Categories
Narayaneeyam

நாராயணீயம் இருபத்தி இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 22nd Dashakam audio mp3


நாராயணீயம் இருபத்தி இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 22nd Dashakam audio mp3

Have given the 22nd dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये द्वाविंशं दशकम्

अजामिलो नाम, महीसुर: पुरा, चरन् विभो, धर्मपथान्, गृहाश्रमी ।

गुरोर्गिरा, काननमेत्य दृष्टवान्, सुधृष्टशीलां, कुलटां, मदाकुलाम् ॥ १ ॥

 

स्वत: प्रशान्तोऽपि, तदाहृताशय:, स्वधर्मं उत्सृज्य, तया समारमन् ।

अधर्मकारी, दशमी भवन् पुन:, दधौ, भवन्नामयुते, सुते रतिम् ॥ २ ॥

 

स मृत्युकाले, यमराजकिङ्करान्, भयङ्करान्, त्रीन्, अभिलक्षयन् भिया ।

पुरा मनाक्, त्वत्स्मृतिवासनाबलात्, जुहाव, नारायणनामकं, सुतम् ॥ ३ ॥

 

दुराशयस्यापि, तदास्यनिर्गतत्वदीय,नामाक्षरमात्रवैभवात् ।

पुरोऽभिपेतु:, भवदीयपार्षदा:, चतुर्भुजा:, पीतपटा:, मनोहरा: ॥ ४ ॥

 

अमुं च, संपश्य विकर्षतो भटान्, विमुञ्चत, इति, आरुरुधुर्बलादमी ।

निवारितास्ते च, भवज्जनैस्तदा, तदीयपापं, निखिलं, न्यवेदयन् ॥ ५ ॥

 

भवन्तु पापानि, कथं तु निष्कृते कृतेऽपि, भो:, दण्डनमस्ति पण्डिता: ।

न निष्कृति:, किं विदिता भवादृशां, इति प्रभो, त्वत्पुरुषा: बभाषिरे ॥ ६ ॥

 

श्रुतिस्मृतिभ्यां, विहिता व्रतादय:, पुनन्ति पापं, न लुनन्ति वासनाम् ।

अनन्तसेवा तु, निकृन्ततिद्वयीं, इति प्रभो, त्वत्पुरुषा:, बभाषिरे ॥ ७ ॥

 

अनेन भो:, जन्मसहस्रकोटिभि:, कृतेषु पापेष्वपि, निष्कृति: कृता ।

यत्, अग्रहीन्नाम, भयाकुलो हरे:, इति प्रभो, त्वत्पुरुषा: बभाषिरे ॥ ८ ॥

 

नृणां, अबुद्ध्यापि, मुकुन्दकीर्तनं, दहत्यघौघान्, महिमास्य तादृश: ।

यथा, अग्निरेधांसि, यथा, औषधं गदान्, इति प्रभो, त्वत्पुरुषा: बभाषिरे ॥ ९ ॥

 

इतीरितै:, याम्यभटैरपासृते,  भवद्भटानां च गणे, तिरोहिते ।

भवत्स्मृतिं, कंचन कालमाचरन्, भवत्पदं प्रापि, भवद्भटैरसौ ॥ १० ॥

 

स्वकिङ्करावेदन, शङ्कितो यम:, त्वदंघ्रिभक्तेषु, न गम्यतामिति ।

स्वकीयभृत्यान्, अशिशिक्षदुच्चकै:, स देव, वातालयनाथ, पाहि माम् ॥ ११ ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये द्वाविंशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

அஜாமிளோபாக்யானம்

If you prefer regular lyrics it can be found here – Narayaneeyam 22nd dashakam.

Series Navigation<< நாராயணீயம் இருபத்தி ஒன்றாம் தசகம் ஒலிப்பதிவு; Narayaneeyam 21st Dashakam audio mp3நாராயணீயம் இருபத்தி மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 23rd Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.