நாராயணீயம் நாற்பத்தி எட்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 48th Dashakam audio mp3
Have given the 48th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.
श्रीमन्नारायणीये अष्टचत्वारिंशं दशकम्
मुदा सुरौघैस्त्वं, उदारसम्मदै:, उदीर्य दामोदर इत्यभिष्टुत: ।
मृदूदर:, स्वैरमुलूखले लगन्, अदूरतो द्वौ, ककुभौ, उदैक्षथा: ॥ १ ॥
कुबेरसूनु:, नलकूबराभिध:, परो मणिग्रीव इति प्रथां गत: ।
महेशसेवाधिगतश्रियोन्मदौ, चिरं किल, त्वद्विमुखौ, अखेलताम् ॥ २ ॥
सुरापगायां, किल तौ मदोत्कटौ, सुरापगायद्बहुयौवतावृतौ ।
विवाससौ, केलिपरौ स नारद:, भवत्पदैकप्रवणो निरैक्षत ॥ ३ ॥
भिया प्रियालोकं, उपात्तवाससं, पुरो निरीक्ष्यापि, मदान्धचेतसौ ।
इमौ, भवद्भक्त्युपशान्तिसिद्धये, मुनिर्जगौ, शान्तिं ऋते, कुत: सुखम् ॥ ४ ॥
युवां, अवाप्तौ, ककुभात्मतां चिरं, हरिं निरीक्ष्याथ, पदं स्वमाप्नुतम् ।
इतीरितौ तौ, भवदीक्षणस्पृहां, गतौ, व्रजान्ते ककुभौ, बभूवतु: ॥ ५ ॥
अतन्द्रं, इन्द्रद्रुयुगं तथाविधं, समेयुषा, मन्थरगामिना त्वया ।
तिरायितोलूखलरोधनिर्धुतौ, चिराय जीर्णौ, परिपातितौ तरू ॥ ६ ॥
अभाजि, शाखिद्वितयं यदा त्वया, तदैव, तद्गर्भतलात्, निरेयुषा ।
महात्विषा, यक्षयुगेन तत्क्षणात्, अभाजि, गोविन्द, भवानपि स्तवै: ॥ ७ ॥
इह, अन्यभक्तोऽपि, समेष्यति क्रमात्, भवन्तं, एतौ खलु रुद्रसेवकौ ।
मुनिप्रसादात्, भवदङ्घ्रिं, आगतौ, गतौ, वृणानौ खलु, भक्तिमुत्तमाम् ॥ ८ ॥
ततस्तरूद्दारणदारुणारव, प्रकम्पिसम्पातिनि, गोपमण्डले ।
विलज्जितत्वज्जननीमुखेक्षिणा, व्यमोक्षि, नन्देन भवान्, विमोक्षद: ॥ ९ ॥
महीरुहो:, मध्यगतो बत, अर्भको, हरे: प्रभावात्, अपरिक्षतोऽधुना ।
इति ब्रुवाणै:, गमितो गृहं भवान्, मरुत्पुराधीश्वर, पाहि मां गदात् ॥ १० ॥
ॐ तत्सदिति श्रीमन्नारायणीये अष्टचत्वारिंशं दशकं समाप्तम् |
श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |
If you prefer regular lyrics it can be found here – Narayaneeyam 48th dashakam.