Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் எட்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 8th sargam audio mp3

ஸுந்தரகாண்டம் எட்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 8th sargam audio mp3

Sundarakandam 8th sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் எட்டாவது ஸர்கம்

सुन्दरकाण्डे अष्टमस्सर्ग:

स तस्य मध्ये भवनस्य संस्थितं महद्विमानं बहुरत्नचित्रितम्।

प्रतप्तजाम्बूनदजालकृत्रिमं ददर्श वीरः पवनात्मजः कपिः।।5.8.1।।

तदप्रमेयाप्रतिकारकृत्रिमं कृतं स्वयं साध्विति विश्वकर्मणा।

दिवं गतं वायुपथे प्रतिष्ठितं व्यराजतादित्यपथस्य लक्ष्मवत्।।5.8.2।।

न तत्र किंचिन्न कृतं प्रयत्नतः न तत्र किंचिन्न महार्हरत्नवत्।

न ते विशेषाः नियताः सुरेष्वपि न तत्र किंचिन्न महाविशेषवत्।।5.8.3।।

तपः समाधानपराक्रमार्जितं मनः समाधानविचारचारिणम्।

अनेकसंस्थानविशेषनिर्मितं ततस्ततस्तुल्यविशेषदर्शनम्।।5.8.4।।

मनः समाधाय तु शीघ्रगामिनं दुरावरं मारुततुल्यगामिनम् ।

महात्मनां पुण्यकृतां महर्द्धिनां यशस्विनामग्र्यमुदामिवालयम्।।5.8.5।।

विशेषमालम्ब्य विशेषसंस्थितं विचित्रकूटं बहुकूटमण्डितम्।

मनोऽभिरामं शरदिन्दुनिर्मलं विचित्रकूटं शिखरं गिरेर्यथा।।5.8.6।।

वहन्ति यं कुण्डलशोभिताननाः महाशनाः व्योमचराः निशाचराः।

निवृत्तविध्वस्तविशाललोचनाः महाजवाः भूतगणाः सहस्रशः।।5.8.7।।

वसन्तपुष्पोत्करचारुदर्शनं वसन्तमासादपि कान्तदर्शनम्।

स पुष्पकं तत्र विमानमुत्तमं ददर्श तद्वानरवीरसत्तमः।।5.8.8।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे अष्टमस्सर्ग: ।।

Series Navigation<< ஸுந்தரகாண்டம் எழாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 7th sargam audio mp3ஸுந்தரகாண்டம் ஒன்பதாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 9th sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.