Categories
Narayaneeyam

நாராயணீயம் பதினேழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 17th Dashakam audio mp3


நாராயணீயம் பதினேழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 17th Dashakam audio mp3

Have given the 17th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये सप्तदशं दशकम्

उत्तानपादनृपते:, मनुनन्दनस्य, जाया बभूव सुरुचि:, नितरां अभीष्टा ।

अन्या, सुनीतिरिति, भर्तु:, अनादृता सा, त्वामेव नित्यं, अगति:, शरणं गताऽभूत् ॥ १ ॥

 

अङ्के पितु:, सुरुचिपुत्रकं, उत्तमं तं, दृष्ट्वा ध्रुव: किल, सुनीतिसुतोऽधिरोक्ष्यन् ।

आचिक्षिपे किल, शिशु:, सुतरां सुरुच्या, दुस्सन्त्यजा खलु, भवद्विमुखै:, असूया ॥ २ ॥

 

त्वन्मोहिते पितरि, पश्यति दारवश्ये, दूरं दुरुक्तिनिहत:, स गतो निजाम्बाम् ।

साऽपि, स्वकर्मगतिसन्तरणाय पुंसां, त्वत्पादमेव शरणं, शिशवे शशंस ॥ ३ ॥

 

आकर्ण्य सोऽपि, भवदर्चननिश्चितात्मा, मानी निरेत्य नगरात् किल, पञ्चवर्ष: ।

सन्दृष्टनारदनिवेदित,मन्त्रमार्ग:, त्वां, आरराध तपसा, मधुकाननान्ते ॥ ४ ॥

 

ताते, विषण्णहृदये, नगरीं गतेन, श्रीनारदेन, परिसान्त्वितचित्तवृत्तौ ।

बाल:, त्वदर्पितमना:, क्रमवर्धितेन, निन्ये कठोरतपसा किल, पञ्चमासान् ॥ ५ ॥

 

तावत्तपोबलनिरुच्छ्वसिते, दिगन्ते, देवार्थितस्त्वं, उदयत्करुणार्द्रचेता: ।

त्वद्रूप,चिद्रसनिलीन मते: पुरस्तात्, आविर्बभूविथ विभो, गरुडाधिरूढ: ॥ ६ ॥

 

त्वद्दर्शनप्रमदभार,तरङ्गितं तं, दृग्भ्यां निमग्नमिव, रूपरसायने ते ।

तुष्टूषमाणं, अवगम्य, कपोलदेशे, संस्पृष्टवानसि दरेण, तथा, आऽदरेण ॥ ७ ॥

 

तावत्, विबोधविमलं, प्रणुवन्तमेनं, आभाषथास्त्वं, अवगम्य, तदीयभावम् ।

राज्यं चिरं समनुभूय, भजस्व भूय:, सर्वोत्तरं, ध्रुव, पदं, विनिवृत्तिहीनम् ॥ ८ ॥

 

इत्यूचुषि त्वयि गते, नृपनन्दनोऽसौ, आनन्दिताखिलजनो, नगरीमुपेत: ।

रेमे चिरं, भवदनुग्रहपूर्णकाम:, ताते गते च वनं, आदृतराज्यभार: ॥ ९॥

 

यक्षेण देव निहते, पुनरुत्तमेऽस्मिन्, यक्षै: स युद्धनिरतो, विरतो मनूक्त्या ।

शान्त्या, प्रसन्नहृदयात्, धनदात्, उपेतात्, त्वद्भक्तिमेव सुद्रुढां, अवृणोन्महात्मा ॥ १० ॥

 

अन्ते, भवत्पुरुषनीतविमानयातो, मात्रा समं, ध्रुवपदे, मुदितोऽयमास्ते ।

एवं, स्वभृत्यजनपालन,लोलधीस्त्वं, वातालयाधिप, निरुन्धि, मम आमयौघान् ॥ ११ ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये सप्तदशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 17th dashakam.

Series Navigation<< நாராயணீயம் பதினாறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 16th Dashakam audio mp3நாராயணீயம் பதினெட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 18th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.