Categories
Narayaneeyam

நாராயணீயம் பதினெட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 18th Dashakam audio mp3


நாராயணீயம் பதினெட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 18th Dashakam audio mp3

Have given the 18th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये अष्टादशं दशकम्

जातस्य ध्रुवकुल एव तुङ्गकीर्ते:,  अङ्गस्य व्यजनि सुत:, स वेननामा ।

तद्दोषव्यथितमति:, स राजवर्य:, त्वत्पादे, निहितमना:, वनं गतोऽभूत् ॥ १ ॥

 

पापोऽपि, क्षितितलपालनाय वेन:, पौराद्यै:, उपनिहित:, कठोरवीर्य: ।

सर्वेभ्यो, निजबलमेव, सम्प्रशंसन्, भूचक्रे, तव यजनानि, अयं, न्यरौत्सीत् ॥ २ ॥

 

सम्प्राप्ते, हितकथनाय, तापसौघे, मत्तोऽन्यो भुवनपति:, न कश्चनेति ।

त्वन्निन्दावचनपरो, मुनीश्वरैस्तै:, शापाग्नौ, शलभदशां, अनायि वेन: ॥ ३ ॥

 

तन्नाशात्, खलजनभीरुकैर्मुनीन्द्रै:, तन्मात्रा, चिरपरिरक्षिते, तदङ्गे ।

त्यक्ताघे, परिमथितात्, अथोरुदण्डात्, दोर्दण्डे, परिमथिते, त्वमाविरासी: ॥ ४ ॥

 

विख्यात: पृथुरिति, तापसोपदिष्टै:, सूताद्यै:, परिणुत,भाविभूरिवीर्य: ।

वेनार्त्या, कबलितसम्पदं धरित्रीं, आक्रान्तां, निजधनुषा, समां, अकार्षी: ॥ ५ ॥

 

भूयस्तां, निजकुलमुख्यवत्सयुक्तै:, देवाद्यै:, समुचितचारुभाजनेषु ।

अन्नादीनि, अभिलषितानि, यानि तानि, स्वच्छन्दं, सुरभितनूं, अदूदुहस्त्वम् ॥ ६ ॥

 

आत्मानं यजति मखै:, त्वयि त्रिधामन्, आरब्धे, शततम,वाजिमेधयागे ।

स्पर्धालु:, शतमख एत्य नीचवेष:, हृत्वाऽश्वं, तव तनयात्, पराजितोऽभूत् ॥ ७ ॥

 

देवेन्द्रं, मुहुरिति, वाजिनं हरन्तं, वह्नौ तं, मुनिवरमण्डले, जुहूषौ ।

रुन्धाने, कमलभवे, क्रतो: समाप्तौ, साक्षात्त्वं मधुरिपुं, ऐक्षथा:, स्वयं स्वम् ॥ ८ ॥

 

तद्दत्तं, वरमुपलभ्य, भक्तिमेकां, गङ्गान्ते, विहितपद:, कदापि देव ।

सत्रस्थं, मुनिनिवहं, हितानि शंसन्, ऐक्षिष्ठा:, सनकमुखान्, मुनीन् पुरस्तात् ॥ ९ ॥

 

विज्ञानं, सनकमुखोदितं, दधान:, स्वात्मानं, स्वयमगमो, वनान्तसेवी ।

तत्तादृक्पृथुवपुरीश, सत्वरं मे, रोगौघं प्रशमय, वातगेहवासिन् ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये अष्टादशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 18th dashakam.

Series Navigation<< நாராயணீயம் பதினேழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 17th Dashakam audio mp3நாராயணீயம் பத்தொன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 19th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.