Categories
Narayaneeyam

நாராயணீயம் முப்பத்தி ஒன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 31st Dashakam audio mp3

முப்பத்தி ஒன்றாவதுநாராயணீயம் முப்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 31st Dashakam audio mp3

Have given the 31st dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये एकत्रिंशं दशकम्

प्रीत्या दैत्य:, तव तनुमह:प्रेक्षणात्, सर्वथाऽपि,

त्वामाराध्यन्, अजित, रचयन्नञ्जलिं, सञ्जगाद ।

मत्त: किं ते समभिलषितं, विप्रसूनो, वद त्वं,

वित्तं, भक्तं, भवनं, अवनीं वाऽपि, सर्वं प्रदास्ये ॥ १ ॥

 

तां, अक्षीणां बलिगिरं, उपाकर्ण्य, कारुण्यपूर्णोपि,

अस्योत्सेकं, शमयितुमना:, दैत्यवंशं, प्रशंसन् ।

भूमिं, पादत्रयपरिमितां, प्रार्थयामासिथ त्वं,

सर्वं, देहि, इति तु निगदिते, कस्य हास्यं, न वा स्यात् ॥ २ ॥

 

विश्वेशं मां, त्रिपदं, इह किं याचसे, बालिशस्त्वं,

सर्वां भूमिं वृणु, किं अमुनेति, आलपत्, त्वां स दृप्यन् ।

यस्माद्दर्पात्, त्रिपदपरिपूर्त्यक्षम:, क्षेपवादान्,

बन्धं चासौ, अगमत्, अतदर्होऽपि, गाढोपशान्त्यै ॥ ३ ॥

 

पादत्रय्या, यदि न मुदितो, विष्टपैर्नापि तुष्येत्,

इत्युक्तेऽस्मिन् वरद, भवते, दातुकामेऽथ, तोयम् ।

दैत्याचार्य:, तव खलु परीक्षार्थिन:, प्रेरणात्तं,

मा मा देयं, हरिरयमिति, व्यक्तमेव, आबभाषे ॥ ४ ॥

 

याचत्येवं यदि स भगवान्, पूर्णकामोऽस्मि सोऽहं,

दास्याम्येव, स्थिरमिति वदन्, काव्यशप्तोऽपि, दैत्य: ।

विन्ध्यावल्या, निजदयितया, दत्तपाद्याय तुभ्यं,

चित्रं चित्रं, सकलमपि स:, प्रार्पयत्, तोयपूर्वम् ॥ ५ ॥

 

निस्सन्देहं, दितिकुलपतौ त्वयि, अशेषार्पणं तत्,

व्यातन्वाने, मुमुचु:, ऋषय:, सामरा:, पुष्पवर्षम् ।

दिव्यं रूपं, तव च, तदिदं, पश्यतां विश्वभाजां,

उच्चैरुच्चै:, अवृधत्, अवधीकृत्य, विश्वाण्ड,भाण्डम् ॥ ६ ॥

 

त्वत्पादाग्रं, निजपदगतं, पुण्डरीकोद्भवोऽसौ,

कुण्डीतोयै:, असिचत्, अपुनात्, यज्जलं, विश्वलोकान् ।

हर्षोत्कर्षात्, सुबहु ननृते, खेचरै:, उत्सवेऽस्मिन्,

भेरीं निघ्नन्, भुवनमचरत्, जाम्बवान्, भक्तिशाली ॥ ७ ॥

 

तावद्दैत्यास्तु, अनुमतिं, ऋते भर्तु:, आरब्धयुद्धा:,

देवोपेतै:, भवदनुचरै:, सङ्गता:, भङ्गमापन् ।

कालात्माऽयं, वसति पुरत:, यद्वशात्, प्राग्जिता: स्म:,

किं वो युद्धै:, इति बलिगिरा, तेऽथ, पातालमापु: ॥ ८ ॥

 

पाशैर्बद्धं, पतगपतिना, दैत्यमुच्चै:, अवादी:,

तार्त्तीयीकं, दिश मम पदं, किं न, विश्वेश्वरोऽसि ।

पादं मूर्ध्नि, प्रणय भगवन्, इत्यकम्पं, वदन्तं,

प्रह्लाद्स्तं, स्वयमुपगत:, मानयन्, अस्तवीत्त्वाम् ॥ ९ ॥

 

दर्पोच्छित्त्यै, विहितमखिलं दैत्य, सिद्धोऽसि पुण्यै:,

लोकस्तेऽस्तु, त्रिदिवविजयी, वासवत्वं, च पश्चात् ।

मत्सायुज्यं भज च पुनरिति, अन्वगृह्णा:, बलिं तं,

विप्रै:, सन्तानितमखवर:, पाहि वातालयेश ॥ १० ॥

ॐ तत्सदिति श्रीमन्नारायणीये एकत्रिंशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 31st dashakam.

Series Navigation<< நாராயணீயம் முப்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 30th Dashakam audio mp3நாராயணீயம் முப்பத்தி இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 32nd Dashakam audio mp3 >>

One reply on “நாராயணீயம் முப்பத்தி ஒன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 31st Dashakam audio mp3”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.