Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் முப்பத்தி ஒன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 31st sargam audio mp3

ஸுந்தரகாண்டம் முப்பத்தி ஒன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 31st sargam audio mp3

Sundarakandam 31st sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் முப்பத்தி ஒன்றாவது ஸர்கம்

सुन्दरकाण्डे एकत्रिंशस्सर्ग:

एवं बहुविधां चिन्तां चिन्तयित्वा महाकपिः।

संश्रवे मधुरं वाक्यं वैदेह्याः व्याजहार ह।।5.31.1।।

राजा दशरथो नाम रथकुञ्जरवाजिमान्।

पुण्यशीलो महाकीर्तिऋजुरासीन्महायशाः।।5.31.2।।

राजर्षीणां गुणश्रेष्ठस्तपसा चार्षिभिः समः।

चक्रवर्तिकुले जातः पुरंदरसमो बले।।5.31.3।।

अहिंसारतिरक्षुद्रो घृणी सत्यपराक्रमः।

मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवान् लक्ष्मिवर्धनः।।5.31.4।।

पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः।

पृथिव्यां चतुरन्तायां विश्रुतः सुखदः सुखी।।5.31.5।।

तस्य पुत्रः प्रियः ज्येष्ठस्ताराधिपनिभाननः।

रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम्।।5.31.6।।

रक्षिता स्वस्य वृत्तस्य स्वजनस्यापि रक्षिता।

रक्षिता जीवलोकस्य धर्मस्य च परंतपः।।5.31.7।।

तस्य सत्याभिसन्धस्य वृद्धस्य वचनात् पितुः।

सभार्यः सह च भ्रात्रा वीरः प्रव्राजितो वनम्।।5.31.8।।

तेन तत्र महारण्ये मृगयां परिधावता।

राक्षसाः निहताः शूराः बहवः कामरूपिणः।।5.31.9।।

जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ।

ततस्त्वमर्षापहृता जानकी रावणेन तु।।5.31.10।।

वञ्चयित्वा वने रामं मृगरूपेण मायया।

स मार्गमाणः तां देवीं रामः सीतामनिन्दिताम्।।5.31.11।।

आससाद वने मित्रं सुग्रीवं नाम वानरम्।

ततः स वालिनं हत्वा रामः परपुरंजयः।।5.31.12।।

प्रायच्छत् कपिराज्यं तत् सुग्रीवाय महाबलः।

सुग्रीवेणापि संदिष्टाः हरयः कामरूपिणः।।5.31.13।।

दिक्षु सर्वासु तां देवीं विचिन्वन्ति सहस्रशः।

अहं संपातिवचनाच्छतयोजनमायतम्।।5.31.14।।

अस्या हेतोर्विशालाक्ष्याः सागरं वेगवान् प्लुतः।

यथारूपां यथावर्णां यथालक्ष्मीं च निश्चिताम्।।5.31.15।।

अश्रौषं राघवस्याहं सेयमासादिता मया।

विरराम एवमुक्त्वासौ वाचं वानरपुंगवः।।5.31.16।।

जानकी चापि तच्छ्रुत्वा विस्मयं परमं गता।

ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम्।।5.31.17।।

उन्नम्य वदनं भीरुः शिंशुपावृक्षमैक्षत।

निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य।

स्वयं प्रहर्षं परमं जगाम सर्वात्मना राममनुस्मरन्ती ।।5.31.18।।

सा तिर्यगूर्ध्वं च तथाप्यधस्तान्निरीक्षमाणा तमचिन्त्यबुद्धिम्।

ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं सूर्यमिवोदयस्थम्।।5.31.19।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे एकत्रिंशस्सर्ग:।।

Series Navigation<< ஸுந்தரகாண்டம் முப்பதாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 30th sargam audio mp3ஸுந்தரகாண்டம் முப்பத்தி இரண்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 32nd sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.