Categories
Narayaneeyam

நாராயணீயம் இருபத்தி மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 23rd Dashakam audio mp3


நாராயணீயம் இருபத்தி மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 23rd Dashakam audio mp3

Have given the 23rd dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये त्रयोविंशं दशकम्

प्राचेतसस्तु भगवन्, अपरो हि दक्ष:, त्वत्सेवनं व्यधित, सर्गविवृद्धिकाम: ।

आविर्बभूविथ तदा, लसदष्टबाहु:, तस्मै वरं ददिथ, तां च वधूं, असिक्नीम् ॥ १ ॥

 

तस्यात्मजास्तु, अयुतमीश, पुनस्सहस्रं, श्रीनारदस्य वचसा, तव मार्गमापु: ।

नैकत्रवासं, ऋषये, स मुमोच शापं, भक्तोत्तमस्तु ऋषि:, अनुग्रहमेव मेने ॥ २ ॥

 

षष्ट्या ततो दुहितृभि:, सृजत: कुलौघान्, दौहित्रसूनु:, अथ तस्य, स विश्वरूप: ।

त्वत्स्तोत्रवर्मितं, अजापयत्, इन्द्रमाजौ, देव, त्वदीयमहिमा खलु, सर्वजैत्र: ॥ ३ ॥

 

प्राक्शूरसेनविषये किल, चित्रकेतु:, पुत्राग्रही:, नृपति:, अङ्गिरस: प्रभावात् ।

लब्ध्वैकपुत्रं, अथ तत्र हते, सपत्नीसङ्घै:, अमुह्यदवश:, तव माययासौ ॥ ४ ॥

 

तं, नारदस्तु सममङ्गिरसा दयालु:, सम्प्राप्य तावत्, उपदर्श्य, सुतस्य जीवम् ।

कस्यास्मि, पुत्र इति, तस्य गिरा विमोहं त्यक्त्वा, त्वदर्चनविधौ, नृपतिं न्ययुङ्क्त ॥ ५ ॥

 

स्तोत्रं च मन्त्रमपि, नारदतोऽथ लब्ध्वा, तोषाय शेषवपुषो, ननु ते तपस्यन् ।

विद्याधराधिपतितां, स हि सप्तरात्रे, लब्ध्वापि, अकुण्ठमति:, अन्वभजत्, भवन्तम् ॥ ६ ॥

 

तस्मै मृणालधवलेन, सहस्रशीर्ष्णा, रूपेण, बद्धनुतिसिद्धगणावृतेन ।

प्रादुर्भवन्, अचिरतो, नुतिभि: प्रसन्न:, दत्वा, आत्मतत्त्वमनुगृह्य, तिरोदधाथ ॥ ७ ॥

 

त्वद्भक्तमौलि:, अथ, सोऽपि च, लक्षलक्षं वर्षाणि, हर्षुलमना:, भुवनेषु कामम् ।

सङ्गापयन् गुणगणं तव, सुन्दरीभि:, सङ्गातिरेकरहितो, ललितं चचार ॥ ८ ॥

 

अत्यन्तसङ्गविलयाय, भवत्प्रणुन्न:, नूनं स रूप्यगिरिमाप्य महत्समाजे ।

निश्शङ्कं, अङ्ककृतवल्लभं, अङ्गजारिं, तं शङ्करं परिहसन्, उमयाभिशेपे ॥ ९ ॥

 

निस्सम्भ्रमस्तु, अयं, अयाचितशापमोक्ष:, वृत्रासुरत्वं, उपगम्य, सुरेन्द्रयोधी ।

भक्त्या, आत्मतत्त्वकथनै:, समरे विचित्रं, शत्रोरपि भ्रमं, अपास्य, गत: पदं ते ॥ १० ॥

 

त्वत्सेवनेन दिति:, इन्द्रवधोद्यताऽपि, तान्प्रत्युत, इन्द्रसुहृदो मरुतोऽभिलेभे ।

दुष्टाशयेऽपि, शुभदैव, भवन्निषेवा, तत्तादृशस्त्वं, अव मां पवनालयेश ॥ ११ ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये त्रयोविंशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 23rd dashakam.

Series Navigation<< நாராயணீயம் இருபத்தி இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 22nd Dashakam audio mp3நாராயணீயம் இருபத்தி நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 24th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.