ஸுந்தரகாண்டம் இரண்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 2nd sargam audio mp3
Sundarakandam 2nd sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் இரண்டாவது ஸர்கம்
सुन्दरकाण्डे द्वितीयस्सर्ग:
स सागरमनाधृष्यं अतिक्रम्य महाबलः।
त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह।।5.2.1।।
ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान्।
अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा।।5.2.2।।
योजनानां शतं श्रीमान् तीर्त्वापि उत्तमविक्रमः।
अनिःश्वसन् कपिस्तत्र न ग्लानिं अधिगच्छति।।5.2.3।।
शतान्यहं योजनानां क्रमेयं सूबहून्यपि।
किं पुनः सागरस्यान्तं संख्यातं शतयोजनम्।।5.2.4।।
स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः।
जगाम वेगवान् लङ्कां लङ्घयित्वा महोदधिम्।।5.2.5।।
शाद्वलानि च नीलानि गन्धवन्ति वनानि च।
गण्डवन्ति च मध्येन जगाम नगवन्ति च।।5.2.6।।
शैलांश्च तरुपिश्छन्नान् वनराजीश्च पुष्पिताः।
अभिचक्राम तेजस्वी हनुमान् प्लवगर्षभः।।5.2.7।।
स तस्मिन्नचले तिष्ठन् वनानि उपवनानि च।
स नगाग्रे स्थितां लङ्कां ददर्श पवनात्मजः।।5.2.8।।
सरलान् कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान्।
प्रियालान् मुचुलिन्दांश्च कुटजान् केतकानपि।।5.2.9।।
प्रियङ्गून् गन्धपूर्णांश्च नीपान् सप्तच्छदांस्तथा।
असनान् कोविदारांश्च करवीरांश्च पुष्पितान्।।5.2.10।।
पुष्पभारनिबद्धांश्च तथा मुकुलितानपि।
पादपान् विहगाकीर्णान् पवनाधूतमस्तकान्।।5.2.11।।
हंसकारण्डवाकीर्णा: वापीः पद्मोत्पलायुताः।
आक्रीडान् विविधान् रम्यान् विविधांश्च जलाशयान्।।5.2.12।।
सन्ततान् विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः।
उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः।।5.2.13।।
समासाद्य च लक्ष्मीवान् लङ्कां रावणपालिताम्।
परिखाभिः सपद्माभिः सोत्पलाभिरलङ्कृताम्।।5.2.14।।
सीतापहरणात्तेन रावणेन सुरक्षिताम्।
समन्ताद्विचरद्भिश्च राक्षसै: उग्रधन्विभिः।।5.2.15।।
काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम्।
गृहैश्च ग्रहसंकाशैः शारदाम्बुदसन्निभैः।।5.2.16।।
पाण्डुराभिः प्रतोलीभिरुच्चाभिरभिसंवृताम्।
अट्टालकशताकीर्णां पताकाध्वजसालिनीम्।।5.2.17।।
तोरणैः काञ्चनैर्दिव्यै: लतापङ्क्तिविचित्रितैः।
ददर्श हनुमान् लङ्कां दिवि देवपुरीं इव।।5.2.18।।
गिरिमूर्ध्निस्थितां लङ्कां पाण्डुरैर्भवनैः शुभैः।
स ददर्श कपिश्रेष्ठः पुरं आकाशगं यथा।।5.2.19।।
पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा।
प्लवमानमिवाकाशे ददर्श हनुमान् पुरीम्।।5.2.20।।
वप्रप्राकारजघनां विपुलाम्बुनवाम्बराम्।
शतघ्नीशूलकेशान्तां अट्टालकवतंसकाम्।।5.2.21।।
मनसेव कृतां लङ्कां निर्मितां विश्वकर्मणा।
द्वारमुत्तरमासाद्य चिन्तयामास वानरः।।5.2.22।।
कैलासनिलय प्रख्यं आलिखन्तं इवाम्बरम्।
डीयमानामिवाकाशं उच्छ्रितैर्भवनोत्तमैः।।5.2.23।।
सम्पूर्णां राक्षसैर्घोरै: नागै: भोगवतीमिव।
अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा।।5.2.24।।
दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्टिशपाणिभिः।
रक्षितां राक्षसैर्घोरै: गुहामाशीविषैरिव।।5.2.25।।
तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः।
रावणं च रिपुं घोरं चिन्तयामास वानरः।।5.2.26।।
आगत्यापीह हरय: भविष्यन्ति निरर्थकाः।
न हि युद्धेन वै लङ्का शक्या जेतुं सुरैरपि।।5.2.27।।
इमां तु विषमां दुर्गां लङ्कां रावणपालिताम्।
प्राप्यापि स महाबाहुः किं करिष्यति राघवः।।5.2.28।।
अवकाशो नसान्त्वस्य राक्षसेषु अभिगम्यते।
न दानस्य न भेदस्य नैव युद्धस्य दृश्यते।।5.2.29।।
चतुर्णामेव हि गति: वानराणां महात्मनाम्।
वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः।।5.2.30।।
यावज्जानामि वैदेहीं यदि जीवति वा न वा।
तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम्।।5.2.31।।
ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः।
गिरिशृङ्गे स्थितस्तस्मिन् रामस्याभ्युदये रतः।।5.2.32।।
अनेन रूपेण मया न शक्या रक्षसां पुरी।
प्रवेष्टुं राक्षसैर्गुप्ता क्रूरै: बलसमन्वितैः।।5.2.33।।
उग्रौजस: महावीर्या: बलवन्तश्च राक्षसाः।
वञ्चनीया मया सर्वे जानकीं परिमार्गता।।5.2.34।।
लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्कापुरी मया।
प्रवेष्टुं प्राप्तकालो मे कृत्यं साधयितुं महत्।।5.2.35।।
तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरैरपि।
हनुमान् चिन्तयामास विनिश्वस्य मुहुर्मुहुः।।5.2.36।।
केनोपायेन पश्येयं मैथिलीं जनकात्मजाम्।
अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना।।5.2.37।।
न विनश्येत्कथं कार्यं रामस्य विदितात्मनः।
एकामेकश्च पश्येयं रहिते जनकात्मजाम्।।5.2.38।।
भूताश्चार्था: विपद्यन्ते देशकालविरोधिताः।
विक्लबं दूतमासाद्य तमः सूर्योदये यथा।।5.2.39।।
अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते।
घातयन्ति हि कार्याणि दूताः पण्डितमानिनः।।5.2.40।।
न विनश्येत्कथं कार्यं वैक्लब्यं न कथं भवेत्।
लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत्।।5.2.41।।
मयि दृष्टे तु रक्षोभि: रामस्य विदितात्मनः।
भवेद्व्यर्थमिदं कार्यं रावणानर्थमिच्छतः।।5.2.42।।
न हि शक्यं क्वचित् स्थातुं अविज्ञातेन राक्षसैः।
अपि राक्षसरूपेण किमुतान्येन केनचित्।।5.2.43।।
वायुरपि अत्र नाज्ञात: चरेदिति मतिर्मम।
न ह्यस्ति अविदितं किञ्चित् राक्षसानां बलीयसाम्।।5.2.44।।
इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः।
विनाशमुपयास्यामि भर्तुरर्थश्च हीयते।।5.2.45।।
तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः।
लङ्कां अभिपतिष्यामि राघवस्यार्थसिद्धये।।5.2.46।।
रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम्।
विचिन्वन् भवनं सर्वं द्रक्ष्यामि जनकात्मजाम्।।5.2.47।।
इति सञ्चित्य हनुमान् सूर्यस्यास्तमयं कपिः।
आचकाङ्क्षे तदा वीर: वैदेह्या दर्शनोत्सुकः।।5.2.48।।
सूर्ये चास्तं गते रात्रौ देहं सङ्क्षिप्य मारुतिः।
पृषदंशकमात्रः सन् बभूवाद्भुतदर्शनः।।5.2.49।।
प्रदोषकाले हनुमान् तूर्णमाप्लुत्य वीर्यवान्।
प्रविवेश पुरीं रम्यां सुविभक्तमहापथाम्।।5.2.50।।
प्रासादमालाविततां स्तम्भैः काञ्चनराजतैः।
शातकुम्भमयै: जालै: गन्धर्वनगरोपमाम्।।5.2.51।।
सप्तभौमाष्टभौमैश्च स ददर्श महापुरीम्।
तलैः स्फाटिकसंकीर्णैः कार्तस्वरविभूषितैः।।5.2.52।।
वैडूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः।
तलैः शुशुभिरे तानि भवनान्यत्र रक्षसाम्।।5.2.53।।
काञ्चनानि विचित्राणि तोरणानि च रक्षसाम्।
लङ्कां उद्योतयामासुः सर्वतः समलङ्कृताम्।।5.2.54।।
अचिन्त्यां अद्भुताकारां दृष्टवा लङ्कां महाकपिः।
आसीत् विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः।।5.2.55।।
स पाण्डुरोद्विद्धविमानमालिनीं महार्हजाम्बूनदजालतोरणाम्।
यशस्विनीं रावणबाहुपालितां क्षपाचरै: भीमबलैः समावृताम्।।5.2.56।।
चन्द्रोऽपिसाचिव्यमिवास्य कुर्वन् तारागणैर्मध्यगतो विराजन्।
ज्योत्स्नावितानेन वितत्य लोकं उत्तिष्ठते नैकसहस्ररश्मि:।।5.2.57।।
शङ्खप्रभं क्षीणमृणालवर्णं उद्गच्छमानं व्यवभासमानम्।
ददर्श चन्द्रं स हरिप्रवीरः पोप्लूयमानं सरसीव हंसम्।।5.2.58।।
ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे द्वितीयस्सर्गः।।