நாராயணீயம் நாற்பத்தி ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 47th Dashakam audio mp3
Have given the 47th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.
श्रीमन्नारायणीये सप्तचत्वारिंशं दशकम्
एकदा, दधिविमाथकारिणीं, मातरं समुपसेदिवान्, भवान् ।
स्तन्यलोलुपतया निवारयन्, अङ्कमेत्य पपिवान्, पयोधरौ ॥ १ ॥
अर्धपीतकुचकुड्मले त्वयि, स्निग्धहासमधुराननाम्बुजे ।
दुग्धमीश दहने परिस्रुतं, धर्तुमाशु, जननी जगाम ते ॥ २ ॥
सामिपीतरसभङ्गसङ्गत,क्रोधभार,परिभूतचेतसा।
मन्थदण्डमुपगृह्य पाटितं, हन्त देव, दधिभाजनं त्वया ॥ ३ ॥
उच्चलद्ध्वनितमुच्चकैस्तदा, सन्निशम्य जननी, समाद्रुता ।
त्वद्यशोविसरवद्ददर्श, सा, सद्य एव, दधि विस्तृतं क्षितौ ॥ ४ ॥
वेदमार्गपरिमार्गितं रुषा, त्वामवीक्ष्य परिमार्गयन्त्यसौ ।
सन्ददर्श सुकृतिनी, उलूखले, दीयमाननवनीतं, ओतवे ॥ ५ ॥
त्वां प्रगृह्य बत, भीतिभावना,भासुराननसरोजं, आशु सा ।
रोषरूषितमुखी, सखीपुरो, बन्धनाय, रशनामुपाददे ॥ ६ ॥
बन्धुमिच्छति यमेव सज्जन:, तं भवन्तमयि, बन्धुमिच्छती ।
सा नियुज्य रशनागुणान् बहून्, द्व्यङ्गुलोनं, अखिलं किलैक्षत ॥ ७ ॥
विस्मितोत्स्मितसखीजनेक्षितां, स्विन्नसन्नवपुषं, निरीक्ष्य ताम् ।
नित्यमुक्तवपुरपि, अहो हरे, बन्धमेव, कृपयाऽन्वमन्यथा: ॥ ८ ॥
स्थीयतां चिरं, उलूखले खल, इत्यागता भवनमेव सा यदा ।
प्रागुलूखलबिलान्तरे तदा, सर्पिरर्पितं, अदन्, अवास्थिथा: ॥ ९ ॥
यद्यपाशसुगमो विभो भवान्, संयत: किमु सपाशयाऽनया ।
एवमादि, दिविजैरभिष्टुत:, वातनाथ, परिपाहि मां गदात् ॥ १० ॥
ॐ तत्सदिति श्रीमन्नारायणीये सप्तचत्वारिंशं दशकं समाप्तम् |
श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |
If you prefer regular lyrics it can be found here – Narayaneeyam 47rd dashakam.