Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் முப்பத்தி இரண்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 32nd sargam audio mp3

ஸுந்தரகாண்டம் முப்பத்தி இரண்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 32nd sargam audio mp3

Sundarakandam 32nd sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் முப்பத்தி இரண்டாவது ஸர்கம்

सुन्दरकाण्डे द्वात्रिंशस्सर्ग:

ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा।

वेष्टितार्जुनवस्त्रं तं विद्युत्सङ्घातपिङ्गलम्।।5.32.1।।

सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम्।

फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम्।।5.32.2।।

मैथिली चिन्तयामास विस्मयं परमं गता।

अहो भीममिदं रूपं वानरस्य दुरासदम्।।5.32.3।।

दुर्निरीक्ष्यमिति ज्ञात्वा पुनरेव मुमोह सा।

विललाप भृशं सीता करुणं भयमोहिता।।5.32.4।।

राम रामेति दुःखार्ता लक्ष्मणेति च भामिनी।

रुरोद बहुधा सीता मन्दं मन्दस्वरा सती।।5.32.5।।

सा तं दृष्ट्वा हरिश्रेष्ठं विनीतवदुपस्थितम्।

मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी।।5.32.6।।

सा वीक्षमाणा पृथुभुग्नवक्त्रं शाखामृगेन्द्रस्य यथोक्त्तकारम्।

ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं बुद्धिमतां वरिष्ठम्।।5.32.7।।

सा तं समीक्ष्यैव भृशं विसंज्ञा गतासुकल्पेव बभूव सीता।

चिरेण संज्ञां प्रतिलभ्य भूयः विचिन्तयामास विशालनेत्रा।।5.32.8।।

स्वप्ने मयायं विकृतोऽद्य दृष्टः शाखामृगः शास्त्रगणैर्निषिद्धः।

स्वस्त्यस्तु रामाय सलक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः।।5.32.9।।

स्वप्नोऽपि नायं न हि मेऽस्ति निद्रा शोकेन दुःखेन च पीडितायाः।

सुखं हि मे नास्ति यतोऽस्मि हीना तेनेन्दुपूर्णप्रतिमाननेन।।5.32.10।।

रामेति रामेति सदैव बुद्ध्या विचिन्त्य वाचा ब्रुवती तमेव।

तस्यानुरूपां च कथां तमर्थमेवं प्रपश्यामि तथा शृणोमि।।5.32.11।।

अहं हि तस्याद्य मनोभवेन संपीडिता तद्गतसर्वभावा।

विचिन्तयन्ती सततं तमेव तथैव पश्यामि तथा शृणोमि।।5.32.12।।

मनोरथः स्यादिति चिन्तयामि तथापि बुद्ध्या च वितर्कयामि।

किं कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश्च वदत्ययं माम्।।5.32.13।।

नमोऽस्तु वाचस्पतये सवज्रिणे स्वयंभुवे चैव हुताशनाय च।

अनेन चोक्तं यदिदं ममाग्रतः वनौकसा तच्च तथास्तु नान्यथा।।5.32.14।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे द्वात्रिंशस्सर्ग:।।

Series Navigation<< ஸுந்தரகாண்டம் முப்பத்தி ஒன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 31st sargam audio mp3ஸுந்தரகாண்டம் முப்பத்தி மூன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 33rd sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.