Categories
Narayaneeyam

நாராயணீயம் இருபத்தி ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 25th Dashakam audio mp3


நாராயணீயம் இருபத்தி ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 25th Dashakam audio mp3

Have given the 25th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये पञ्चविंशं दशकम्

स्तंभे घट्टयतो, हिरण्यकशिपो: कर्णौ, समाचूर्णयन्,

आघूर्णज्जगदण्ड,कुण्डकुहरो, घोर:, तवाभूत्, रव: ।

श्रुत्वा यं किल दैत्यराजहृदये, पूर्वं कदापि, अश्रुतं,

कम्प: कश्चन संपपात, चलित:, अप्यम्भोजभू:, विष्टरात् ॥ १ ॥

 

दैत्ये दिक्षु, विसृष्टचक्षुषि, महासंरम्भिणि, स्तम्भत:,

सम्भूतं, न मृगात्मकं, न मनुजाकारं, वपुस्ते विभो ।

किं किं भीषणं, एतत्, अद्भुतं इति, व्युद्भ्रान्तचित्ते असुरे,

विस्फूर्ज्जद्धवलोग्र,रोमविकसद्वर्ष्मा, समाजृम्भथा: ॥ २ ॥

 

तप्तस्वर्णसवर्ण,घूर्णदतिरूक्षाक्षं, सटाकेसर,

प्रोत्कम्पप्रणुकुम्बितांबरं, अहो जीयात्, तवेदं वपु: ।

व्यात्तव्याप्तमहादरीसखमुखं, खड्गोग्रवल्गन्महा,-

जिह्वानिर्गम,दृश्यमानसुमहा, दंष्ट्रायुगोड्डामरम् ॥ ३ ॥

 

उत्सर्पद्वलिभङ्गभीषणहनुं, ह्रस्वस्थवीयस्तर-

ग्रीवं, पीवरदोश्शतोद्गतनख,क्रूरांशुदूरोल्बणम् ।

व्योमोल्लङ्घि, घनाघनोपमघन,प्रध्वान,निर्धावित-

स्पर्धालुप्रकरं, नमामि भवत:, तन्नारसिंहं वपु: ॥ ४ ॥

 

नूनं विष्णुरयं, निहन्मि अमुमिति, भ्राम्यद्गदाभीषणं,

दैत्येन्द्रं, समुपाद्रवन्तं, अधृथा:, दोर्भ्यां, पृथुभ्यां, अमुम् ।

वीरो निर्गलितोऽथ, खड्गफलके, गृह्णन्, विचित्रश्रवान्,

व्यावृण्वन्, पुन:, आपपात, भुवनग्रासोद्यतं, त्वामहो ॥ ५ ॥

 

भ्राम्यन्तं, दितिजाधमं पुनरपि, प्रोद्गृह्य दोर्भ्यां जवात्,

द्वारेऽथ, ऊरुयुगे, निपात्य नखरान्, व्युत्खाय, वक्षोभुवि ।

निर्भिन्दन्, अधिगर्भनिर्भरगलद्रक्ताम्बु, बद्धोत्सवं,

पायं पायं, उदैरयो, बहु जगत्संहारि,सिंहारवान् ॥ ६ ॥

 

त्यक्त्वा तं हतमाशु, रक्तलहरीसिक्तोन्नमद्वर्ष्मणि,

प्रत्युत्पत्य समस्तदैत्यपटलीं, चाखाद्यमाने, त्वयि ।

भ्राम्यद्भूमि, विकम्पिताम्बुधिकुलं, व्यालोलशैलोत्करं,

प्रोत्सर्पत्खचरं, चराचरमहो, दु:स्थां, अवस्थां, दधौ ॥ ७ ॥

 

तावत्, मांसवपाकरालवपुषं, घोरान्त्रमालाधरं,

त्वां मध्येसभं, इद्धरोषं, उषितं, दुर्वार,गुर्वारवम् ।

अभ्येतुं, न शशाक कोपि भुवने, दूरे स्थिता:, भीरवा:,

सर्वे, शर्वविरिञ्चवासवमुखा:, प्रत्येकं, अस्तोषत ॥ ८ ॥

 

भूयोऽपि, अक्षतरोषधाम्नि भवति, ब्रह्माज्ञया, बालके

प्रह्लादे, पदयोर्नमति, अपभये, कारुण्य भाराकुल: ।

शान्तस्त्वं, करमस्य मूर्ध्नि, समधा:, स्तोत्रै:, अथ, उद्गायत:,

तस्य,अकामधियोऽपि, तेनिथ वरं, लोकाय, चानुग्रहम् ॥ ९ ॥

 

एवं नाटितरौद्रचेष्टित, विभो, श्रीतापनीयाभिध,-

श्रुत्यन्तस्फुटगीत,सर्वमहिमन्, अत्यन्त,शुद्धाकृते ।

तत्तादृङ्निखिलोत्तरं, पुनरहो, कस्त्वां परो लङ्घयेत्,

प्रह्लादप्रिय, हे मरुत्पुरपते, सर्वामयात्, पाहि माम् ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये पञ्चविंशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 25th dashakam.

Series Navigation<< நாராயணீயம் இருபத்தி நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 24th Dashakam audio mp3நாராயணீயம் இருபத்தி ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 26th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.