Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் நான்காவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 4th sargam audio mp3

ஸுந்தரகாண்டம் நான்காவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 4th sargam audio mp3

Sundarakandam 4th sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் நான்காவது ஸர்கம்

सुन्दरकाण्डे चतुर्थस्सर्ग:

स निर्जित्य पुरीं श्रेष्ठां लङ्कां तां कामरूपिणीम्।

विक्रमेण महातेजा: हनुमान् कपिसत्तमः।।5.4.1।।

अद्वारेण महाबाहुः प्राकारं अभिपुप्लुवे।

प्रविश्य नगरीं लङ्कां कपिराजहितंकरः।।5.4.2।।

चक्रेऽथ पादं सव्यं च शत्रूणां स तु मूर्धनि।

प्रविष्टः सत्त्वसम्पन्न: निशायां मारुतात्मजः।।5.4.3।।

स महापथमास्थाय मुक्तपुष्पविराजितम्।

ततस्तु तां पुरीं लङ्कां रम्यां अभिययौ कपिः।।5.4.4।।

हसितोत्कृष्टनिनदै: तूर्यघोषपुरस्सरैः।

वज्रांकुशनिकाशैश्च वज्रजालविभूषितैः।।5.4.5।।

गृहमेघैः पुरी रम्या बभासे द्यौरिवाम्बुदैः।

प्रजज्वाल तदा लङ्का रक्षोगणगृहैः शुभैः।।5.4.6।।

सिताभ्रसदृशै: चित्रैः पद्मस्वस्तिकसंस्थितैः।

वर्धमानगृहैश्चापि सर्वतः सुविभूषिता।।5.4.7।।

तां चित्रमाल्याभरणां कपिराजहितंकर:।

राघवार्थं चरन् श्रीमान् ददर्श च ननन्द च।।5.4.8।।

भवनाद्भवनं गच्छन् ददर्श पवनात्मजः।

विविधाकृतिरूपाणि भवनानि ततस्ततः।।5.4.9।।

शुश्राव मधुरं गीतं त्रिस्थानस्वरभूषितम्।

स्त्रीणां मदसमृद्धानां दिवि चाप्सरसामिव।।5.4.10।।

शुश्राव काञ्चीनिनदं नूपुराणां च निःस्वनम्।

सोपाननिनदांश्चैव भवनेषु महात्मनाम्।।5.4.11।।

आस्फोटितनिनादांश्च क्ष्वेलितांश्च ततस्ततः।

शुश्राव जपतां तत्र मन्त्रान् रक्षोगृहेषु वै।।5.4.12।।

स्वाध्यायनिरतांश्चैव यातुधानान् ददर्श सः।

रावणस्तवसंयुक्तान् गर्जतो राक्षसानपि।।5.4.13।।

राजमार्गं समावृत्य स्थितं रक्षोबलं महत्।

ददर्श मध्यमे गुल्मे रावणस्य चरान् बहून्।।5.4.14।।

दीक्षितान् जटिलान् मुण्डान् गोजिनाम्बरवाससः।

दर्भमुष्टिप्रहरणान् अग्निकुण्डायुधांस्तथा।।5.4.15।।

कूटमुद्गरपाणींश्च दण्डायुधधरानपि।

एकाक्षां एककर्णांश्च लम्बोदरपयोधरान्।।5.4.16।।

करालान् भुग्नवक्त्रांश्च विकटान् वामनांस्तथा।

धन्विनः खङ्गिनश्चैव शतघ्नीमुसलायुधान्।।5.4.17।।

परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान्।

नातिस्थूलान्नातिकृशान् नातिदीर्घातिह्रस्वकान्।।5.4.18।।

नातिगौरान्नातिकृष्णान् नातिकुब्जान् न वामनान्।

विरूपान् बहुरूपांश्च सुरूपांश्च सुवर्चसः।5.4.19।।

ध्वजीन् पताकिनश्चैव ददर्श विविधायुधान्।

शक्तिवृक्षायुधांश्चैव पट्टसाशनिधारिणः।।5.4.20।।

क्षेपणीपाशहस्तांश्च ददर्श स महाकपिः।

स्रग्विणस्तु अनुलिप्तांश्च वराभरणभूषितान्।।5.4.21।।

नानावेषसमायुक्तान् यथास्स्वैरगतान् बहून्।

तीक्ष्णशूलधरांश्चैव वज्रिणश्च महाबलान्।।5.4.22।।

शतसाहस्रमव्यग्रं आरक्षं मध्यमं कपिः।

रक्षोधिपतिनिर्दिष्टं ददर्शान्तःपुराग्रतः।।5.4.23।।

स तदा तद्गृहं दृष्ट्वा महाहाटकतोरणम्।

राक्षसेन्द्रस्य विख्यातं अद्रिमूर्ध्नि प्रतिष्ठितम्।।5.4.24।।

पुण्डरीकावतंसाभिः परिखाभि: अलङ्कृतम्।

प्राकारावृतमत्यन्तं ददर्श स महाकपिः।।5.4.25।।

त्रिविष्टपनिभं दिव्यं दिव्यनादविनादितम्।

वाजिहेषितसङ्घुष्टं नादितं भूषणैस्तथा।।5.4.26।।

रथैर्यानैर्विमानैश्च तथा गजहयै: शुभैः।

वारणैश्च चतुर्दन्तै: श्वेताभ्रनिचयोपमैः।।5.4.27।।

भूषितं रुचिरद्वारं मत्तैश्च मृगपक्षिभिः।

रक्षितं सुमहावीर्यै: यातुधानैः सहस्रशः।

राक्षसाधिपतेर्गुप्तं आविवेश गृहंकपिः।।5.4.28।।

सहेमजाम्बूनदचक्रवालं महार्हमुक्तामणिभूषितान्तम्।

परार्ध्यकालागरुचन्दनाक्तं स रावणान्तःपुरमाविवेश।।5.4.29।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे चतुर्थस्सर्गः ।।

Series Navigation<< ஸுந்தரகாண்டம் மூன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 3rd sargam audio mp3ஸுந்தரகாண்டம் ஐந்தாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 5th sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.