Categories
Narayaneeyam

நாராயணீயம் இருபத்தி ஒன்றாம் தசகம் ஒலிப்பதிவு; Narayaneeyam 21st Dashakam audio mp3


நாராயணீயம் இருபத்தி ஒன்றாம் தசகம் ஒலிப்பதிவு; Narayaneeyam 21st Dashakam audio mp3

Have given the 21st dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये एकविंशं दशकम्

मध्योद्भवे भुव:, इलावृतनाम्नि वर्षे, गौरीप्रधान,वनिताजनमात्रभाजि ।

शर्वेण, मन्त्रनुतिभि: समुपास्यमानं, सङ्कर्षणात्मकं, अधीश्वर, संश्रये त्वाम् ॥ १ ॥

 

भद्राश्वनामके, इलावृतपूर्ववर्षे, भद्रश्रवोभि:, ऋषिभि:, परिणूयमानम् ।

कल्पान्तगूढ,निगमोद्धरणप्रवीणं, ध्यायामि देव, हयशीर्षतनुं, भवन्तम् ॥ २ ॥

 

ध्यायामि, दक्षिणगते, हरिवर्षवर्षे, प्रह्लादमुख्यपुरुषै:, परिषेव्यमाणम् ।

उत्तुङ्गशान्तधवलाकृतिं, एकशुद्धज्ञानप्रदं, नरहरिं, भगवन् भवन्तम् ॥ ३ ॥

 

वर्षे प्रतीचि, ललितात्मनि केतुमाले, लीलाविशेष,ललितस्मित,शोभनाङ्गम् ।

लक्ष्म्या, प्रजापतिसुतैश्च, निषेव्यमाणं, तस्या: प्रियाय, धृतकामतनुं, भजे त्वाम् ॥ ४ ॥

 

रम्येsपि, उदीचि खलु, रम्यकनाम्नि वर्षे, तद्वर्षनाथ,मनुवर्यसपर्यमाणम् ।

भक्तैकवत्सलं, अमत्सरहृत्सु भान्तं, मत्स्याकृतिं भुवननाथ, भजे भवन्तम् ॥ ५ ॥

 

वर्षं हिरण्मयसमाह्वयं, औत्तराहं, आसीनं, अद्रिधृतिकर्मठकामठाङ्गम् ।

संसेवते, पितृगणप्रवरोऽर्यमा यं, तं त्वां भजामि, भगवन्, परचिन्मयात्मन् ॥ ६ ॥

 

किञ्च, उत्तरेषु कुरुषु, प्रियया धरण्या, संसेवितो, महितमन्त्रनुतिप्रभेदै: ।

दंष्ट्राग्रघृष्टघनपृष्ठगरिष्ठवर्ष्मा, त्वं पाहि, विज्ञनुत, यज्ञवराहमूर्ते ॥ ७ ॥

 

याम्यां दिशं भजति, किंपुरुषाख्यवर्षे, संसेवितो हनुमता, दृढभक्तिभाजा ।

सीताभिराम,परमाद्भुतरूपशाली, रामात्मक: परिलसन्, परिपाहि विष्णो ॥ ८ ॥

 

श्रीनारदेन, सह भारतखण्डमुख्यै:, त्वं साङ्ख्ययोगनुतिभि:, समुपास्यमान: ।

आकल्पकालमिह, साधुजनाभिरक्षी, नारायणो, नरसख:, परिपाहि भूमन् ॥ ९ ॥

 

प्लाक्षेऽर्करूपं, अयि शाल्मले, इन्दुरूपं, द्वीपे भजन्ति, कुशनामनि, वह्निरूपम् ।

क्रौञ्चेऽम्बुरूपं, अथ, वायुमयं च शाके, त्वां ब्रह्मरूपं, अयि पुष्करनाम्नि लोका: ॥ १० ॥

 

सर्वै:, ध्रुवादिभि:, उडुप्रकरैर्ग्रहैश्च, पुच्छादिकेषु, अवयवेषु, अभिकल्प्यमानै: ।

त्वं शिंशुमारवपुषा, महतामुपास्य:सन्ध्यासु, रुन्धि नरकं मम, सिन्धुशायिन् ॥ ११ ॥

 

पातालमूलभुवि, शेषतनुं भवन्तं, लोलैककुण्डलविराजि,सहस्रशीर्षम् ।

नीलाम्बरं, धृतहलं, भुजगाङ्गनाभि: जुष्टं, भजे, हर गदान् गुरुगेहनाथ ॥ १२ ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये एकविंशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 21st dashakam.

Series Navigation<< நாராயணீயம் இருபதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 20th Dashakam audio mp3நாராயணீயம் இருபத்தி இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 22nd Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.