ஸுந்தரகாண்டம் இருபத்தி மூன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 23rd sargam audio mp3
Sundarakandam 23rd sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் இருபத்தி மூன்றாவது ஸர்கம்
सुन्दरकाण्डे त्रयोविंशस्सर्ग:
इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः।
सन्दिश्य च ततः सर्वा: राक्षसीर्निर्जगाम ह।।5.23.1।।
निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते।
राक्षस्य: भीमरूपास्ताः सीतां समभिदुद्रुवुः।।5.23.2।।
ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्छिताः।
परं परुषया वाचा वैदेहीं इदमब्रुवन्।।5.23.3।।
पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः।
दशग्रीवस्य भार्या त्वं सीते न बहुमन्यसे।।5.23.4।।
ततस्तु एकजटा नाम राक्षसी वाक्यमब्रवीत्।
आमन्त्र्य क्रोधताम्राक्षी सीतां करतलोदरीम्।।5.23.5।।
प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः।
मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः।।5.23.6।।
पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः।
नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः।।5.23.7।।
तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः।
तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि।।5.23.8।।
मयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे।
ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत्।।5.23.9।।
विवर्त्य नयने कोपात् मार्जारसदृशेक्षणा।
येन देवास्त्रयस्त्रिंशद् देवराजश्च निर्जिताः।।5.23.10।।
तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि।
ततस्तु प्रघसा नाम राक्षसी क्रोधमूर्छिता।।5.23.11।।
भर्त्सयन्ती तदा घोरं इदं वचनमब्रवीत्।
वीर्योत्सिक्तस्य शूरस्य सङ्ग्रामेष्वनिवर्तिनः।।5.23.12।।
बलिनो वीर्ययुक्तस्य भार्यात्वं किं न लप्स्यसे।
प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः।।5.23.13।।
सर्वासां च महाभागां त्वामुपैष्यति रावणः।
समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम्।।5.23.14।।
अन्तःपुरं समुत्सृज्य त्वामुपैष्यति रावणः।
अन्या तु विकटा नाम राक्षसी वाक्यमब्रवीत्।।5.23.15।।
असकृद्देवता: युद्धे नागगन्धर्वदानवाः।
निर्जिताः समरे येन स ते पार्श्वमुपागतः।।5.23.16।।
तस्य सर्वसमृद्धस्य रावणस्य महात्मनः।
किमद्य राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे।।5.23.17।।
ततस्तु दुर्मुखी नाम राक्षसी वाक्यमब्रवीत्।
यस्य सूर्यो न तपति भीतो यस्य च मारुतः।।5.23.18।।
न वाति चासितापाङ्गि किं त्वं तस्य न तिष्ठसि।
पुष्पवृष्टिं च तरव: मुमुचु: यस्य वै भयात्।।5.23.19।।
शैलाश्च सुभ्रु: पानीयं जलदाश्च यदेच्छति।
तस्य नैरृतराजस्य राजराजस्य भामिनि ।।5.23.20।।
किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि।
साधु ते तत्वतो देवि कथितं साधु भामिनि।।5.23.21।।
गृहाण सुस्मिते वाक्यं अन्यथा न भविष्यसि।
ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे त्रयोविंशस्सर्ग: ।।