Categories
Narayaneeyam

நாராயணீயம் முப்பத்தி நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 34th Dashakam audio mp3


நாராயணீயம் நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 34th Dashakam audio mp3

Have given the 34th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये चतुस्त्रिंशं दशकम्

गीर्वाणैरर्थ्यमानो, दशमुखनिधनं, कोसलेषु, ऋश्यशृङ्गे,

पुत्रीयां, इष्टिमिष्ट्वा, ददुषि, दशरथक्ष्माभृते, पायसाग्र्यम् ।

तद्भुक्त्या तत्पुरन्ध्रीष्वपि, तिसृषु समं, जातगर्भासु, जातो

रामस्त्वं लक्ष्मणेन, स्वयमथ, भरतेनापि, शत्रुघ्ननाम्ना ॥ १ ॥

 

कोदण्डी, कौशिकस्य क्रतुवरं, अवितुं, लक्ष्मणेनानुयातो,

यातोऽभू:, तातवाचा, मुनिकथित,मनुद्वन्द्व,शान्ताध्वखेद: ।

नॄणां त्राणाय, बाणै:, मुनिवचनबलात्, ताटकां पाटयित्वा,

लब्ध्वास्मात्, अस्त्रजालं, मुनिवनमगमो देव, सिद्धाश्रमाख्यम् ॥ २ ॥

 

मारीचं द्रावयित्वा, मखशिरसि शरै:, अन्यरक्षांसि निघ्नन्,

कल्यां कुर्वन्नहल्यां, पथि, पदरजसा, प्राप्य वैदेहगेहम् ।

भिन्दानश्चान्द्रचूडं धनु:, अवनिसुतां, इन्दिरामेव लब्ध्वा,

राज्यं, प्रातिष्ठथास्त्वं, त्रिभिरपि च समं, भ्रातृवीरै:, सदारै: ॥ ३ ॥

 

आरुन्धाने रुषान्धे, भृगुकुल तिलके, संक्रमय्य स्वतेज:,

याते, यातोसि, अयोध्यां, सुखमिह निवसन्, कान्तया, कान्तमूर्ते ।

शत्रुघ्नेन, एकदाथो, गतवति भरते, मातुलस्याधिवासं,

तातारब्धोऽभिषेक:, तव किल विहत:, केकयाधीशपुत्र्या ॥ ४ ॥

 

तातोक्त्या यातुकामो वनं, अनुजवधूसंयुत:, चापधार:,

पौरान्, आरुध्य मार्गे, गुहनिलयगत:, त्वं, जटाचीरधारी ।

नावा सन्तीर्य गङ्गां, अधिपदवि पुन:, तं भरद्वाजं आरात्,

नत्वा, तद्वाक्यहेतो:, अतिसुखं अवस:, चित्रकूटे, गिरीन्द्रे ॥ ५ ॥

 

श्रुत्वा, पुत्रार्तिखिन्नं खलु, भरतमुखात्, स्वर्गयातं स्वतातं,

तप्तो, दत्वाऽम्बु तस्मै, निदधिथ भरते, पादुकां, मेदिनीं च ।

अत्रिं नत्वाऽथ, गत्वा वनमतिविपुलं दण्डकं, चण्डकायं

हत्वा दैत्यं, विराधं, सुगतिमकलय:, चारु भो:, शारभङ्गीम् ॥ ६ ॥

 

नत्वा अगस्त्यं, समस्ताशरनिकरसपत्राकृतिं, तापसेभ्य:,

प्रत्यश्रौषी:, प्रियैषी, तदनु च मुनिना, वैष्णवे, दिव्यचापे ।

ब्रह्मास्त्रे चापि दत्ते पथि, पितृसुहृदं, वीक्ष्य भूयो जटायुं,

मोदात्, गोदातटान्ते, परिरमसि पुरा, पञ्चवट्यां, वधूट्या ॥ ७ ॥

 

प्राप्ताया:, शूर्पणख्या:, मदनचलधृते:, अर्थनैर्निस्सहात्मा,

तां सौमित्रौ विसृज्य, प्रबलतमरुषा, तेन, निर्लूननासाम् ।

दृष्ट्वैनां रुष्टचित्तं, खरं, अभिपतितं, दूषणं च त्रिमूर्धं,

व्याहिंसी:, आशरानपि, अयुतसमधिकान्, तत्क्षणात्, अक्षतोष्मा ॥ ८ ॥

 

सोदर्या,प्रोक्तवार्ताविवश,दशमुखादिष्ट,मारीचमाया-

सारङ्गं, सारसाक्ष्या स्पृहितं, अनुगत: प्रावधी:, बाणघातम् ।

तन्मायाक्रन्दनिर्यापित,भवदनुजां, रावण:, तामहार्षीत्,

तेन आर्तोऽपि, त्वमन्त: किमपि मुदमधा:, तद्वधोपाय, लाभात् ॥ ९ ॥

 

भूयस्तन्वीं, विचिन्वन्, अहृत दशमुख:, त्वद्वधूं, मद्वधेनेति,

उक्त्वा, याते जटायौ दिवं, अथ सुहृद:, प्रातनो:, प्रेतकार्यम् ।

गृह्णानं तं कबन्धं, जघनिथ, शबरीं प्रेक्ष्य, पम्पातटे त्वं,

सम्प्राप्तो, वातसूनुं, भृशमुदितमना:, पाहि वातालयेश ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये चतुस्त्रिंशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 34th dashakam.

Series Navigation<< நாராயணீயம் முப்பத்தி மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 33rd Dashakam audio mp3நாராயணீயம் முப்பத்தி ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 35th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.