Categories
Narayaneeyam

நாராயணீயம் ஐம்பத்தி இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 52nd Dashakam audio mp3

நாராயணீயம் ஐம்பத்தி இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 52nd Dashakam audio mp3

Have given the 52nd dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये द्विपञ्चाशं दशकम्

अन्यावतारनिकरेषु, अनिरीक्षितं ते, भूमातिरेकं, अभिवीक्ष्य तदाघमोक्षे ।

ब्रह्मा, परीक्षितुमना:, स परोक्षभावं निन्येऽथ, वत्सकगणान्, प्रवितत्य मायाम् ॥१॥

 

वत्सानवीक्ष्य विवशे, पशुपोत्करे तान्, आनेतुकाम इव, धातृमतानुवर्ती ।

त्वं सामिभुक्तकबलो, गतवान्, तदानीं, भुक्तां, तिरोऽधित, सरोजभव: कुमारान् ॥२॥

 

वत्सायितस्तदनु गोपगणायितस्त्वं, शिक्यादिभाण्डमुरली,गवलादिरूप: ।

प्राग्वद्विहृत्य विपिनेषु चिराय सायं, त्वं माययाऽथ बहुधा, व्रजं, आययाथ ॥३॥

 

त्वामेव शिक्यगवलादिमयं, दधान:, भूयस्त्वमेव, पशुवत्सकबालरूप: ।

गोरूपिणीभिरपि, गोपवधूमयीभि:, आसादितोऽसि जननीभि:, अतिप्रहर्षात् ॥४॥

 

जीवं हि किञ्चित्,अभिमानवशात्स्वकीयं, मत्वा तनूज इति, रागभरं वहन्त्य: ।

आत्मानमेव तु भवन्तं, अवाप्य सूनुं, प्रीतिं ययुर्न कियतीं, वनिताश्च गाव: ॥५॥

 

एवं प्रतिक्षणविजृम्भितहर्षभार,-निश्शेषगोपगणलालित,भूरिमूर्तिम् ।

त्वां, अग्रजोऽपि बुबुधे किल वत्सरान्ते, ब्रह्मात्मनोरपि, महान् युवयोर्विशेष: ॥६॥

 

वर्षावधौ, नवपुरातनवत्सपालान्, दृष्ट्वा विवेकमसृणे, द्रुहिणे विमूढे ।

प्रादीदृश: प्रतिनवान्, मकुटाङ्गदादि भूषां, चतुर्भुजयुज:, सजलाम्बुदाभान् ॥७॥

 

प्रत्येकमेव, कमलापरिलालिताङ्गान्, भोगीन्द्रभोगशयनान्, नयनाभिरामान् ।

लीलानिमीलितदृश:, सनकादियोगि-व्यासेवितान्, कमलभू:, भवतो ददर्श ॥८॥

 

नारायणाकृतिं, असंख्यतमां निरीक्ष्य, सर्वत्र सेवकमपि, स्वमवेक्ष्य धाता ।

मायानिमग्नहृदयो, विमुमोह यावत्, एको बभूविथ तदा, कबलार्धपाणि: ॥९॥

 

नश्यन्मदे, तदनु विश्वपतिं मुहुस्त्वां, नत्वा च नूतवति, धातरि धाम याते ।

पोतै: समं, प्रमुदितै:, प्रविशन् निकेतं, वातालयाधिप, विभो, परिपाहि रोगात् ॥१०॥

 

ॐ तत्सदिति श्रीमन्नारायणीये द्विपञ्चाशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 52nd dashakam.

Series Navigation<< நாராயணீயம் ஐம்பத்தி ஒன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 51st Dashakam audio mp3நாராயணீயம் ஐம்பத்தி மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 53rd Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.