நாராயணீயம் ஐம்பத்தி ஒன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 51st Dashakam audio mp3
Have given the 51st dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.
श्रीमन्नारायणीये एकपञ्चाशं दशकम्
कदाचन, व्रजशिशुभि: समं भवान्, वनाशने, विहितमति: प्रगेतराम् ।
समावृतो, बहुतरवत्समण्डलै:, सतेमनै:, निरगमत्, ईश जेमनै: ॥१॥
विनिर्यतस्तव चरणाम्बुजद्वयात्, उदञ्चितं, त्रिभुवनपावनं रज: ।
महर्षय:, पुलकधरै: कलेबरै:, उदूहिरे, धृतभवदीक्षणोत्सवा: ॥२॥
प्रचारयति, अविरलशाद्वले तले, पशून् विभो, भवति समं कुमारकै: ।
अघासुरो, न्यरुणत्, अघाय वर्तनी, भयानक:, सपदि शयानकाकृति: ॥३॥
महाचलप्रतिमतनो:, गुहानिभ-प्रसारितप्रथितमुखस्य, कानने ।
मुखोदरं, विहरणकौतुकाद्गता:, कुमारका: किमपि, विदूरगे त्वयि ॥४॥
प्रमादत: प्रविशति पन्नगोदरं, क्वथत्तनौ, पशुपकुले सवात्सके ।
विदन्निदं, त्वमपि विवेशिथ प्रभो, सुहृज्जनं विशरणं, आशु रक्षितुम् ॥५॥
गलोदरे, विपुलितवर्ष्मणा त्वया, महोरगे लुठति, निरुद्धमारुते ।
द्रुतं भवान्, विदलितकण्ठमण्डल:, विमोचयन्, पशुपपशून्, विनिर्ययौ ॥६॥
क्षणं दिवि, त्वदुपगमार्थमास्थितं, महासुरप्रभवं, अहो महो महत् ।
विनिर्गते त्वयि तु, निलीनं अञ्जसा, नभ:स्थले, ननृतु:, अथो जगु: सुरा: ॥७॥
सविस्मयै:, कमलभवादिभि: सुरै:, अनुद्रुत:, तदनु गत: कुमारकै: ।
दिने पुन:, तरुणदशां उपेयुषि, स्वकैर्भवान्, अतनुत भोजनोत्सवम् ॥८॥
विषाणिकामपि, मुरलीं नितम्बके निवेशयन्, कबलधर: कराम्बुजे ।
प्रहासयन्, कलवचनै: कुमारकान्, बुभोजिथ, त्रिदशगणैर्मुदा नुत: ॥९॥
सुखाशनं त्विह तव, गोपमण्डले, मखाशनात् प्रियमिव, देवमण्डले ।
इति स्तुत:, त्रिदशवरैर्जगत्पते, मरुत्पुरीनिलय, गदात् प्रपाहि माम् ॥१०॥
ॐ तत्सदिति श्रीमन्नारायणीये एकपञ्चाशं दशकं समाप्तम् |
श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |
If you prefer regular lyrics it can be found here – Narayaneeyam 51st dashakam.