Categories
Narayaneeyam

நாராயணீயம் ஐம்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 50th Dashakam audio mp3

ஐம்பதாவதுநாராயணீயம் ஐம்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 50th Dashakam audio mp3

Have given the 50th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये पञ्चाशं दशकम्

तरलमधुकृत् वृन्दे, बृन्दावनेऽथ मनोहरे,

पशुपशिशुभि: साकं, वत्सानुपालन,लोलुप: ।

हलधरसखो देव, श्रीमन्, विचेरिथ, धारयन्,

गवलमुरलीवेत्रं, नेत्राभिराम,तनुद्युति: ॥ १ ॥

 

विहितजगतीरक्षं, लक्ष्मीकराम्बुजलालितं,

दधति, चरणद्वन्द्वं, बृन्दावने, त्वयि पावने ।

किमिव न बभौ, सम्पत्सम्पूरितं, तरुवल्लरी-

सलिल,धरणीगोत्रक्षेत्रादिकं, कमलापते ॥ २ ॥

 

विलसदुलपे, कान्तारान्ते, समीरणशीतले,

विपुलयमुनातीरे, गोवर्धनाचल,मूर्धसु ।

ललितमुरलीनाद: सञ्चारयन्, खलु वात्सकं,

क्वचन दिवसे दैत्यं, वत्साकृतिं त्वं, उदैक्षथा: ॥ ३ ॥

 

रभसविलसत्पुच्छं, विच्छायतोऽस्य विलोकयन्,

किमपि वलितस्कन्धं, रन्ध्रप्रतीक्षं, उदीक्षितम् ।

तमथ चरणे बिभ्रत्, विभ्रामयन्, मुहुरुच्चकै:,

कुहचन महावृक्षे, चिक्षेपिथ, क्षतजीवितम् ॥ ४ ॥

 

निपतति महादैत्ये, जात्या दुरात्मनि तत्क्षणं,

निपतनजवक्षुण्णक्षोणीरुह,क्षतकानने ।

दिवि परिमिलत् वृन्दा:, वृन्दारका: कुसुमोत्करै:,

शिरसि भवतो हर्षात्, वर्षन्ति नाम, तदा हरे ॥ ५ ॥

 

सुरभिलतमा मूर्धनि, ऊर्ध्वं कुत: कुसुमावली,

निपतति तवेत्युक्तो बालै:, सहेलं, उदैरय: ।

झटिति, दनुजक्षेपेण, ऊर्ध्वं गतस्तरुमण्डलात्,

कुसुमनिकर: सोऽयं, नूनं समेति, शनैरिति ॥ ६ ॥

 

क्वचन दिवसे, भूयो भूयस्तरे, परुषातपे,

तपनतनयापाथ:, पातुं गता:, भवदादय: ।

चलितगरुतं प्रेक्षामासु:, बकं खलु, विस्मृतं,

क्षितिधरगरुच्छेदे, कैलासशैलं, इवापरम् ॥ ७ ॥

 

पिबति सलिलं गोपव्राते, भवन्तमभिद्रुत:,

स किल निगिलन्, अग्निप्रख्यं, पुनर्द्रुतं, उद्वमन् ।

दलयितुमगात्, त्रोट्या: कोट्या, तदा तु भवान्, विभो,

खलजनभिदाचुञ्चु:, चञ्चू प्रगृह्य, ददार, तम् ॥ ८ ॥

 

सपदि सहजां, सन्द्रष्टुं वा, मृतां खलु पूतनां,

अनुजं, अघमपि, अग्रे गत्वा, प्रतीक्षितुं, एव वा ।

शमननिलयं याते, तस्मिन् बके, सुमनोगणे

किरति, सुमनोवृन्दं, बृन्दावनात्, गृहं, ऐयथा: ॥ ९ ॥

 

ललितमुरलीनादं, दूरान्निशम्य, वधूजनै:,

त्वरितं, उपगम्य, आरात्, आरूढमोदं, उदीक्षित: ।

जनित,जननीनन्दानन्द:, समीरण,मन्दिर-

प्रथितवसते, शौरे, दूरीकुरुष्व, मम आमयान् ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये पञ्चाशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 50th dashakam.

Series Navigation<< நாராயணீயம் நாற்பத்தி ஒன்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 49th Dashakam audio mp3நாராயணீயம் ஐம்பத்தி ஒன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 51st Dashakam audio mp3 >>

2 replies on “நாராயணீயம் ஐம்பதாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 50th Dashakam audio mp3”

சம்ஸ்கிருதம் தெரியாத என் போன்றோருக்கு உதவிடும் வகையில் தமிழ் எழுத்துக்களில் பதிவு செய்யவேண்டுகிறேன்

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.