Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் பதினெட்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 18th sargam audio mp3

ஸுந்தரகாண்டம் பதினெட்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 18th sargam audio mp3

Sundarakandam 18th sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் பதினெட்டாவது ஸர்கம்

सुन्दरकाण्डे अष्टादशस्सर्ग:

तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम्।

विचिन्वतश्च वैदेहीं किंचिच्छेषा निशाभवत्।।5.18.1।।

षडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम्।

शुश्राव ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम्।।5.18.2।।

अथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः।

प्राबुध्यत महाबाहुः दशग्रीवो महाबलः।।5.18.3।।

विबुध्य तु यथाकालं राक्षसेन्द्रः प्रतापवान्।

स्रस्तमाल्याम्बरधरः वैदेहीमन्वचिन्तयत्।।5.18.4।।

भृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः।

न स तं राक्षसः कामं शशाकात्मनि गूहितुम्।।5.18.5।।

स सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम्।

तां नगैर्बहुभिर्जुष्टां सर्वपुष्पफलोपगैः।।5.18.6।।

वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम्।

सदामदैश्च विहगैर्विचित्रां परमाद्भुतैः।।5.18.7।।

ईहामृगैश्च विविधैर्जुष्टां दृष्टिमनोहरैः।

वीथीः संप्रेक्षमाणश्च मणिकाञ्चनतोरणाः।।5.18.8।।

नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम्।

अशोकवनिकामेव प्राविशत् संततद्रुमाम्।।5.18.9।।

अङ्गनाशतमात्रं तु तं व्रजन्तमनुव्रजत्।

महेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः।।5.18.10।।

दीपिकाः काञ्चनीः काश्चिज्जगृहुस्तत्र योषितः।

वालव्यजनहस्ताश्च तालवृन्तानि चापराः।।5.18.11।।

काञ्चनैरपि भृङ्गारैर्जह्रुः सलिलमग्रतः।

मण्डलाग्रान् बृसीश्चैव गृह्यान्याः पृष्ठतो ययुः।।5.18.12।।

काचिद्रत्नमयीं स्थालीं पूर्णां पानस्य भामिनी।

दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना।।5.18.13।।

राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम्।

सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ।।5.18.14।।

निद्रामदपरीताक्ष्य: रावणस्योत्तमाः स्त्रियः।

अनुजग्मुः पतिं वीरं घनं विद्युल्लता इव।।5.18.15।।

व्याविद्धहारकेयूराः समामृदितवर्णकाः।

समागलितकेशान्ताः सस्वेदवदनास्तथा।।5.18.16।।

घूर्णन्त्यः मदशेषेण निद्रया च शुभाननाः।

स्वेदक्लिष्टाङ्गकुसुमाः सुमाल्याकुलमूर्धजाः।।5.18.17।।

प्रयान्तं नैऋतपतिं नार्यः मदिरलोचनाः।

बहुमानाच्च कामाच्च प्रिया भार्यास्तमन्वयुः।।5.18.18।।

स च कामपराधीन: पतिस्तासां महाबलः।

सीतासक्तमना मन्दः मदाञ्चितगतिर्बभौ।।5.18.19।।

ततः काञ्चीनिनादं च नूपुराणां च निःस्वनम्।

शुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः।।5.18.20।।

तं च अप्रतिमकर्माणमचिन्त्यबलपौरुषम्।

द्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः।।5.18.21।।

दीपिकाभिरनेकाभिः समन्तादवभासितम्।

गन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः।।5.18.22।।

कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम्।

समक्षमिव कंदर्पमपविद्धशरासनम्।।5.18.23।।

मथितामृतफेनाभमरजो वस्त्रमुत्तमम्।

सलीलमनुकर्षन्तं विस्स्रस्तं सक्तमङ्गदे।।5.18.24।।

तं पत्रविटपे लीनः पत्रपुष्पघनावृतः।

समीपमुपसंक्रान्तं निध्यातुमुपचक्रमे।।5.18.25।।

अवेक्षमाणस्तु ततः ददर्श कपिकुञ्जरः।

रूपयौवनसंपन्नाः रावणस्य वरस्त्रियः।।5.18.26।।

ताभिः परिवृतो राजा सुरूपाभिः महायशाः।

तन्मृगद्विजसंघुष्टं प्रविष्टः प्रमदावनम्।।5.18.27।।

क्षीबः विचित्राभरणः शङ्कुकर्णो महाबलः।

तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः।।5.18.28।।

वृतः परमनारीभिस्ताराभिरिव चन्द्रमाः।

तं ददर्श महातेजाः तेजोवन्तं महाकपिः।।5.18.29।।

रावणोऽयं महाबाहुरिति संचिन्त्य वानरः।।5.18.30।।

स तथाप्युग्रतेजाः सन्निर्धूतस्तस्य तेजसा।5.18.31।।

पत्रगुल्मान्तरे सक्तो हनुमान् संवृतोऽभवत्।

स तामसितकेशान्तां सुश्रोणीं संहतस्त्नीम्।।5.18.32।।

दिदृक्षुरसितापाङ्गामुपावर्तत रावणः।।5.18.33।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे अष्टादशस्सर्ग: ।।

Series Navigation<< ஸுந்தரகாண்டம் பதினேழாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 17th sargam audio mp3ஸுந்தரகாண்டம் பத்தொன்பதாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 19th sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.