Categories
Narayaneeyam

நாராயணீயம் இருபத்தி ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 26th Dashakam audio mp3


நாராயணீயம் இருபத்தி ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 26th Dashakam audio mp3

Have given the 26th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये  षड्विंशं दशकम्

इन्द्रद्युम्न:, पाण्ड्यखण्डाधिराज:, त्वद्भक्तात्मा, चन्दनाद्रौ, कदाचित् ।

त्वत् सेवायां, मग्नधी:, आलुलोके, नैव अगस्त्यं प्राप्तं, आतिथ्यकामम् ॥ १ ॥

 

कुम्भोद्भूति:, संभृतक्रोधभार:, स्तब्धात्मा त्वं, हस्तिभूयं, भजेति ।

शप्त्वाऽथैनं, प्रत्यगात्, सोऽपि लेभे, हस्तीन्द्रत्वं, त्वत्स्मृतिव्यक्तिधन्यम् ॥ २ ॥

 

दुग्धाम्भोधे:, मध्यभाजि त्रिकूटे, क्रीडन्, शैले, यूथपोऽयं, वशाभि: ।

सर्वान् जन्तून्, अत्यवर्तिष्ट शक्त्या, त्वद्भक्तानां, कुत्र नोत्कर्षलाभ: ॥ ३ ॥

 

स्वेन स्थेम्ना, दिव्यदेशत्वशक्त्या, सोऽयं खेदान्, अप्रजानन् कदाचित् ।

शैलप्रान्ते, घर्मतान्त: सरस्यां, यूथैस्सार्धं, त्वत्प्रणुन्नोऽभिरेमे ॥ ४ ॥

 

हूहूस्तावत्, देवलस्यापि शापात्, ग्राहीभूत:, तज्जले वर्तमान: ।

जग्राहैनं, हस्तिनं पाददेशे, शान्त्यर्थं हि, श्रान्तिदोऽसि स्वकानाम् ॥ ५ ॥

 

त्वत्सेवाया:, वैभवात्, दुर्निरोधं, युध्यन्तं तं, वत्सराणां सहस्रम् ।

प्राप्ते काले, त्वत्पदैकाग्र्यसिध्यै, नक्राक्रान्तं, हस्तिवर्यं व्यधास्त्वम् ॥ ६ ॥

 

आर्तिव्यक्त,प्राक्तनज्ञानभक्ति:, शुण्डोत्क्षिप्तै:, पुण्डरीकै:, समर्चन् ।

पूर्वाभ्यस्तं, निर्विशेषात्मनिष्ठं, स्तोत्र श्रेष्ठं, सोऽन्वगादीत्, परात्मन् ॥ ७ ॥

 

श्रुत्वा स्तोत्रं, निर्गुणस्थं समस्तं, ब्रह्मेशाद्यै:, नाहमिति, अप्रयाते ।

सर्वात्मा त्वं, भूरिकारुण्यवेगात्, तार्क्ष्यारूढ:, प्रेक्षितोऽभू:, पुरस्तात् ॥ ८ ॥

 

हस्तीन्द्रं तं, हस्तपद्मेन धृत्वा, चक्रेण, त्वं नक्रवर्यं, व्यदारी: ।

गन्धर्वेऽस्मिन्, मुक्तशापे, स हस्ती त्वत्सारूप्यं प्राप्य, देदीप्यते स्म ॥ ९ ॥

 

एतद्वृत्तं, त्वां च मां च, प्रगे यो गायेत्, सोऽयं, भूयसे, श्रेयसे स्यात् ।

इत्युक्त्वैनं, तेन सार्धं, गतस्त्वं, धिष्ण्यं विष्णो, पाहि वातालयेश ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये षड्विंशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 26th dashakam.

Series Navigation<< நாராயணீயம் இருபத்தி ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 25th Dashakam audio mp3நாராயணீயம் இருபத்தி ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 27th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.