நாராயணீயம் நாற்பத்தி ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 49th Dashakam audio mp3
Have given the 49th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.
श्रीमन्नारायणीये एकोनपञ्चाशं दशकम्
भवत्प्रभावाविदुरा हि गोपा:, तरुप्रपातादिकमत्र गोष्ठे ।
अहेतुमुत्पातगणं विशङ्क्य, प्रयातुमन्यत्र मनो वितेनु: ॥ १ ॥
तत्रोपनन्दाभिधगोपवर्यो, जगौ, भवत्प्रेरणयैव नूनम् ।
इत: प्रतीच्यां, विपिनं मनोज्ञं, बृन्दावनं नाम, विराजतीति ॥ २ ॥
बृहद्वनं तत् खलु नन्दमुख्या:, विधाय, गौष्ठीनमथ क्षणेन ।
त्वदन्वितत्वज्जननीनिविष्ट,गरिष्ठयानानुगता विचेलु: ॥ ३ ॥
अनोमनोज्ञध्वनिधेनुपाली,खुरप्रणादान्तरतो, वधूभि: ।
भवद्विनोदालपिताक्षराणि, प्रपीय, नाज्ञायत, मार्गदैर्घ्यम् ॥ ४ ॥
निरीक्ष्य बृन्दावनं, ईश, नन्दत्प्रसूनकुन्दप्रमुख,द्रुमौघम् ।
अमोदथा:, शाद्वलसान्द्रलक्ष्म्या, हरिन्मणीकुट्टिम,पुष्टशोभम् ॥ ५ ॥
नवाकनिर्व्यूढ,निवासभेदेषु, अशेषगोपेषु, सुखासितेषु ।
वनश्रियं, गोपकिशोरपालीविमिश्रित:, पर्यक्, अलोकथास्त्वम् ॥ ६ ॥
अरालमार्गागतनिर्मलापां, मरालकूजाकृत,नर्मलापाम् ।
निरन्तरस्मेरसरोजवक्त्रां, कलिन्दकन्यां, समलोकयस्त्वम् ॥ ७ ॥
मयूरकेकाशतलोभनीयं, मयूखमालाशबलं, मणीनाम् ।
विरिञ्चिलोकस्पृशं, उच्चशृङ्गै:, गिरिं च गोवर्धनं, ऐक्षथास्त्वम् ॥ ८ ॥
समं ततो गोपकुमारकैस्त्वं, समन्ततो यत्र, वनान्तमागा: ।
ततस्ततस्तां, कुटिलामपश्य:, कलिन्दजां, रागवतीमिवैकाम् ॥ ९ ॥
तथाविधेऽस्मिन्, विपिने पशव्ये, समुत्सुको वत्सगणप्रचारे ।
चरन् सरामोऽथ, कुमारकैस्त्वं, समीरगेहाधिप, पाहि रोगात् ॥ १० ॥
ॐ तत्सदिति श्रीमन्नारायणीये एकोनपञ्चाशं दशकं समाप्तम् |
श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |
If you prefer regular lyrics it can be found here – Narayaneeyam 49th dashakam.