Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் நாற்பத்தி ஏழாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 47th sargam audio mp3

ஸுந்தரகாண்டம் நாற்பத்தி ஏழாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 47th sargam audio mp3

Sundarakandam 47th sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் நாற்பத்தி ஏழாவது ஸர்கம்

सुन्दरकाण्डे सप्तचत्वारिंशस्सर्गः

सेनापतीन्पञ्च स तु प्रमापितान् हनूमता सानुचरान्सवाहनान्।

समीक्ष्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताग्रतः।।5.47.1।।

स तस्य दृष्ट्यर्पणसम्प्रचोदितः प्रतापवान्काञ्चनचित्रकार्मुकः।

समुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यैर्हविषेव पावकः।।5.47.2।।

ततो महद्बालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसन्ततम्।

रथं समास्थाय ययौ स वीर्यवान्महाहरिं तं प्रति नैरृतर्षभः।।5.47.3।।

ततस्तपस्सङ्ग्रहसञ्चयार्जितं प्रतप्तजाम्बूनदजालशोभितम्।

पताकिनं रत्नविभूषितध्वजं मनोजवाष्टाश्ववरैः सुयोजितम्।।5.47.4।।

सुरासुराधृष्यमसङ्गचारिणं रविप्रभं व्योमचरं समाहितम्।

सतूणमष्टासिनिबद्धबन्धुरं यथाक्रमावेशितशक्तितोमरम्।।5.47.5।।

विराजमानं प्रतिपूर्णवस्तुना सहेमदाम्ना शशिसूर्यवर्चसा।

दिवाकराभं रथमास्थितस्ततस्स निर्जगामामरतुल्यविक्रमः।।5.47.6।।

स पूरयन्खं च महीं च साचलां तुरङ्गमातङ्गमहारथस्वनैः।

बलैस्समेतैस्सहि तोरणस्थितं समर्थमासीनमुपागमत्कपिम्।।5.47.7।।

स तं समासाद्य हरिं हरीक्षणो युगान्तकालाग्निमिव प्रजाक्षये।

अवस्थितं विस्मितजातसम्भ्रम: समैक्षताक्षो बहुमानचक्षुषा।।5.47.8।।

स तस्य वेगं च कपेर्महात्मनः पराक्रमं चारिषु पार्थिवात्मजः।

विचारयन्स्वं च बलं महाबलो हिमक्षये सूर्य इवाभिवर्धते।।5.47.9।।

स जातमन्युः प्रसमीक्ष्य विक्रमं स्थिरं स्थित: संयति दुर्निवारणम्।

समाहितात्मा हनुमन्तमाहवे प्रचोदयामास शरैस्त्रिभिश्शितैः।।5.47.10।।

ततः कपिं तं प्रसमीक्ष्य गर्वितं जितश्रमं शत्रुपराजयोर्जितम्।

अवैक्षताक्षस्समुदीर्णमानस: सबाणपाणिः प्रगृहीतकार्मुकः।।5.47.11।।

स हेमनिष्काङ्गदचारुकुण्डल: समाससादाऽशुपराक्रमः कपिम्।

तयोर्बभूवाप्रतिमस्समागम: सुरासुराणामपि सम्भ्रमप्रदः।।5.47.12।।

ररास भूमिर्न तताप भानुमान् ववौ न वायुः प्रचचाल चाचलः।

कपेः कुमारस्य च वीक्ष्य संयुगं ननाद च द्यौरुदधिश्च चुक्षुभे।।5.47.13।।

ततस्स वीरस्सुमुखान् पतत्रिण: सुवर्णपुङ्खान्सविषानिवोरगान्।

समाधिसम्योगविमोक्षतत्त्ववित् शरानथ त्रीन्कपिमूर्ध्न्यपातयत्।।5.47.14।।

स तैश्शरैर्मूर्ध्नि समं निपातितैः क्षरन्नसृग्दिग्धविवृत्तलोचनः।

नवोदितादित्यनिभश्शरांशुमान् व्यराजतादित्य इवांशुमालिकः।।5.47.15।।

ततस्स पिङ्गाधिपमन्त्रिसत्तमः समीक्ष्य तं राजवरात्मजं रणे।

उदग्रचित्रायुधचित्रकार्मुकं जहर्ष चापूर्यत चाहवोन्मुखः।।5.47.16।।

स मन्दराग्रस्थ इवांशुमालिको विवृद्धकोपो बलवीर्यसंयुतः।

कुमारमक्षं सबलं सवाहनं ददाह नेत्राग्निमरीचिभिस्तदा।।5.47.17।।

ततस्स बाणासनचित्रकार्मुक: शरप्रवर्षो युधि राक्षसाम्बुदः।

शरान्मुमोचाशु हरीश्वराचले वलाहको वृष्टिमिवाचलोत्तमे।।5.47.18।।

ततः कपिस्तं रणचण्डविक्रमं विवृद्धतेजोबलवीर्यसंयुतम्।

कुमारमक्षं प्रसमीक्ष्य संयुगे ननाद हर्षात् घनतुल्यनिस्स्वनः।।5.47.19।।

स बालभावाद्युधि वीर्यदर्पितः प्रवृद्धमन्युः क्षतजोपमेक्षणः।

समाससादाप्रतिमं कपिं रणे गजो महाकूपमिवावृतं तृणैः।।5.47.20।।

स तेन बाणैः प्रसभं निपातितै: चकार नादं घननादनिस्स्वनः।

समुत्पपाताशु नभस्समारुति: भुजोरुविक्षेपणघोरदर्शनः।।5.47.21।।

समुत्पतन्तं समभिद्रवद्बली स राक्षसानां प्रवरः प्रतापवान्।

रथी रथिश्रेष्ठतमः किरन्शरैः पयोधर: शैलमिवाश्मवृष्टिभिः।।5.47.22।।

स तान्शरांस्तस्य विमोक्षयन्कपि: चचार वीरः पथि वायुसेविते।

शरान्तरे मारुतवद्विनिष्पतन् मनोजवस्संयति चण्डविक्रमः।।5.47.23।।

तमात्तबाणासनमाहवोन्मुखं खमास्तृणन्तं विविधै:शरोत्तमैः।

अवैक्षताक्षं बहुमानचक्षुषा जगाम चिन्तां च स मारुतात्मजः।।5.47.24।।

ततश्शरैर्भिन्नभुजान्तरः कपिः कुमारवीर्येण महात्मना नदन्।

महाभुजः कर्मविशेषतत्त्ववित् विचिन्तयामास रणे पराक्रमम्।।5.47.25।।

अबालवद्बालदिवाकरप्रभः करोत्ययं कर्म महन्महाबलः।

न चास्य सर्वाहवकर्मशोभिनः प्रमापणे मे मतिरत्र जायते।।5.47.26।।

अयं महात्मा च महांश्च वीर्यत: समाहितश्चातिसहश्च संयुगे।

असंशयं कर्मगुणोदयादयं सनागयक्षैर्मुनिभिश्च पूजितः।।5.47.27।।

पराक्रमोत्साहविवृद्धमानस: समीक्षते मां प्रमुखाग्रतःस्थितः।

पराक्रमो ह्यस्य मनांसि कम्पयेत् सुरासुराणामपि शीघ्रगामिनः।।5.47.28।।

न खल्वयं नाभिभवेदुपेक्षितः पराक्रमो ह्यस्य रणे विवर्धते।

प्रमापणं त्वेव ममास्य रोचते न वर्धमानोऽग्निरुपेक्षितुं क्षमः।।5.47.29।।

इति प्रवेगं तु परस्य तर्कयन् स्वकर्मयोगं च विधाय वीर्यवान्।

चकार वेगं तु महाबलस्तदा मतिं च चक्रेऽस्य वधे महाकपिः।।5.47.30।।

स तस्य तानष्टहयान्महाजवान् समाहितान्भारसहान्विवर्तने।

जघान वीरः पथि वायुसेविते तलप्रहारैः पवनात्मजः कपिः।।5.47.31।।

ततस्तलेनाभिहतो महारथ: स तस्य पिङ्गाधिपमन्त्रिनिर्जितः।

प्रभग्ननीडः परिमुक्तकूबरः पपात भूमौ हतवाजिरम्बरात्।।5.47.32।।

स तं परित्यज्य महारथोरथं सकार्मुकः खङ्गधरः खमुत्पतन्।

तपोऽभियोगादृषिरुग्रवीर्यवान् विहाय देहं मरुतामिवालयम्।।5.47.33।।

ततः कपिस्तं विचरन्तमम्बरे पतत्रिराजानिलसिद्धसेविते।

समेत्य तं मारुततुल्यविक्रमः क्रमेण जग्राह स पादयोर्दृढम्।।5.47.34।।

स तं समाविध्य सहस्रशः कपि: महोरगं गृह्य इवाण्डजेश्वरः।

मुमोच वेगात्पितृतुल्यविक्रम: महीतले संयति वानरोत्तमः।।5.47.35।।

स भग्नबाहूरुकटीशिरोधरः क्षरन्नसृङिनर्मथितास्थिलोचनः।

प्रभिन्न सन्धि: प्रविकीर्णबन्धन: हतः क्षितौ वायुसुतेन राक्षसः।।5.47.36।।

महाकपिर्भूमितले निपीड्य तं चकार रक्षोधिपतेर्महद्भयम्।

महर्षिभिश्चक्रचरैर्महाव्रतै: समेत्य भूतैश्च सयक्षपन्नगैः।।5.47.37।।

सुरैश्च सेन्द्रैर्भृशजातविस्मयै: हते कुमारे स कपिर्निरीक्षितः।

निहत्य तं वज्रिसुतोपमं रणे कुमारमक्षं क्षतजोपमेक्षणम्।

तदेव वीरोऽभिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये।।5.47.38।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे सप्तचत्वारिंशस्सर्गः।।

Series Navigation<< ஸுந்தரகாண்டம் நாற்பத்தி ஆறாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 46th sargam audio mp3ஸுந்தரகாண்டம் நாற்பத்தி எட்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 48th sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.