Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் முப்பத்தி ஐந்தாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 35th sargam audio mp3

ஸுந்தரகாண்டம் முப்பத்தி ஐந்தாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 35th sargam audio mp3

Sundarakandam 35th sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் முப்பத்தி ஐந்தாவது ஸர்கம்

सुन्दरकाण्डे पञ्चत्रिंशस्सर्ग:

तां तु रामकथां श्रुत्वा वैदेही वानरर्षभात्।

उवाच वचनं सान्त्वमिदं मधुरया गिरा।।5.35.1।।

क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम्।

वानराणां नराणां च कथमासीत्समागमः।।5.35.2।।

यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर।

तानि भूय: समाचक्ष्व न मां शोक: समाविशेत्।।5.35.3।।

कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम्।

कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे।।5.35.4।।

एवमुक्तस्तु वैदेह्या हनुमान् पवनात्मज:।

ततो रामं यथातत्वं आख्यातुं उपचक्रमे।।5.35.5।।

जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि।

भर्तुः कमलपत्त्राक्षि संस्थानं लक्ष्मणस्य च।।5.35.6।।

यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै।

लक्षितानि विशालाक्षि वदतश्शृणु तानि मे।।5.35.7।।

रामः कमलपत्त्राक्ष: सर्वसत्त्वमनोहरः।

रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे।।5.35.8।।

तेजसाऽदित्य सङ्काशः क्षमया पृथिवीसमः।

बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः।।5.35.9।।

रक्षिता जीवलोकस्य स्वजनस्य च रक्षिता।

रक्षिता स्वस्य वृत्तस्य धर्मस्य च परन्तपः।।5.35.10।।

रामो भामिनि लोकेस्मिन् चातुर्वर्ण्यस्य रक्षिता।

मर्यादानां च लोकस्य कर्ता कारयिता च सः।।5.35.11।।

अर्चिष्मान् अर्चितोनित्यं ब्रह्मचर्यव्रते स्थितः।

साधूनां उपकारज्ञः प्रचारज्ञश्च कर्मणाम्।।5.35.12।।

राजविद्याविनीतश्च ब्राह्मणानामुपासिता।

श्रुतवान्शीलसम्पन्न: विनीतश्च परन्तपः।।5.35.13।।

यजुर्वेदविनीतश्च वेदविद्भि: सुपूजितः।

धनुर्वेदे च वेदेषु वेदाङ्गेषु च निष्ठितः।।5.35.14।।

विपुलांसो महाबाहुः कम्बुग्रीवश्शुभाननः।

गूढजत्रु: सुताम्राक्ष: रामो देवि जनै श्श्रुतः।।5.35.15।।

दुन्दुभिस्वननिर्घोष: स्निग्धवर्णः प्रतापवान्।

सम: समविभक्ताङ्ग: वर्णं श्यामं समाश्रितः।।5.35.16।।

त्रिस्थिर: त्रिप्रलम्बश्च त्रिसम: त्रिषु चोन्नतः।

त्रिताम्र: त्रिषु च स्निग्ध: गम्भीरस्त्रिषु नित्यशः।।5.35.17।।

त्रिवलीवान् त्रयवन: चतुर्व्यङ्ग: त्रिचीर्षवान्।

चतुष्कल: चतुर्लेख: चतुष्किष्कु: चतुस्समः।।5.35.18।।

चतुर्दशसमद्वन्द्व: चतुर्दंष्ट्र: चतुर्गतिः।

महोष्ठहनुनासश्च पञ्चस्निग्ध: अष्टवंशवान्।।5.35.19।।

दशपद्मो दशबृहत्त्रिभिर्व्याप्तो द्विशुक्लवान्।

षडुन्नतो नवतनुस्त्रिभिर्व्याप्नोति राघवः।।5.35.20।।

सत्यधर्मपरश्श्रीमान् सङ्ग्रहानुग्रहे रतः।

देशकालविभागज्ञस्सर्वलोकप्रियंवदः।।5.35.21।।

भ्राता तस्य च द्वैमात्रस्सौमित्रिरपराजितः।

अनुरागेण रूपेण गुणैश्चैव तथाविधः।।5.35.22।।

तावुभौ नरशार्दूलौ त्वद्दर्शनसमुत्सुकौ।

विचिन्वन्तौ महीं कृत्स्नां अस्माभिरभिसङ्गतौ।।5.35.23।।

त्वामेव मार्गमाणौ तौ विचरन्तौ वसुन्धराम्।

ददर्शतु: मृगपतिं पूर्वजेनावरोपितम्।।5.35.24।।

ऋश्यमूकस्य पृष्ठे तु बहुपादपसङ्कुले।

भ्रातुर्भयार्तमासीनं सुग्रीवं प्रियदर्शनम्।।5.35.25।।

वयं तु हरिराजं तं सुग्रीवं सत्यसङ्गरम्।

परिचर्यामहे राज्यात्पूर्वजेनावरोपितम्।।5.35.26।।

ततस्तौ चीरवसनौ धनुः प्रवरपाणिनौ।

ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ।।5.35.27।।

स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः।

अवप्लुतो गिरेस्तस्य शिखरं भयमोहितः।।5.35.28।।

ततस्स शिखरे तस्मिन्वानरेन्द्रो व्यवस्थितः।

तयोस्समीपं मामेव प्रेषयामास सत्वरम्।।5.35.29।।

तावहं पुरुषव्याघ्रौ सुग्रीववचनात्प्रभू।

रूपलक्षणसम्पन्नौ कृताञ्जलिरुपस्थितः।।5.35.30।।

तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ।

पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौ।।5.35.31।।

निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने।

तयो: अन्योन्यसल्लापात् भृशं प्रीतिरजायत।।5.35.32।।

तत्रतौ प्रीतिसम्पन्नौ हरीश्वरनरेश्वरौ।

परस्परकृताश्वासौ कथया पूर्ववृत्तया।।5.35.33।।

तं तत: सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः।

स्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरुतेजसा।।5.35.34।।

ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः।

लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत्।।5.35.35।।

स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः।

तदासीन्निष्प्रभोऽत्यर्थं ग्रहग्रस्त इवांशुमान्।।5.35.36।।

ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया।

यान्याभरणजालानि पातितानि महीतले।।5.35.37।।

तानि सर्वाणि रामाय आनीय हरियूथपाः।

संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव।।5.35.38।।

तानि रामाय दत्तानि मयैवोपहृतानि च।

स्वनवन्त्यवकीर्णानि तस्मिन्विगतचेतसि।।5.35.39।।

तान्यङ्के दर्शनीयानि कृत्वा बहुविधं तव।

तेन देवप्रकाशेन देवेन परिदेवितम्।।5.35.40।।

पश्यतस्तानि रुदत: ताम्यतश्च पुनः पुनः।

प्रादीपयन्दाशरथे: तानि शोकहुताशनम्।।5.35.41।।

शयितं च चिरं तेन दुःखार्तेन महात्मना।

मयापि विविधैर्वाक्यैः कृच्छ्रादुत्थापितः पुनः।।5.35.42।।

तानि दृष्ट्वा महार्हाणि दर्शयित्वा मुहुर्मुहुः।

राघव: सह सौमित्रि: सुग्रीवे स न्यवेदयत्।।5.35.43।।

स तवादर्शनादार्ये राघवः परितप्यते।

महता ज्वलता नित्यमग्निनेवाग्निपर्वतः।।5.35.44।।

त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम्।

तापयन्ति महात्मानं अग्न्यगारमिवाग्नयः।।5.35.45।।

तवादर्शनशोकेन राघवः प्रविचाल्यते।

महता भूमिकम्पेन महानिव शिलोच्चयः।।5.35.46।।

काननानि सुरम्याणि नदीः प्रस्रवणानि च।

चरन्न रतिमाप्नोति त्वामपश्यन्नृपात्मजे।।5.35.47।।

स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः।

समित्रबान्धवं हत्वा रावणं जनकात्मजे।।5.35.48।।

सहितौ रामसुग्रीवौ उभौ अकुरुतां तदा।

समयं वालिनं हन्तुं तव चान्वेषणं तथा।।5.35.49।।

ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः।

किष्किन्धां समुपागम्य वाली युधि निपातितः।।5.35.50।।

ततो निहत्य तरसा रामो वालिनमाहवे।

सर्वर्क्षहरिसङ्घानां सुग्रीवमकरोत्पतिम्।।5.35.51।।

रामसुग्रीवयोरैक्यं देव्येवं समजायत।

हनुमन्तं च मां विद्धि तयो: दूतमिहागतम्।।5.35.52।।

स्वराज्यं प्राप्य सुग्रीव: समानीय हरीश्वरान्।

त्वदर्थं प्रेषयामास दिशो दश महाबलान्।।5.35.53।।

आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसा।

अद्रिराजप्रतीकाशा: सर्वतः प्रस्थिता महीम्।।5.35.54।।

ततस्तु मार्गमाणास्ते सुग्रीववचनानुगा:।

चरन्ति वसुधां कृत्स्नां वयमन्ये च वानराः।।5.35.55।।

अङ्गदो नाम लक्ष्मीवान्वालिसूनु: महाबलः।

प्रस्थितः कपिशार्दूल: त्रिभागबलसंवृतः।।5.35.56।।

तेषां नो विप्रणष्टानां विन्ध्ये पर्वतसत्तमे।

भृशं शोकपरीतानां अहोरात्रगणा गताः।।5.35.57।।

ते वयं कार्यनैराश्यात्कालस्यातिक्रमेण च।

भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः।।5.35.58।।

विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च।

अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं समुद्यताः।।5.35.59।।

दृष्ट्वा प्रायोपविष्टांश्च सर्वान्वानरपुङ्गवान्।

भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः।।5.35.60।।

तव नाशं च वैदेहि वालिनश्च तथा वधं ।

प्रायोपवेशमस्माकं मरणं च जटायुषः।।5.35.61।।

तेषां नस्वामिसन्देशात् निराशानां मुमूर्षताम्।

कार्यहेतोरिवायात: शकुनिर्वीर्यवान्महान्।।5.35.62।।

गृध्रराजस्य सोदर्यः सम्पातिर्नाम गृध्रराट्।

श्रुत्वा भ्रातृवधं कोपात् इदं वचनमब्रवीत्।।5.35.63।।

यवीयान्केन मे भ्राता हतः क्व च निपातितः।

एतदाख्यातुमिच्छामि भवद्भि: वानरोत्तमाः।।5.35.64।।

अङ्गद: अकथयत्तस्य जनस्थाने महद्वधम्।

रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम्।।5.35.65।।

जटायुषो वधं श्रुत्वा दुःखित: सोऽरुणात्मजः।

त्वामाह स वरारोहे वसन्तीं रावणालये।।5.35.66।।

तस्य तद्वचनं श्रुत्वा सम्पातेः प्रीतिवर्धनम्।

अङ्गदप्रमुखा: सर्वे तत: सम्प्रस्थिता वयम्।।5.35.67।।

विन्ध्यादुत्थाय सम्प्राप्ता: सागरस्यान्तमुत्तरम्।

त्वद्धर्शनकृतोत्साहा: हृष्टास्तुष्टाः प्लवङ्गमाः।।5.35.68।।

अङ्गदप्रमुखा: सर्वे वेलोपान्तमुपस्थिताः।

चिन्तां जग्मुः पुनर्भीता: त्वद्दर्शनसमुत्सुकाः।।5.35.69।।

अथाहं हरिसैन्यस्य सागरं प्रेक्ष्य सीदतः।

व्यवधूय भयं तीव्रं योजनानां शतं प्लुतः।।5.35.70।।

लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला।

रावणश्च मया दृष्ट: त्वं च शोकपरिप्लुता।।5.35.71।।

एतत्ते सर्वमाख्यातं यथावृत्तमनन्दिते।

अभिभाषस्व मां देवि दूतो दाशरथेरहम्।।5.35.72।।

तं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम्।

सुग्रीवसचिवं देवि बुद्ध्यस्व पवनात्मजम्।।5.35.73।।

कुशली तव काकुत्स्थ: सर्वशस्त्रभृतां वरः।

गुरोराराधने युक्त: लक्ष्मणश्च सुलक्षणः।।5.35.74।।

तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः।

अहमेकस्तु सम्प्राप्त: सुग्रीववचनादिह।।5.35.75।।

मयेयमसहायेन चरता कामरूपिणा।

दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा।।5.35.76।।

दिष्ट्याहं हरिसैन्यानां त्वन्नाशमनुशोचताम्।

अपनेष्यामि सन्तापं तवाभिगमशंसनात्।।5.35.77।।

दिष्ट्या हि मम न व्यर्थं देवि सागरलङ्घनम्।

प्राप्स्याम्यहमिदं दिष्ट्या त्वद्दर्शनकृतं यशः।।5.35.78।।

राघवश्च महावीर्यः क्षिप्रं त्वां अभिपत्स्यते।

समित्रबान्धवं हत्वा रावणं राक्षसाधिपम्।।5.35.79।।

माल्यवान्नाम वैदेहि गिरीणां उत्तमो गिरिः।

ततो गच्छति गोकर्णं पर्वतं केसरी हरिः।।5.35.80।।

स च देवर्षिभिर्दिष्टः पिता मम महाकपिः।

तीर्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत्।।5.35.81।।

तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि।

हनुमानिति विख्यात: लोके स्वेनैव कर्मणा।।5.35.82।।

विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः।

अचिरात् राघवो देवि त्वामितो नयिताऽनघे।।5.35.83।।

एवं विश्वासिता सीता हेतुभि: शोककर्शिता।

उपपन्नैरभिज्ञानै: दूतं तमवगच्छति।।5.35.84।।

अतुलं च गता हर्षं प्रहर्षेण च जानकी।

नेत्राभ्यां वक्रपक्ष्माभ्यां मुमोचानन्दजं जलम्।।5.35.85।।

चारु तद्वदनं तस्या: ताम्रशुक्लायतेक्षणम्।

अशोभत विशालाक्ष्या: राहुमुक्त इवोडुराट्।।5.35.86।।

हनुमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा।

अथोवाच हनूमांस्तां उत्तरं प्रियदर्शनाम्।।5.35.87।।

एतत्ते सर्वमाख्यातं समाश्वसिहि मैथिलि।

किं करोमि कथं वा ते रोचते प्रतियाम्यहम्।।5.35.88।।

हतेऽसुरे संयति शम्बसादने कपिप्रवीरेण महर्षिचोदनात्।

ततोऽस्मि वायुप्रभवो हि मैथिलि प्रभावत: तत्प्रतिमश्च वानरः।।5.35.89।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे पञ्चत्रिंशस्सर्ग:।।

Series Navigation<< ஸுந்தரகாண்டம் முப்பத்தி நான்காவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 34th sargam audio mp3ஸுந்தரகாண்டம் முப்பத்தி ஆறாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 36th sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.