Categories
Narayaneeyam

நாராயணீயம் இருபதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 20th Dashakam audio mp3


நாராயணீயம் இருபதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 20th Dashakam audio mp3

Have given the 20th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये विंशं दशकम्

प्रियव्रतस्य, प्रियपुत्रभूतात्, आग्नीध्रराजात्, उदितो हि नाभि: ।

त्वां दृष्टवान्, इष्टदं इष्टिमध्ये, तवैव तुष्ट्यै, कृतयज्ञकर्मा ॥ १ ॥

अभिष्टुतस्तत्र मुनीश्वरैस्त्वं, राज्ञ:, स्वतुल्यं सुतं, अर्थ्यमान: ।

स्वयं जनिष्येऽहं, इति ब्रुवाण:, तिरोदधा:, बर्हिषि, विश्वमूर्ते ॥ २ ॥

नाभिप्रियायां, अथ मेरुदेव्यां, त्वं अंशतोऽभू:,
ऋषभाभिधान: ।

अलोकसामान्यगुणप्रभाव,प्रभाविताशेषजनप्रमोद: ॥ ३ ॥

त्वयि त्रिलोकीभृति, राज्यभारं, निधाय नाभि:, सह मेरुदेव्या ।

तपोवनं प्राप्य, भवन्निषेवी, गत: किल, आनन्दपदं पदं ते ॥ ४ ॥

इन्द्र:, त्वदुत्कर्षकृतात्, अमर्षात्, ववर्ष नास्मिन्, अजनाभवर्षे ।

यदा तदा त्वं, निजयोगशक्त्या, स्ववर्षमेनत्, व्यदधा: सुवर्षम् ॥ ५ ॥

जितेन्द्रदत्तां, कमनीं जयन्तीं, अथोद्वहन्, आत्मरताशयोऽपि ।

अजीजन:, तत्र शतं तनूजान्, एषां क्षितीशो, भरतोऽग्रजन्मा ॥ ६ ॥

नवाभवन्, योगिवरा:, नवान्येतु, अपालयन् भारतवर्षखण्डान् ।

सैका त्वशीति:, तव शेषपुत्रा:, तपोबलात्, भूसुरभूयमीयु: ॥ ७ ॥

उक्त्वा सुतेभ्योऽथ, मुनीन्द्रमध्ये, विरक्तिभक्त्यन्वितमुक्तिमार्गम् ।

स्वयं गत: पारमहंस्यवृत्तिं, अधा:, जडोन्मत्तपिशाचचर्याम् ॥ ८ ॥

परात्मभूतोऽपि, परोपदेशं, कुर्वन् भवान्, सर्वनिरस्यमान: ।

विकारहीनो, विचचार कृत्स्नां, महीं, अहीनात्मरसाभिलीन: ॥ ९ ॥

शयुव्रतं, गोमृगकाक चर्यां, चिरं चरन्नाप्य, परं स्वरूपम् ।

दवाहृताङ्ग:, कुटकाचले त्वं, तापान् मम, अपाकुरु, वातनाथ ॥ १० ॥

ॐ तत्सदिति श्रीमन्नारायणीये विंशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 20th dashakam.

Series Navigation<< நாராயணீயம் பத்தொன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 19th Dashakam audio mp3நாராயணீயம் இருபத்தி ஒன்றாம் தசகம் ஒலிப்பதிவு; Narayaneeyam 21st Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.