Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் நாற்பத்தி ஆறாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 46th sargam audio mp3

ஸுந்தரகாண்டம் நாற்பத்தி ஆறாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 46th sargam audio mp3

Sundarakandam 46th sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் நாற்பத்தி ஆறாவது ஸர்கம்

सुन्दरकाण्डे षड्चत्वारिंशस्सर्गः

हतान्मन्त्रिसुतान् बुद्ध्वा वानरेण महात्मना।

रावणस्संवृताकारश्चकार मतिमुत्तमाम्।।5.46.1।।

स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसम्।

प्रघसं भासकर्णं च पञ्चसेनाग्रनायकान्।।5.46.2।।

सन्दिदेश दशग्रीवो वीरान्नयविशारदान्।

हनुमद्ग्रहणव्यग्रान्वायुवेगसमान्युधि।।5.46.3।।

यात सेनाग्रगास्सर्वे महाबलपरिग्रहाः।

सवाजिरथमातङ्गा: स कपिश्शास्यतामिति।।5.46.4।।

यत्नैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम्।

कर्म चापि समाधेयं देशकालाविरोधितम्।।5.46.5।।

न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन्।

सर्वथा तन्महद्भूतं महाबलपरिग्रहम्।।5.46.6।।

भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात्।

सनागयक्षगन्धर्वा: देवासुरमहर्षयः।।5.46.7।।

युष्माभिस्सहितैस्सर्वैर्मया सह विनिर्जिताः।

तैरवश्यं विधातव्यं व्यलीकं किञ्चिदेव नः।।5.46.8।।

तदेव नात्र सन्देहः प्रसह्य परिगृह्यताम्।

नावमान्यश्च युष्माभि:  हरि: क्रूरपराक्रमः।।5.46.9।।

दृष्टा हि हरयः पूर्वं मया विपुलविक्रमाः।

वाली च सहसुग्रीव: जाम्बवांश्च महाबलः।।5.46.10।।

नीलस्सेनापतिश्चैव ये चान्ये द्विविदादयः।

नैव तेषां गतिर्भीमा न तेजो न पराक्रमः।।5.46.11।।

न मतिर्न बलोत्साहौ न रूपपरिकल्पनम्।

महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम्।।5.46.12।।

प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः।

कामं लोकास्त्रयस्सेन्द्रास्ससुरासुरमानवाः।।5.46.13।।

भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे।

तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे।।5.46.14।।

आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला।

ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः।।5.46.15।।

समुत्पेतुर्महावेगा: हुताशसमतेजसः।

रथैर्मत्तैश्च मातङ्गैर्वाजिभिश्च महाजवैः।।5.46.16।।

शस्त्रैश्च विविधैस्तीक्ष्णैस्सर्वैश्चोपचिता बलैः।

ततस्तं ददृशुर्वीरा: दीप्यमानं महाकपिम्।।5.46.17।।

रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम्।

तोरणस्थं महोत्साहं महासत्वं महाबलम्।।5.46.18।।

महामतिं महावेगं महाकायं महाबलम्।

तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः।।5.46.19।।

तैस्तै: प्रहरणैर्भीमै: अभिपेतुस्ततस्ततः।

तस्य पञ्चायसास्तीक्ष्णा: शिताः पीतमुखाश्शराः।।5.46.20।।

शिरस्युत्पलपत्राभा: दुर्धरेण निपातिताः।

स तैः पञ्चभिराविद्ध: शरैश्शिरसि वानरः।।5.46.21।।

उत्पपात नदन् व्योम्नि दिशो दश विनादयन्।

ततस्तु दुर्धरो वीरस्सरथस्सज्यकार्मुकः।।5.46.22।।

किरन् शरशतैस्तीक्ष्णै: अभिपेदे महाबलः।

स कपिर्वारयामास तं व्योम्नि शरवर्षिणम्।।5.46.23।।

वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः।

अर्ध्यमानस्ततस्तेन दुर्धरेणानिलात्मजः।।5.46.24।।

चकार कदनं भूयो व्यवर्धत च वेगवान्।

स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः।।5.46.25।।

निपपात महावेगो विद्युद्राशिर्गिराविव।

ततस्स मथिताष्टाश्वं रथं भग्नाक्षकूबरम्।।5.46.26।।

विहाय न्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः।

तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि।।5.46.27।।

सञ्जातरोषौ दुर्धर्षौ उवुत्पेततुररिन्दमौ।

स ताभ्यां सहसोत्पत्य विष्ठितो विमलेऽम्बरे।।5.46.28।।

मुद्गराभ्यां महाबाहु: वक्षस्यभिहतः कपिः।

तयोर्वेगवतोर्वेगं विनिहत्य महाबलः।।5.46.29।।

निपपात पुनर्भूमौ सुपर्णसमविक्रमः।

स सालवृक्षमासाद्य तमुत्पाट्य च वानरः।।5.46.30।।

तावुभौ राक्षसौ वीरौ जघान पवनात्मजः।

ततस्तांस्त्रीन् हतान्ज्ञात्वा वानरेण तरस्विना।।5.46.31।।

अभिपेदे महावेगः प्रसह्य प्रघसो हरिम्।

भासकर्णश्च सङक्रुद्ध: शूलमादाय वीर्यवान्।।5.46.32।।

एकतः कपिशार्दूलं यशस्विनमवस्थितम्।

पट्टसेन शिताग्रेण प्रघसः प्रत्ययोधयत्।।5.46.33।।

भासकर्णश्च शूलेन राक्षसः कपिसत्तमम्।

स ताभ्यां विक्षतैर्गात्रै: असृग्दिग्धतनूरुहः।।5.46.34।।

अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः।

समुत्पाट्य गिरेश्शृङ्गं समृगव्यालपादपम्।।5.46.35।।

जघान हनुमान् वीरो राक्षसौ कपिकुञ्जरः।

ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु।।5.46.36।।

बलं तदवशेषं च नाशयामास वानरः।

अश्वैरश्वान् गजैर्नागान् योधैर्योधान् रथैरथान्।।5.46.37।।

स कपिर्नाशयामास सहस्राक्ष इवासुरान्।

हतैर्नागैश्च तुरगैर्भग्नाक्षैश्च महारथैः।।5.46.38।।

हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः।

ततः कपिस्तान्ध्वजिनीपतीन् रणे निहत्य वीरान्सबलान्सवाहनान्।

समीक्ष्य वीरः परिगृह्य तोरणं कृतक्षणः काल इव प्रजाक्षये।।5.46.39।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे षड्चत्वारिंशस्सर्गः।।

Series Navigation<< ஸுந்தரகாண்டம் நாற்பத்தி ஐந்தாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 45th sargam audio mp3ஸுந்தரகாண்டம் நாற்பத்தி ஏழாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 47th sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.