Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் நாற்பத்தி மூன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 43rd sargam audio mp3

ஸுந்தரகாண்டம் நாற்பத்தி மூன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 43rd sargam audio mp3

Sundarakandam 43rd sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் நாற்பத்தி மூன்றாவது ஸர்கம்

सुन्दरकाण्डे त्रिचत्वारिंशस्सर्गः

ततस्स किङ्करान्हत्वा हनुमान्ध्यानमास्थितः।

वनं भग्नं मया चैत्यप्रासादो न विनाशितः।।5.43.1।।

तस्मात्प्रासादमप्येवं इमं विध्वंसयाम्यहम्।

इति सञ्चिन्त्य मनसा हनुमान्दर्शयन्बलम्।।5.43.2।।

चैत्यप्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम्।

आरुरोह कपिश्रेष्ठो हनुमान्मारुतात्मजः।।5.43.3।।

आरुह्य गिरिसङ्काशं प्रासादं हरियूथपः।

बभौ स सुमहातेजाः प्रतिसूर्य इवोदितः।।5.43.4।।

संप्रधृष्य च दुर्धर्षं चैत्यप्रासादमुत्तमम्।

हनुमान्प्रज्वलन्लक्ष्म्या पारियात्रोपमोऽभवत्।।5.43.5।।

स भूत्वा सुमहाकायः प्रभावान्मारुतात्मजः।

धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन्।।5.43.6।।

तस्यास्फोटितशब्देन महता श्रोत्रघातिना।

पेतुर्विहङ्गमास्तत्र चैत्यपालाश्च मोहिताः।।5.43.7।।

अस्त्रविज्जयतां रामो लक्ष्मणश्च महाबलः।

राजा जयति सुग्रीवो राघवेणाभिपालितः।।5.43.8।।

दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः।

हनुमान्शत्रुसैन्यानां निहन्ता मारुतात्मजः।।5.43.9।।

न रावणसहस्रं मे युद्धे प्रतिबलं भवेत्।

शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः।।5.43.10।।

अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम्।

समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्।।5.43.11।।

एवमुक्त्वा विमानस्थ: चैत्यस्थान्हरियूथपः।

ननाद भीमनिर्ह्राद: रक्षसां जनयन्भयम्।।5.43.12।।

तेन शब्देन महता चैत्यपालाश्शतं ययुः।

गृहीत्वा विविधानस्त्रान्प्रासान्खङ्गान्परश्वथान्।।5.43.13।।

विसृजन्तो महाकाया: मारुतिं पर्यवारयन्।

ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः।

आजघ्नुर्वानरश्रेष्ठं बाणैश्चादित्यसन्निभैः।।5.43.14।।

आवर्त इव गङ्गायास्तोयस्य विपुलो महान्।

परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः।।5.43.15।।

ततो वातात्मजः क्रुद्धो भीम रूपं समास्थितः।।5.43.16।।

प्रासादस्य महन्तस्य स्तम्भं हेमपरिष्कृतम्।

उत्पाटयित्वा वेगेन हनुमान्पवनात्मजः।।5.43.17।।

ततस्तं भ्रामयामास शतधारं महाबलः।

तत्र चाग्निस्समभवत् प्रासादश्चाप्यदह्यत।।5.43.18।।

दह्यमानं ततो दृष्ट्वा प्रासादं हरियूथपः।

स राक्षसशतं हत्त्वा वज्रेणेन्द्र इवासुरान्।।5.43.19।।

अन्तरिक्षे स्थितश्श्तीमानिदं वचनमब्रवीत्।

मादृशानां सहस्राणि विसृष्टानि महात्मनाम्।।5.43.20।।

बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम्।

अटन्ति वसुधां कृत्स्नां वयमन्ये च वानराः।।5.43.21।।

दशनागबलाः केचित्केचिद्दशगुणोत्तराः।

केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः।।5.43.22।।

सन्ति चौघबलाः केचित्केचिद्वायुबलोपमाः।

अप्रमेयबलाश्चान्ये तत्रासन्हरियूथपाः।।5.43.23।।

ईदृग्विधैस्तु हरिभिर्वृतो दन्तनखायुधैः।

शतैश्शतसहस्रैश्च कोटीभिरयुतैरपि।।5.43.24।।

आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः।

नेयमस्ति पुरी लङ्का न यूयं न च रावणः।5.43.25।।

यस्मादिक्ष्वाकुनाथेन बद्धं वैरं महात्मना।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे त्रिचत्वारिंशस्सर्गः।।

Series Navigation<< ஸுந்தரகாண்டம் நாற்பத்தி இரண்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 42nd sargam audio mp3ஸுந்தரகாண்டம் நாற்பத்தி நான்காவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 44th sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.