Categories
Narayaneeyam

நாராயணீயம் இருபத்தி ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 27th Dashakam audio mp3


நாராயணீயம் இருபத்தி ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 27th Dashakam audio mp3

Have given the 27th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये सप्तविंशं दशकम्

दुर्वासा:, सुरवनिताप्तदिव्यमाल्यं, शक्राय स्वयमुपदाय, तत्र भूय: ।

नागेन्द्रप्रतिमृदिते, शशाप शक्रं, का क्षान्ति:, त्वदितर,देवतांशजानाम् ॥ १ ॥

 

शापेन, प्रथितजरेऽथ, निर्जरेन्द्रे, देवेष्वपि, असुरजितेषु, निष्प्रभेषु ।

शर्वाद्या:, कमलजमेत्य सर्वदेवा:, निर्वाणप्रभव, समं, भवन्तमापु: ॥ २ ॥

 

ब्रह्माद्यै:, स्तुतमहिमा, चिरं तदानीं, प्रादुष्यन्, वरद, पुर: परेण धाम्ना ।

हे देवा:, दितिजकुलै:, विधाय सन्धिं, पीयूषं, परिमथतेति, पर्यशास्त्वम् ॥ ३ ॥

 

सन्धानं, कृतवति, दानवै: सुरौघे, मन्थानं नयति, मदेन, मन्दराद्रिम् ।

भ्रष्टेऽस्मिन्, बदरमिवोद्वहन्, खगेन्द्रे, सद्यस्त्वं विनिहितवान्, पय:पयोधौ ॥ ४ ॥

 

आधाय, द्रुतमथ, वासुकिं वरत्रां, पाथोधौ, विनिहित,सर्वबीजजाले ।

प्रारब्धे, मथनविधौ, सुरासुरैस्तै:, व्याजात् त्वं, भुजगमुखे, अकरोस्सुरारीन् ॥ ५ ॥

 

क्षुब्धाद्रौ, क्षुभितजलोदरे, तदानीं, दुग्धाब्धौ, गुरुतरभारतो, निमग्ने ।

देवेषु, व्यथिततमेषु, तत्प्रियैषी, प्राणैषी:, कमठतनुं, कठोरपृष्ठाम् ॥ ६ ॥

 

वज्रातिस्थिरतरकर्परेण, विष्णो, विस्तारात्, परिगतलक्षयोजनेन ।

अम्भोधे:, कुहरगतेन वर्ष्मणा त्वं, निर्मग्नं क्षितिधरनाथं, उन्निनेथ ॥ ७ ॥

 

उन्मग्ने, झटिति तदा, धराधरेन्द्रे, निर्मेथु:, दृढमिह, सम्मदेन सर्वे ।

आविश्य, द्वितयगणेऽपि, सर्पराजे, वैवश्यं, परिशमयन्, अवीवृधस्तान् ॥ ८ ॥

 

उद्दामभ्रमण,जवोन्नमद्गिरीन्द्र,न्यस्तैकस्थिरतर,हस्तपङ्कजं त्वाम् ।

अभ्रान्ते, विधिगिरिशादय:, प्रमोदात्, उद्भ्रान्ता: नुनुवु:, उपात्तपुष्पवर्षा: ॥ ९ ॥

 

दैत्यौघे, भुजगमुखानिलेन, तप्ते, तेनैव, त्रिदशकुलेऽपि, किञ्चिदार्ते ।

कारुण्यात्तव किल देव, वारिवाहा:, प्रावर्षन् अमरगणान्, न दैत्यसङ्घान् ॥ १० ॥

 

उद्भ्राम्यद्बहुतिमिनक्रचक्रवाले, तत्राब्धौ, चिरमथितेऽपि, निर्विकारे ।

एकस्त्वं, करयुगकृष्टसर्पराज:, संराजन्, पवनपुरेश, पाहि रोगात् ॥ ११ ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये सप्तविंशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 27th dashakam.

Series Navigation<< நாராயணீயம் இருபத்தி ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 26th Dashakam audio mp3நாராயணீயம் இருபத்தி எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 28th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.