Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் இருபத்தி எட்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 28th sargam audio mp3

ஸுந்தரகாண்டம் இருபத்தி எட்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 28th sargam audio mp3

Sundarakandam 28th sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் இருபத்தி எட்டாவது ஸர்கம்

सुन्दरकाण्डे अष्टाविंशस्सर्ग:

सा राक्षसेन्द्रस्य वचो निशम्य तद्रावणस्याऽप्रियमप्रियार्ता।

सीता वितत्रास यथा वनान्ते सिंहाभिपन्ना गजराजकन्या।।5.28.1।।

सा राक्षसीमध्यगता च भीरुर्वाग्भिर्भृशं रावणतर्जिता च।

कान्तारमध्ये विजने विसृष्टा बालेव कन्या विललाप सीता।।5.28.2।।

सत्यं बतेदं प्रवदन्ति लोके नाकालमृत्युर्भवतीति सन्तः।

यत्राहमेवं परिभर्त्स्यमाना जीवामि किंचित् क्षणमप्यपुण्या।।5.28.3।।

सुखाद्विहीनं बहुदुःखपूर्णमिदं तु नूनं हृदयं स्थिरं मे।

विदीर्यते यन्न सहस्रधाद्य वज्राहतं शृङ्गमिवाचलस्य।।5.28.4।।

नैवास्ति दोषो मम नूनमत्र वध्याहमस्याप्रियदर्शनस्य।

भावं न चास्याहमनुप्रदातुमलं द्विजो मन्त्रमिवाद्विजाय।।5.28.5।।

नूनं ममाङ्कान्यचिरादनार्यः शस्त्रैः शितैश्छेत्स्यति राक्षसेन्द्रः।

तस्मिन्ननागच्छति लोकनाथे गर्भस्थजन्तोरिव शल्यकृन्तः।।5.28.6।।

दुःखं बतेदं मम दुःखितायाः मासौ चिरायाधिगमिष्यतो द्वौ।

बद्धस्य वध्यस्य तथा निशान्ते राजापराधादिव तस्करस्य।।5.28.7।।

हा राम हा लक्ष्मण हा सुमित्रे हा राममातः सह मे जनन्या।

एषा विपद्याम्यहमल्पभाग्या महार्णवे नौरिव मूढवाता।।5.28.8।।

तरस्विनौ धारयता मृगस्य सत्त्वेन रूपं मनुजेन्द्रपुत्रौ।

नूनं विशस्तौ मम कारणात्तौ सिंहर्षभौ द्वाविव वैद्युतेन।।5.28.9।।

नूनं स कालः मृगरूपधारी मामल्पभाग्यां लुलुभे तदानीम्।

यत्रार्यपुत्रं विससर्ज मूढा रामानुजं लक्ष्मणपूर्वजं च।।5.28.10।।

हा राम सत्यव्रत दीर्घबाहो हा पूर्णचन्द्रप्रतिमानवक्त्र।

हा जीवलोकस्य हितः प्रियश्च वध्यां न मां वेत्सि हि राक्षसानाम्।।5.28.11।।

अनन्यदेवत्वमियं क्षमा च भूमौ च शय्या नियमश्च धर्मे।

पतिव्रतात्वं विफलं ममेदं कृतं कृतघ्नेष्विव मानुषाणाम्।।5.28.12।।

मोघो हि धर्मश्चरितो मयायं तथैकपत्नीत्वमिदं निरर्थम्।

या त्वां न पश्यामि कृशा विवर्णा हीना त्वया संगमने निराशा।।5.28.13।।

पितुर्निदेशं नियमेन कृत्वा वनान्निवृत्तश्चरितव्रतश्च।

स्त्रीभिस्तु मन्ये विपुलेक्षणाभिः त्वं रंस्यसे वीतभयः कृतार्थः।।5.28.14।।

अहं तु राम त्वयि जातकामा चिरं विनाशाय निबद्धभावा।

मोघं चरित्वाथ तपोव्रतं च त्यक्ष्यामि धिग्जीवितमल्पभाग्या।।5.28.15।।

सा जीवितं क्षिप्रमहं त्यजेयं विषेण शस्त्रेण शितेन वापि।

विषस्य दाता न हि मेऽस्ति कश्चिछस्त्रस्य वा वेश्मनि राक्षसस्य।।5.28.16।।

इतीव देवी बहुधा विलप्य सर्वात्मना राममनुस्मरन्ती।

प्रवेपमाना परिशुष्कवक्त्रा नगोत्तमं पुष्पितमाससाद।।5.28.17।।

शोकाभितप्ता बहुधा विचिन्त्या सीताथ वेण्युद्ग्रथनं गृहीत्वा।

उद्बध्य वेण्युद्ग्रथनेन शीघ्रमहं गमिष्यामि यमस्य मूलम्।।5.28.18।।

उपस्थिता सा मृदुसर्वगात्री शाखां गृहीत्वाथ नगस्य तस्य।

तस्यास्तु रामं प्रविचिन्तयन्त्या रामानुजं स्वं च कुलं शुभाङ्ग्या:।।5.28.19।।

शोकानिमित्तानि तथा बहूनि धैर्यार्जितानि प्रवराणि लोके।

प्रादुर्निमित्तानि तदा बभूवुः पुरापि सिद्धान्युपलक्षितानि।।5.28.20।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे अष्टाविंशस्सर्ग:।।

Series Navigation<< ஸுந்தரகாண்டம் இருபத்தி ஏழாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 27th sargam audio mp3ஸுந்தரகாண்டம் இருபத்தி ஒன்பதாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 29th sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.