Categories
Narayaneeyam

நாராயணீயம் ஐம்பத்தி மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 53rd Dashakam audio mp3

நாராயணீயம் ஐம்பத்தி மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 53rd Dashakam audio mp3

Have given the 53rd dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये त्रिपञ्चाशं दशकम्

अतीत्य बाल्यं, जगतां पते त्वं, उपेत्य पौगण्डवयो, मनोज्ञम् ।

उपेक्ष्य वत्सावनं, उत्सवेन, प्रावर्तथा:, गोगणपालनायाम् ॥ १ ॥

 

उपक्रमस्य, अनुगुणैव सेयं, मरुत्पुराधीश, तव प्रवृत्ति: ।

गोत्रापरित्राणकृतेऽवतीर्ण:, तदेव देव, आरभथास्तदा यत् ॥ २ ॥

 

कदापि, रामेण समं वनान्ते, वनश्रियं वीक्ष्य चरन्, सुखेन ।

श्रीदामनाम्न:, स्वसखस्य वाचा, मोदादगा:, धेनुककाननं त्वम् ॥ ३ ॥

 

उत्तालतालीनिवहे त्वदुक्त्या, बलेन धूतेऽथ, बलेन दोर्भ्याम् ।

मृदु: खरश्चाभ्यपतत्पुरस्तात्, फलोत्करो, धेनुकदानवोऽपि ॥ ४ ॥

 

समुद्यतो, धेनुकपालनेऽहं, कथं वधं धेनुकं, अद्य कुर्वे ।

इतीव मत्वा ध्रुवं, अग्रजेन, सुरौघयोद्धारं, अजीघनस्त्वम् ॥ ५ ॥

 

तदीयभृत्यानपि जम्बुकत्वेन, उपागतान्, अग्रजसंयुतस्त्वम् ।

जम्बूफलानीव, तदा निरास्थ:, तालेषु खेलन्, भगवन् निरास्थ: ॥ ६ ॥

 

विनिघ्नति त्वय्यथ, जम्बुकौघं, सनामकत्वात्, वरुणस्तदानीम् ।

भयाकुलो, जम्बुकनामधेयं, श्रुतिप्रसिद्धं, व्यधितेति मन्ये ॥ ७ ॥

 

तवावतारस्य फलं, मुरारे, सञ्जातमद्येति, सुरैर्नुतस्त्वम् ।

सत्यं फलं जातं, इहेति हासी, बालै: समं, तालफलानि अभुङ्क्था: ॥ ८ ॥

 

मधुद्रवस्रुन्ति बृहन्ति तानि, फलानि, मेदोभरभृन्ति भुक्त्वा ।

तृप्तैश्च दृप्तै:, भवनं फलौघं, वहद्भिरागा: खलु, बालकैस्त्वम् ॥ ९ ॥

 

हतो हतो, धेनुक इत्युपेत्य, फलान्यदद्भि:, मधुराणि लोकै: ।

जयेति जीवेति, नुतो विभो त्वं, मरुत्पुराधीश्वर, पाहि रोगात् ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये त्रिपञ्चाशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 53rd dashakam.

Series Navigation<< நாராயணீயம் ஐம்பத்தி இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 52nd Dashakam audio mp3நாராயணீயம் ஐம்பத்தி நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 54th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.