Categories
Narayaneeyam

நாராயணீயம் முப்பத்தி மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 33rd Dashakam audio mp3


நாராயணீயம் மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 33rd Dashakam audio mp3

Have given the 33rd dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये त्रयत्रिंशं दशकम्

वैवस्वताख्यमनुपुत्र,नभागजात,

नाभागनामकनरेन्द्रसुतोऽम्बरीष: ।

सप्तार्णवावृतमहीदयितोऽपि रेमे,

त्वत्सङ्गिषु त्वयि च, मग्नमनास्सदैव ॥ १ ॥

 

त्वत्प्रीतये, सकलमेव वितन्वतोऽस्य,

भक्त्यैव देव, नचिरात्, अभृथा: प्रसादम् ।

येनास्य याचनं, ऋतेऽपि, अभिरक्षणार्थं,

चक्रं भवान्, प्रविततार, सहस्रधारम् ॥ २ ॥

 

स द्वादशीव्रतमथो, भवदर्चनार्थं,

वर्षं दधौ मधुवने, यमुनोपकण्ठे ।

पत्न्या समं, सुमनसा, महतीं वितन्वन्

पूजां, द्विजेषु विसृजन् पशुषष्टिकोटिम् ॥ ३ ॥

 

तत्राथ पारणदिने, भवदर्चनान्ते,

दुर्वाससाऽस्य मुनिना, भवनं प्रपेदे ।

भोक्तुं वृतश्च स नृपेण, परार्तिशील:,

मन्दं जगाम यमुनां, नियमान्, विधास्यन् ॥ ४ ॥

 

राज्ञाऽथ, पारणमुहूर्तसमाप्तिखेदात्,

वारैव पारणं, अकारि, भवत्परेण ।

प्राप्तो मुनिस्तदथ, दिव्यदृशा विजानन्,

क्षिप्यन्, क्रुधा, उद्धृतजटो, विततान कृत्याम् ॥ ५ ॥

 

कृत्यां च तां, असिधरां, भुवनं दहन्तीं,

अग्रेऽभिवीक्ष्यनृपति:, न पदाच्चकम्पे ।

त्वद्भक्तबाधं, अभिवीक्ष्य, सुदर्शनं ते,

कृत्यानलं शलभयन्, मुनिं, अन्वधावीत् ॥ ६ ॥

 

धावन्, अशेषभुवनेषु, भिया स पश्यन्,

विश्वत्र, चक्रं, अपि ते गतवान्, विरिञ्चम् ।

क: कालचक्रं, अतिलङ्घयतीत्यपास्त:,

शर्वं ययौ, स च भवन्तं, अवन्दतैव ॥ ७ ॥

 

भूयो भवन्निलयमेत्य, मुनिं नमन्तं,

प्रोचे भवान्, अहं, ऋषे, ननु भक्तदास: ।

ज्ञानं तपश्च विनयान्वितमेव, मान्यं,

याहि, अम्बरीषपदमेव, भजेति भूमन् ॥ ८ ॥

 

तावत्समेत्य, मुनिना, स गृहीतपाद:,

राजा, अपसृत्य, भवदस्त्रं, असौ, अनौषीत् ।

चक्रे गते, मुनिरदात्, अखिलाशिषोऽस्मै,

त्वद्भक्तिं, आगसि कृतेऽपि, कृपां च शंसन् ॥ ९ ॥

 

राजा प्रतीक्ष्य मुनिं, एकसमां, अनाश्वान्,

सम्भोज्य, साधु तं, ऋषिं, विसृजन् प्रसन्नम् ।

भुक्त्वा स्वयं, त्वयि ततोऽपि, दृढं रतोऽभूत्,

सायुज्यमाप च स:, मां, पवनेश, पाया: ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये त्रयत्रिंशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

அம்பரீஷ சரிதம்

If you prefer regular lyrics it can be found here – Narayaneeyam 33rd dashakam.

Series Navigation<< நாராயணீயம் முப்பத்தி இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 32nd Dashakam audio mp3நாராயணீயம் முப்பத்தி நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 34th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.