Categories
Narayaneeyam

நாராயணீயம் இருபத்தி நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 24th Dashakam audio mp3


நாராயணீயம் இருபத்தி நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 24th Dashakam audio mp3

Have given the 24th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये चतुर्विंशं दशकम्

हिरण्याक्षे, पोत्रिप्रवरवपुषा देव, भवता

हते, शोकक्रोधग्लपितधृति:, एतस्य, सहज: ।

हिरण्यप्रारम्भ: कशिपु:, अमरारातिसदसि,

प्रतिज्ञां, आतेने, तव किल वधार्थं, मधुरिपो ॥ १ ॥

 

विधातारं घोरं, स खलु, तपसित्वा नचिरत:,

पुर: साक्षात्कुर्वन्, सुरनरमृगाद्यै:, अनिधनम् ।

वरं लब्ध्वा दृप्तो जगदिह, भवन्नायकमिदं,

परिक्षुन्दन्, इन्द्रात्, अहरत दिवं, त्वां अगणयन् ॥ २ ॥

 

निहन्तुं त्वां भूय:, तव पदं, अवाप्तस्य च रिपो:,

बहिर्दृष्टे:, अन्तर्दधिथ, हृदये, सूक्ष्मवपुषा ।

नदन्, उच्चै:, तत्रापि, अखिलभुवनान्ते च, मृगयन्,

भिया यातं, मत्वा, स खलु, जितकाशी, निववृते ॥ ३ ॥

 

ततोऽस्य प्रह्लाद:, समजनि सुतो, गर्भवसतौ,

मुने:, वीणापाणे:, अधिगत,भवद्भक्तिमहिमा ।

स वै, जात्या दैत्य:, शिशुरपि, समेत्य त्वयि रतिं,

गत:, त्वद्भक्तानां वरद, परमोदाहरणताम् ॥ ४ ॥

 

सुरारीणां हास्यं, तव चरणदास्यं निजसुते,

स दृष्ट्वा दुष्टात्मा, गुरुभि:, अशिशिक्षत्, चिरममुम् ।

गुरुप्रोक्तं चासौ, इदमिदं, अभद्राय दृढमिति,

अपाकुर्वन् सर्वं, तव चरणभक्त्यैव, ववृधे ॥ ५ ॥

 

अधीतेषु श्रेष्ठं, किमिति, परिपृष्टेऽथ तनये,

भवद्भक्तिं वर्यां, अभिगदति, पर्याकुल,धृति: ।

गुरुभ्यो रोषित्वा, सहजमतिरस्येति, अभिविदन्,

वधोपायान्, अस्मिन् व्यतनुत, भवत्पादशरणे ॥ ६ ॥

 

स शूलैराविद्ध:, सुबहु मथितो, दिग्गजगणै:,

महासर्पैर्दष्टोऽपि, अनशनगराहारविधुत: ।

गिरीन्द्रावक्षिप्तोऽपि, अहह! परमात्मन्, अयि विभो,

त्वयि न्यस्तात्मत्वात्, किमपि, न निपीडां, अभजत ॥ ७ ॥

 

तत: शङ्काविष्ट: स पुन:, अतिदुष्टोऽस्य जनक:,

गुरूक्त्या तद्गेहे किल, वरुणपाशै:, तमरुणत् ।

गुरोश्च, असान्निध्ये स पुन:, अनुगान्, दैत्यतनयान्,

भवद्भक्तेस्तत्त्वं, परममपि, विज्ञानं, अशिषत् ॥ ८ ॥

 

पिता शृण्वन्, बालप्रकरमखिलं, त्वत्स्तुतिपरं,

रुषान्ध: प्राहैनं, कुलहतक, कस्ते, बलमिति ।

बलं मे वैकुण्ठ:, तव च, जगतां चापि स बलं,

स एव त्रैलोक्यं सकलं, इति धीरोऽयं, अगदीत् ॥ ९ ॥

 

अरे, क्वासौ क्वासौ, सकलजगदात्मा, हरिरिति,

प्रभिन्ते स्म स्तंभं, चलितकरवालो, दितिसुत: ।

अत: पश्चात्, विष्णो, न हि वदितुं, ईशोऽस्मि सहसा,

कृपात्मन्, विश्वात्मन्, पवनपुरवासिन्, मृडय माम् ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये चतुर्विंशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 24th dashakam.

Series Navigation<< நாராயணீயம் இருபத்தி மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 23rd Dashakam audio mp3நாராயணீயம் இருபத்தி ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 25th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.