Categories
Narayaneeyam

நாராயணீயம் பன்னிரெண்டவது தசகம் ஒலிப்பதிவு; Narayaneeyam 12th Dashakam audio mp3


நாராயணீயம் பன்னிரெண்டவது தசகம் ஒலிப்பதிவு; Narayaneeyam 12th Dashakam audio mp3

Have given the 12th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये द्वादशं दशकम्

स्वायम्भुवो, मनुरथो, जनसर्गशीलो, दृष्ट्वा महीं, असमये सलिले, निमग्नाम् ।

स्रष्टारं, आप शरणं, भवदङ्घ्रिसेवा, तुष्टाशयं, मुनिजनै: सह, सत्यलोके ॥ १ ॥

 

कष्टं, प्रजा: सृजति मयि, अवनी निमग्ना, स्थानं सरोजभव, कल्पय तत् प्रजानाम् ।

इत्येवमेष कथितो, मनुना, स्वयंभू:, अम्भोरुहाक्ष, तव पादयुगं, व्यचिन्तीत् ॥ २ ॥

 

हा हा विभो, जलमहं, न्यपिबं पुरस्तात्, अद्यापि, मज्जति मही, किमहं, करोमि ।

इत्थं, त्वदङ्घ्रियुगलं, शरणं, यतोऽस्य, नासापुटात्, समभव:, शिशुकोलरूपी ॥ ३ ॥

 

अङ्गुष्ठमात्रवपु:, उत्पतित: पुरस्तात्, भूयोऽथ, कुम्भिसदृश:, समजृम्भथास्त्वम् ।

अभ्रे, तथाविधं, उदीक्ष्य, भवन्तं, उच्चै-र्विस्मेरतां, विधिरगात्, सह सूनुभि: स्वै: ॥ ४ ॥

 

कोऽसौ, अचिन्त्यमहिमा किटि:, उत्थितो मे नासापुटात्, किमु भवेत्, अजितस्य माया ।

इत्थं विचिन्तयति, धातरि, शैलमात्र:, सद्यो भवन् किल, जगर्जिथ, घोरघोरम् ॥ ५ ॥

 

तं, ते निनादमुपकर्ण्य, जनस्तप:स्था:, सत्यस्थिताश्च मुनय:, नुनुवुर्भवन्तम् ।

तत्स्तोत्रहर्षुलमना:, परिणद्य भूय:, तोयाशयं, विपुलमूर्ति:, अवातरस्त्वम् ॥ ६ ॥

 

ऊर्ध्वप्रसारि,परिधूम्र,विधूतरोमा, प्रोत्क्षिप्तवालधि:, अवाङ्मुख,घोरघोण: ।

तूर्णप्रदीर्णजलद:, परिघूर्णदक्ष्णा, स्तोतॄन् मुनीन्, शिशिरयन्, अवतेरिथ त्वम् ॥ ७ ॥

 

अन्तर्जलं, तदनु,संकुलनक्रचक्रं, भ्राम्यत्तिमिङ्गिलकुलं, कलुषोर्मिमालम् ।

आविश्य भीषणरवेण, रसातलस्थान्, आकम्पयन्, वसुमतीं, अगवेषयस्त्वम् ॥ ८ ॥

 

दृष्ट्वाऽथ, दैत्यहतकेन, रसातलान्ते, संवेशितां झटिति, कूटकिटिर्विभो त्वम् ।

आपातुकान्, अविगणय्य, सुरारिखेटान्, दंष्ट्राङ्कुरेण वसुधां, अदधा: सलीलम् ॥ ९ ॥

 

अभ्युद्धरन्, अथ धरां, दशनाग्रलग्न, मुस्ताङ्कुराङ्कित इव, अधिकपीवरात्मा ।

उद्धूत,घोरसलिलात्, जलधेरुदञ्चन्, क्रीडावराहवपुरीश्वर, पाहि रोगात् ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये द्वादशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 12th dashakam.

Series Navigation<< நாராயணீயம் பதினொன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 11th Dashakam audio mp3நாராயணீயம் பதிமூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 13th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.