Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் முப்பதாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 30th sargam audio mp3

ஸுந்தரகாண்டம் முப்பதாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 30th sargam audio mp3

Sundarakandam 30th sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் முப்பதாவது ஸர்கம்

सुन्दरकाण्डे त्रिंशस्सर्ग:

हनुमानपि विक्रान्तः सर्वं शुश्राव तत्वतः।

सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम्।।5.30.1।।

अवेक्षमाणस्तां देवीं देवतामिव नन्दने।

ततो बहुविधां चिन्तां चिन्तयामास वानरः।।5.30.2।।

यां कपीनां सहस्राणि सुबहून्ययुतानि च।

दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया।।5.30.3।।

चारेण तु सुयुक्तेन शत्रो: शक्तिमवेक्षता।

गूढेन चरता तावत् अवेक्षितमिदं मया।।5.30.4।।

राक्षसानां विशेषश्च पुरी चेयमवेक्षिता।

राक्षसाधिपतेरस्य प्रभावो रावणस्य च।।5.30.5।।

युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः।

समाश्वासयितुं भार्यां पतिदर्शनकाङ्क्षिणीम्।।5.30.6।।

अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम्।

अदृष्टदुःखां दुःखार्तां दुःखस्यान्तमगच्छतीम्।।5.30.7।।

यद्यपि अहमिमां देवीं शोकोपहतचेतनाम्।

अनाश्वास्य गमिष्यामि दोषवद्गमनं भवेत्।।5.30.8।।

गते हि मयि तत्रेयं राजपुत्री यशस्विनी।

परित्राणमविन्दन्ती जानकी जीवितं त्यजेत्।।5.30.9।।

मया च स महाबाहुः पूर्णचन्द्रनिभाननः।

समाश्यासयितुं न्याय्यस्सीतादर्शनलालसः।।5.30.10।।

निशाचरीणां प्रत्यक्षमनर्हं चाभिभाषितम्।

कथन्नु खलु कर्तव्यं इदं कृच्छ्रगतो ह्यहम्।।5.30.11।।

अनेन रात्रिशेषेण यदि नाश्वास्यते मया।

सर्वथा नास्ति सन्देहः परित्यक्ष्यति जीवितम्।।5.30.12।।

रामश्च यदि पृच्छेन्मां किं मां सीताब्रवीद्वचः।

किमहं तं प्रति ब्रूयामसंभाष्य सुमध्यमाम्।।5.30.13।।

सीतासन्देशरहितं मामितस्त्वरयाऽगतम्।

निर्दहेदपि काकुत्स्थ: क्रुद्ध: तीव्रेण चक्षुषा।।5.30.14।।

यदि चोद्योजयिष्यामि भर्तारं रामकारणात्।

व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति।।5.30.15।।

अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितः।

शनैराश्वासयिष्यामि सन्तापबहुळामिमाम्।।5.30.16।।

अहं तु अतितनुश्चैव वानरश्च विशेषतः।

वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम्।।5.30.17।।

यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम्।

रावणं मन्यमाना मां सीता भीता भविष्यति।।5.30.18।।

वानरस्य विशेषेण कथं स्यादभिभाषणम्।

अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत्।।5.30.19।।

मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता।

सेयमालोक्य मे रूपं जानकी भाषितं तथा।।5.30.20।।

रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति।

ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी।।5.30.21।।

जानमाना विशालाक्षी रावणं कामरूपिणम्।

सीतया च कृते शब्दे सहसा राक्षसीगणा:।

नानाप्रहरणो घोर: समेयादन्तकोपम:।।5.30.22।।

ततो मां सम्परिक्षिप्य सर्वतो विकृताननाः।।5.30.23।।

वधे च ग्रहणे चैव कुर्यु: यत्नं यथाबलम्।

गृह्य शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम्।।5.30.24।।

दृष्ट्वा विपरिधावन्तं भवेयु: भयशङ्किताः।

मम रूपं च सम्प्रेक्ष्य वने विचरतो महत्।।5.30.25।।

राक्षस्यो भयवित्रस्ता भवेयु: विकृताननाः।

ततः कुर्युस्समाह्वानं राक्षस्यो रक्षसामपि।।5.30.26।।

राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने।

ते शूलशक्तिनिस्त्रिंशविविधायुधपाणयः।।5.30.27।।

आपतेयुर्विमर्देऽस्मिन्वेगेनोद्विग्नकारिण:।

संरुद्धस्तैस्तु परित: विधमन् रक्षसां बलम्।।5.30.28।।

शक्नुयां न तु संप्राप्तुं परं पारं महोदधेः।

मां वा गृह्णीयुराप्लुत्य बहवश्शीघ्रकारिणः।।5.30.29।।

स्यादियं चागृहीतार्था मम च ग्रहणं भवेत्।

हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम्।।5.30.30।।

विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम्।

उद्देशे नष्टमार्गेऽस्मिन् राक्षसैः परिवारिते।।5.30.31।।

सागरेण परिक्षिप्ते गुप्ते वसति जानकी।

विशस्ते वा गृहीते वा रक्षोभि: मयि संयुगे।।5.30.32।।

नान्यं पश्यामि रामस्य सहायं कार्यसाधने।

विमृशंश्च न पश्यामि यो हते मयि वानरः।।5.30.33।।

शतयोजनविस्तीर्णं लङ्घयेत महोदधिम्।

कामं हन्तुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम्।।5.30.34।।

न तु शक्ष्यामि सम्प्राप्तुं परं पारं महोदधेः।

असत्यानि च युद्धानि संशयो मे न रोचते।।5.30.35।।

कश्च निस्संशयं कार्यं कुर्यात्प्राज्ञः ससंशयम्।

प्राणत्यागश्च वैदेह्या: भवेदनभिभाषणे।।5.30.36।।

एष दोषो महान्हि स्यात् मम सीताभिभाषणे।

भूताश्चार्था विनश्यन्ति देशकालविरोधिताः।।5.30.37।।

विक्लबं दूतमासाद्य तमः सूर्योदये यथा।

अर्थानर्थान्तरे बुद्धि: निश्चितापि न शोभते।।5.30.38।।

घातयन्ति हि कार्याणि दूताः पण्डितमानिनः।

न विनश्येत्कथं कार्यं वैक्लब्यं न कथं भवेत्।।5.30.39।।

लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत्।

कथं नु खलु वाक्यं मे शृणुयान्नोद्विजेत वा।।5.30.40।।

इति सञ्चिन्त्य हनुमांश्चकार मतिमान्मतिम्।

राममक्लिष्टकर्माणं स्वबन्धुमनुकीर्तयन्।।5.30.41।।

नैनामुद्वेजयिष्यामि तद्बन्धुगतमानसाम्।

इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः।।5.30.42।।

शुभानि धर्मयुक्तानि वचनानि समर्पयन्।

श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम्।।5.30.43।।

श्रद्धास्यति यथाहीयं तथा सर्वं समादधे।

इति स बहुविधं महानुभाव: जगतिपतेः प्रमदामवेक्षमाणः।

मधुरमवितथं जगाद वाक्यं द्रुमविटपान्तरमास्थितो हनूमान्।।5.30.44।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे त्रिंशस्सर्ग:।।

Series Navigation<< ஸுந்தரகாண்டம் இருபத்தி ஒன்பதாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 29th sargam audio mp3ஸுந்தரகாண்டம் முப்பத்தி ஒன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 31st sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.