Categories
Narayaneeyam

நாராயணீயம் முப்பத்தி இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 32nd Dashakam audio mp3

நாராயணீயம் முப்பத்திஇரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 32nd Dashakam audio mp3

Have given the 32nd dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये द्वात्रिंशं दशकम्

पुरा, हयग्रीवमहासुरेण, षष्ठान्तरान्तोद्यदकाण्डकल्पे ।

निद्रोन्मुखब्रह्ममुखात्, हृतेषु वेदेषु, अधित्स: किल मत्स्यरूपम् ॥ १ ॥

 

सत्यव्रतस्य, द्रमिलाधिभर्तु:, नदीजले, तर्पयत:, तदानीम् ।

कराञ्जलौ सन्, ज्वलिताकृतिस्त्वं, अदृश्यथा:, कश्चन बालमीन: ॥ २ ॥

 

क्षिप्तं जले त्वां, चकितं विलोक्य, निन्ये, अम्बुपात्रेण, मुनि: स्वगेहम् ।

स्वल्पै:, अहोभि:, कलशीं च कूपं, वापीं सरश्च, आनशिषे, विभो त्वम् ॥ ३ ॥

 

योगप्रभावात्, भवदाज्ञयैव, नीतस्ततस्त्वं, मुनिना पयोधिम् ।

पृष्टोऽमुना, कल्पदिदृक्षुमेनं, सप्ताहमास्वेति, वदन्, अयासी: ॥ ४ ॥

 

प्राप्ते त्वदुक्तेऽहनि, वारिधारापरिप्लुते, भूमितले मुनीन्द्र: ।

सप्तर्षिभि: सार्धं, अपारवारिणि, उद्घूर्णमान:, शरणं ययौ त्वाम् ॥ ५ ॥

 

धरां, त्वदादेशकरीं अवाप्तां, नौरूपिणीं, आरुरुहुस्तदा ते ।

तत्कम्पकम्प्रेषु च तेषु भूय:, त्वं, अम्बुधे:, आविरभूर्महीयान् ॥ ६ ॥

 

झषाकृतिं, योजनलक्षदीर्घां, दधानं, उच्चैस्तरतेजसं त्वाम् ।

निरीक्ष्य तुष्टा:, मुनयस्त्वदुक्त्या, त्वत्तुङ्गशृङ्गे, तरणिं बबन्धु: ॥ ७ ॥

 

आकृष्टनौको, मुनिमण्डलाय प्रदर्शयन् विश्वजगद्विभागान् ।

संस्तूयमानो, नृवरेण तेन, ज्ञानं परं चोपदिशन्, अचारी: ॥ ८ ॥

 

कल्पावधौ, सप्तमुनीन् पुरोवत्, प्रस्थाप्य, सत्यव्रतभूमिपं तम् ।

वैवस्वताख्यं, मनुं, आदधान:, क्रोधात्, हयग्रीवं, अभिद्रुतोऽभू: ॥ ९ ॥

 

स्वतुङ्गशृङ्गक्षतवक्षसं तं, निपात्य दैत्यं, निगमान् गृहीत्वा ।

विरिञ्चये, प्रीतहृदे ददान:, प्रभञ्जनागारपते, प्रपाया: ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये द्वात्रिंशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

மத்ஸ்யாவதாரம் உபன்யாசம்

If you prefer regular lyrics it can be found here – Narayaneeyam 32nd dashakam.

Series Navigation<< நாராயணீயம் முப்பத்தி ஒன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 31st Dashakam audio mp3நாராயணீயம் முப்பத்தி மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 33rd Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.