Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் நாற்பத்தி இரண்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 42nd sargam audio mp3

ஸுந்தரகாண்டம் நாற்பத்தி இரண்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 42nd sargam audio mp3

Sundarakandam 42nd sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் நாற்பத்தி இரண்டாவது ஸர்கம்

सुन्दरकाण्डे द्विचत्वारिंशस्सर्गः

ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च।

बभूवुस्त्राससम्भ्रान्तास्सर्वे लङ्कानिवासिनः।।5.42.1।।

विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षिणः।

रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे।।5.42.2।।

ततो गतायां निद्रायां राक्षस्यो विकृताननाः।

तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम्।।5.42.3।।

स ता दृष्ट्वा महाबाहुर्महासत्त्वो महाबलः।

चकार सुमहद्रूपं राक्षसीनां भयावहम्।।5.42.4।।

ततस्तं गिरिसङ्काशमतिकायं महाबलम्।

राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम्।।5.42.5।।

कोऽयं कस्य कुतो वायं किं निमित्तमिहागतः।

कथं त्वया सहानेन संवादः कृत इत्युत।।5.42.6।।

आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम्।

संवादमसितापाङ्गे त्वया किं कृतवानयम्।।5.42.7।।

अथाब्रवीत् तदा साध्वी सीता सर्वाङ्गसुन्दरी।

रक्षसां भीमरूपाणां विज्ञाने मम का गतिः।।5.42.8।।

यूयमेवाभिजानीत योऽयं यद्वा करिष्यति।

अहिरेव ह्यहेः पादान्विजानाति न संशयः।।5.42.9।।

अहमप्यस्य भीतास्मि नैनं जानामि कोन्वयम्।

वेद्मि राक्षसमेवैनं कामरूपिणमागतम्।।5.42.10।।

वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता दिशः।

स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम्।।5.42.11।।

रावणस्य समीपे तु राक्षस्यो विकृताननाः।

विरूपं वानरं भीममाख्यातुमुपचक्रमुः।।5.42.12।।

अशोकवनिकामध्ये राजन्भीमवपुः कपिः।

सीतया कृतसंवाद: तिष्ठत्यमितविक्रमः।।5.42.13।।

न च तं जानकी सीता हरिं हरिणलोचना।

अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति।।5.42.14।।

वासवस्य भवेद्दूत: दूतो वैश्रवणस्य वा।

प्रेषितो वापि रामेण सीतान्वेषणकाङ्क्षया।।5.42.15।।

तेन त्वद्भुतरूपेण यत्तत्तव मनोहरम्।

नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम्।।5.42.16।।

न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः।

यत्र सा जानकी सीता स तेन न विनाशितः।।5.42.17।।

जानकीरक्षणार्थं वा श्रमाद्वा नोपलभ्यते।

अथवा कश्श्रमस्तस्य सैव तेनाभिरक्षिता।।5.42.18।।

चारुपल्लवपुष्पाढ्यं यं सीता स्वयमास्थिता।

प्रवृद्धश्शिंशुपावृक्ष: स च तेनाभिरक्षितः।।5.42.19।।

तस्योग्ररूपस्योग्र त्वं दण्डमाज्ञातुमर्हसि।

सीता सम्भाषिता येन तद्वनं च विनाशितम्।।5.42.20।।

मनः परिगृहीतां तां तव रक्षोगणेश्वर।

कस्सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः।।5.42.21।।

राक्षसीनां वच: श्रुत्वा रावणो राक्षसेश्वरः।

हुताग्निरिव जज्वाल कोपसंवर्तितेक्षणः।।5.42.22।।

तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नास्रबिन्दवः।

दीप्ताभ्यामिव दीपाभ्यां सार्चिषस्स्नेहबिन्दवः।।5.42.23।।

आत्मनस्सदृशान्शूरान्किङ्करान्नाम राक्षसान्।

व्यादिदेश महातेजा निग्रहार्थं हनूमतः।।5.42.24।।

तेषामशीतिसाहस्रं किङ्कराणां तरस्विनाम्।

निर्ययुर्भवनात्तस्मात्कूटमुद्गरपाणयः।।5.42.25।।

महोदरा: महादंष्ट्रा: घोररूपा: महाबलाः।

युद्धाभिमनसस्सर्वे हनुमद्ग्रहणोद्यताः।।5.42.26।।

ते कपीन्द्रं समासाद्य तोरणस्थमवस्थितम्।

अभिपेतुर्महावेगाः पतङ्गा इव पावकम्।।5.42.27।।

ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः।

आजघ्नुर्वानरश्रेष्ठं शरैश्चादित्यसन्निभैः।।5.42.28।।

मुद्गरैः पट्टसै: शूलैः प्रासतोमरशक्तिभिः।

परिवार्य हनूमन्तं सहसा तस्थुरग्रतः।।5.42.29।।

हनुमानपि तेजस्वी श्रीमान्पर्वतसन्निभः।

क्षितावाविध्य लाङ्गूलं ननाद च महास्वनम्।।5.42.30।।

स भूत्वा सुमहाकायो हनुमान्मारुतात्मजः।

धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन्।।5.42.31।।

तस्यास्फोटितशब्देन महता सानुनादिना।

पेतुर्विहङ्गा: गगनादुच्चैश्चेदमघोषयत्।।5.42.32।।

जयत्यतिबलो राम: लक्ष्मणश्च महाबलः।

राजा जयति सुग्रीव: राघवेणाभिपालितः।।5.42.33।।

दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः।

हनुमान्शत्रुसैन्यानां निहन्ता मारुतात्मजः।।5.42.34।।

न रावणसहस्रं मे युद्धे प्रतिबलं भवेत्।

शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः।।5.42.35।।

अर्दयित्वा पुरीं लङ्काम् अभिवाद्य च मैथिलीम्।

समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्।।5.42.36।।

तस्य सन्नादशब्देन तेऽभवन्भयशङ्किताः।

ददृशुश्च हनूमन्तं सन्ध्यामेघमिवोन्नतम्।।5.42.37।।

स्वामिसन्देशनिश्शङ्कास्ततस्ते राक्षसाः कपिम्।

चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः।।5.42.38।।

स तैः परिवृतश्शूरैस्सर्वतस्सुमहाबलः।

आससादाऽयसं भीमं परिघं तोरणाश्रितम्।।5.42.39।।

स तं परिघमादाय जघान रजनीचरान्।

स पन्नगमिवादाय स्फुरन्तं विनतासुतः।।5.42.40।।

विचचाराम्बरे वीरः परिगृह्य च मारुतिः।

स हत्वा राक्षसान्वीरान् किङ्करान्मारुतात्मजः।।5.42.41।।

युद्धाकाङ्क्षी पुनर्वीर: तोरणं समुपाश्रितः।

ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः।।5.42.42।।

निहतान्किङ्करान्सर्वान् रावणायन्यवेदयन्।

स राक्षसानां निहतं महद्बलं निशम्य राजा परिवृत्तलोचनः।

समादिदेश अप्रतिमं पराक्रमे प्रहस्तपुत्रं समरे सुदुर्जयम्।।5.42.43।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे द्विचत्वारिंशस्सर्गः।।

Series Navigation<< ஸுந்தரகாண்டம் நாற்பத்தி ஒன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 41st sargam audio mp3ஸுந்தரகாண்டம் நாற்பத்தி மூன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 43rd sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.