।

अथ सा हरिशार्दूलं प्रविशन्तं महाबलम्।

नगरी स्वेन रूपेण ददर्श पवनात्मजम्।।5.3.20।।

सा तं हरिवरं दृष्ट्वा लङ्का रावणपालिता।

स्वयमेवोत्थिता तत्र विकृताननदर्शना।।5.3.21।।

पुरस्तात्कपिवर्यस्य वायुसूनोरतिष्ठत।

मुञ्चमाना महानादं अब्रवीत्पवनात्मजम्।।5.3.22।।

कस्त्वं केन च कार्येण इह प्राप्तो वनालय।

कथयस्वेह यत्तत्वं यावत्प्राणा धरन्ति ते।।5.3.23।।

न शक्या खल्वियं लङ्का प्रवेष्टुं वानर त्वया।

रक्षिता रावणबलै: अभिगुप्ता समन्ततः।।5.3.24।।

अथ तां अब्रवीद्वीर: हनुमान् अग्रतः स्थिताम्।

कथयिष्यामि ते तत्वं यन्मां त्वं परिपृच्छसि।।5.3.25।।

का त्वं विरूपनयना पुरद्वारेऽवतिष्ठसे।

किमर्थं चापि मां रुद्ध्वा निर्भर्स्यसि दारुणा।।5.3.26।।

हनुमद्वचनं श्रुत्वा लङ्का सा कामरूपिणी।

उवाच वचनं क्रुद्धा परुषं पवनात्मजम्।।5.3.27।।

अहं राक्षसराजस्य रावणस्य महात्मनः।

आज्ञाप्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम्।।5.3.28।।

न शक्यं मामवज्ञाय प्रवेष्टुं नगरी त्वया।

अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया।।5.3.29।।

अहं हि नगरी लङ्का स्वयमेव प्लवङ्गम।

सर्वतः परिरक्षामि ह्येतत्ते कथितं मया।।5.3.30।।

लङ्काया: वचनं श्रुत्वा हनुमान् मारुतात्मजः।

यत्नवान् स हरिश्रेष्ठः स्थित: शैल इवापरः।।5.3.31।।

स तां स्त्रीरूपविकृतां दृष्टवा वानरपुङ्गवः।

आबभाषेऽथ मेधावी सत्त्ववान् प्लवगर्षभः।।5.3.32।।

द्रक्ष्यामि नगरीं लङ्कां साट्टप्राकारतोरणाम्।

इत्यर्थमिह संप्राप्तः परं कौतूहलं हि मे।।5.3.33।।

वनान्युपवनानीह लङ्कायाः काननानि च।

सर्वतो गृहमुख्यानि द्रष्टुमागमनं हि मे।।5.3.34।।

तस्य तद्वचनं श्रुत्वा लङ्का सा कामरूपिणी।

भूय एव पुनर्वाक्यं बभाषे परुषाक्षरम्।।5.3.35।।

मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालिता।

न शक्यं हि अद्य ते द्रष्टुं पुरीयं वानराधम।।5.3.36।।

ततः स कपिशार्दूल: तामुवाच निशाचरीम्।

दृष्ट्वा पुरीं इमां भद्रे पुनर्यास्ये यथागतम्।।5.3.37।।

ततः कृत्वा महानादं सा वै लङ्का भयावहम्।

तलेन वानरश्रेष्ठं ताडयामास वेगिता।।5.3.38।।

ततः स कपिशार्दूल: लङ्कया ताडितो भृशम्।

ननाद सुमहानादं वीर्यवान् पवनात्मजः।।5.3.39।।

ततः संवर्तयामास वामहस्तस्य सोऽङ्गुलीः।

मुष्टिनाऽऽभिजघानैनां हनुमान् क्रोधमूर्छितः।।5.3.40।।

स्त्री चेति मन्यमानेन नातिक्रोधः स्वयं कृतः।

सा तु तेन प्रहारेण विह्वलाङ्गी निशाचरी।।5.3.41।।

पपात सहसा भूमौ विकृताननदर्शना।

ततस्तु हनुमान् प्राज्ञ: तां दृष्ट्वा विनिपातिताम्।।5.3.42।।

कृपां चकार तेजस्वी मन्यमानः स्त्रियं तु ताम्।

ततो वै भृशसंविग्ना लङ्का सा गद्गदाक्षरम्।।5.3.43।।

उवाचागर्वितं वाक्यं हनुमन्तं प्लवङ्गमम्।

प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम ।।5.3.44।।

समये सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः।

अहं तु नगरी लङ्का स्वयमेव प्लवङ्गम।।5.3.45।।

निर्जिताहं त्वया वीर विक्रमेण महाबल।

इदं तु तथ्यं शृणु वै ब्रुवन्त्या मे हरीश्वर।।5.3.46।।

स्वयंभुवा पुरा दत्तं वरदानं यथा मम।

यदा त्वां वानरः कश्चित् विक्रमात् वशमानयेत्।।5.3.47।।

तदा त्वया हि विज्ञेयं रक्षसां भयमागतम्।

स हि मे समयः सौम्य प्राप्तोऽद्य तव दर्शनात्।।5.3.48।।

स्वयंभुविहितः सत्य: न तस्यास्ति व्यतिक्रमः।

सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः।।5.3.49।।

रक्षसां चैव सर्वेषां विनाशः समुपस्थित:।

तत्प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम्।।5.3.50।।

विधत्स्व सर्वकार्याणि यानि यानीह वाञ्छसि।

प्रविश्य शापोपहतां हरीश्वर पुरीं शुभां राक्षसमुख्यपालिताम्।

यदृच्छया त्वं जनकात्मजां सतीं विमार्ग सर्वत्र गतो यथासुखम्।।5.3.51।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे तृतीयस्सर्गः ।।

Series Navigation<< ஸுந்தரகாண்டம் இரண்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 2nd sargam audio mp3ஸுந்தரகாண்டம் நான்காவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 4th sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.