Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் முப்பத்தி ஆறாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 36th sargam audio mp3

ஸுந்தரகாண்டம் முப்பத்தி ஆறாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 36th sargam audio mp3

Sundarakandam 36th sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் முப்பத்தி ஆறாவது ஸர்கம்

सुन्दरकाण्डे षड्त्रिंशस्सर्ग:

भूय एव महातेजा हनूमान् मारुतात्मजः।

अब्रवीत्प्रश्रितं वाक्यं सीताप्रत्ययकारणात्।।5.36.1।।

वानरोऽहं महाभागे दूतो रामस्य धीमतः।

रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम्।।5.36.2।।

प्रत्ययार्थं तवाऽनीतं तेन दत्तं महात्मना।

समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि।।5.36.3।।

गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम्।

भर्तारमिव सम्प्राप्ता जानकी मुदिताऽभवत्।।5.36.4।।

चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम्।

अशोभत विशालाक्ष्या: राहुमुक्त इवोडुराट्।।5.36.5।।

ततस्सा ह्रीमती बाला भर्तृसन्देशहर्षिता।

परितुष्टा प्रियं कृत्वा प्रशशंस महाकपिम्।।5.36.6।।

विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम।

येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम्।।5.36.7।।

शतयोजनविस्तीर्ण: सागरो मकरालयः।

विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः।।5.36.8।।

न हि त्वां प्राकृतं मन्ये वानरं वानरर्षभ।

यस्य ते नास्ति संत्रास: रावणान्नापि सम्भ्रमः।।5.36.9।।

अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम्।

यद्यसि प्रेषितस्तेन रामेण विदितात्मना।।5.36.10।।

प्रेषयिष्यति दुर्धर्षो रामो न ह्यपरीक्षितम्।

पराक्रममविज्ञाय मत्सकाशं विशेषतः।।5.36.11।।

दिष्ट्या स कुशली रामो धर्मात्मा सत्यसङ्गरः।

लक्ष्मणश्च महातेजास्सुमित्रानन्दवर्धनः।।5.36.12।।

कुशली यदि काकुत्स्थः किं नु सागरमेखलाम्।

महीं दहति कोपेन युगान्ताग्निरिवोत्थितः।।5.36.13।।

अथवा शक्तिमन्तौ तौ सुराणामपि निग्रहे।

ममैव तु न दुःखानामस्ति मन्ये विपर्ययः।।5.36.14।।

कच्चिन्न व्यथितो रामः कच्चिन्न परितप्यते।

उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः।।5.36.15।।

कच्चिन्न दीनस्सम्भ्रान्तः कार्येषु न च मुह्यति।

कच्चित्पुरुषकार्याणि कुरुते नृपतेस्सुतः।।5.36.16।।

द्विविधं त्रिविधोपायमुपायमपि सेवते।

विजिगीषुस्सुहृत्कच्चित् मित्रेषु च परन्तपः।।5.36.17।।

कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते।

कच्चित्कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः।।5.36.18।।

कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः।

कच्चित्पुरुषकारं च दैवं च प्रतिपद्यते।।5.36.19।।

कच्चिन्न विगतस्नेहः विवासान्मयि राघवः।

कच्चिन्मां व्यसनादस्मात् मोक्षयिष्यति राघवः।।5.36.20।।

सुखानामुचितो नित्यमसुखानामनौचितः।

दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति।।5.36.21।।

कौसल्यायास्तथा कच्चित्सुमित्रायास्तथैव च।

अभीक्ष्णं श्रूयते कच्चित्कुशलं भरतस्य च।।5.36.22।।

मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः।

कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति।।5.36.23।।

कच्चिदक्षौहिणीं भीमां भरतो भ्रातृवत्सलः।

ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते।।5.36.24।।

वानराधिपति: श्रीमान्सुग्रीवः कच्चिदेष्यति।

मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः।।5.36.25।।

कच्चिच लक्ष्मणश्शूर: सुमित्रानन्दवर्धनः।

अस्त्रविच्छरजालेन राक्षसान्विधमिष्यति।।5.36.26।।

रौद्रेण कच्चिदस्त्रेण ज्वलता निहतं रणे।

द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम्।।5.36.27।।

कच्चिन्न तद्धेमसमानवर्णं तस्याननं पद्मसमानगन्धि।

मया विना शुष्यति शोकदीनं जलक्षये पद्ममिवातपेन।।5.36.28।।

धर्मापदेशात्त्यजतश्च राज्यं मां चाप्यरण्यं नयतः पदातिम्।

नासीद्व्यथा यस्य न भीर्न शोकः कच्चित्स धैर्यं हृदये करोति।।5.36.29।।

न चास्य माता न पिता च नान्यः स्नेहाद्विशिष्टोऽस्ति मया समो वा।

तावत्त्वहं दूत जिजीविषेयं यावत्प्रवृत्तिं शृणुयां प्रियस्य।।5.36.30।।

इतीव देवी वचनं महार्थं तं वानरेन्द्रं मधुरार्थमुक्त्वा।

श्रोतुं पुनस्तस्य वचोऽभिरामं रामार्थयुक्तं विरराम रामा।।5.36.31।।

सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः।

शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत्।।5.36.32।।

न त्वामिहस्थां जानीते रामः कमललोचन:।

तेन त्वां नानयत्याशु शचीमिव पुरन्दरः।।5.36.33।।

श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः।

चमूं प्रकर्षन्महतीं हर्यृक्षगणसङ्कुलाम्।।5.36.34।।

विष्टम्भयित्वा बाणौघैरक्षोभ्यं वरुणालयम्।

करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम्।।5.36.35।।

तत्र यद्यन्तरा मृत्युर्यदि देवास्सहासुराः।

स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति।।5.36.36।।

तवादर्शनजेनार्ये शोकेन स परिप्लुतः।

न शर्म लभते रामस्सिंहार्दित इव द्विपः।।5.36.37।।

मलयेन च विन्ध्येन मेरुणा मन्दरेण च।

दर्दुरेण च ते देवि शपे मूलफलेन च।।5.36.38।।

यथा सुनयनं वल्गु बिम्बोष्ठं चारु कुण्डलम् ।

मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम्।।5.36.39।।

क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ।

शतक्रतुमिवासीनं नाकपृष्ठस्य मूर्धनि।।5.36.40।।

न मांसं राघवो भुङक्ते न चाऽपि मधु सेवते।

वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम्।।5.36.41।।

नैव दंशान्न मशकान्न कीटान्न सरीसृपान्।

राघवोऽपनयेद्गात्रात्त्वद्गतेनान्तरात्मना।।5.36.42।।

नित्यं ध्यानपरो रामो नित्यं शोकपरायणः।

नान्यच्चिन्तयते किञ्चित्स तु कामवशं गतः।।5.36.43।।

अनिद्रस्सततं राम: सुप्तोऽपि च नरोत्तमः।

सीतेति मधुरां वाणीं व्याहरन्प्रतिबुध्यते।।5.36.44।।

दृष्ट्वा फलं वा पुष्पं वा यद्वाऽन्यत्सुमनोहरम्।

बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते।।5.36.45।।

स देवि नित्यं परितप्यमान: त्वामेव सीतेत्यभिभाषमाणः।

धृतव्रतो राजसुतो महात्मा तवैव लाभाय कृतप्रयत्नः।।5.36.46।।

सा रामसङ्कीर्तनवीतशोका रामस्य शोकेन समानशोका।

शरन्मुखे साम्बुदशेषचन्द्रा निशेव वैदेहसुता बभूव।।5.36.47।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे षड्त्रिंशस्सर्ग:।।

Series Navigation<< ஸுந்தரகாண்டம் முப்பத்தி ஐந்தாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 35th sargam audio mp3ஸுந்தரகாண்டம் முப்பத்தி ஏழாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 37th sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.