Categories
Narayaneeyam

நாராயணீயம் ஐம்பத்தி நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 54th Dashakam audio mp3

நாராயணீயம் ஐம்பத்தி நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 54th Dashakam audio mp3

Have given the 54th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये चतु:पञ्चाशं दशकम्

त्वत्सेवोत्कस्सौभरिर्नाम, पूर्वं, कालिन्द्यन्त:, द्वादशाब्दम्, तपस्यन् ।

मीनव्राते, स्नेहवान् भोगलोले, तार्क्ष्यं साक्षात्, ऐक्षताग्रे, कदाचित् ॥ १ ॥

 

त्वद्वाहं तं, सक्षुधं तृक्षसूनुं, मीनं कञ्चित्, जक्षतं लक्षयन् स: ।

तप्तश्चित्ते, शप्तवान् अत्र चेत्त्वं, जन्तून् भोक्ता, जीवितं चापि, मोक्ता ॥ २ ॥

 

तस्मिन् काले, कालिय:, क्ष्वेलदर्पात्, सर्पाराते: कल्पितं, भागं, अश्नन् ।

तेन क्रोधात्, त्वत्पदाम्भोजभाजा, पक्षक्षिप्त:, तद्दुरापं पयोऽगात् ॥ ३ ॥

 

घोरे तस्मिन्, सूरजानीरवासे, तीरे वृक्षा:, विक्षता: क्ष्वेलवेगात् ।

पक्षिव्राता:, पेतुरभ्रे पतन्त:, कारुण्यार्द्रं, त्वन्मन:, तेन जातम् ॥ ४ ॥

 

काले तस्मिन्, एकदा सीरपाणिं, मुक्त्वा याते, यामुनं काननान्तम् ।

त्वयि, उद्दामग्रीष्मभीष्मोष्मतप्ता:, गोगोपाला:, व्यापिबन् क्ष्वेलतोयम् ॥ ५ ॥

 

नश्यज्जीवान्, विच्युतान् क्ष्मातले तान्, विश्वान् पश्यन्, अच्युत, त्वं दयार्द्र: ।

प्राप्योपान्तं, जीवयामासिथ द्राक्, पीयूषाम्भो,वर्षिभि:, श्रीकटाक्षै: ॥ ६ ॥

 

किं किं जातो, हर्षवर्षातिरेक:, सर्वाङ्गेषु, इति, उत्थिता:, गोपसङ्घा: ।

दृष्ट्वाऽग्रे त्वां, त्वत्कृतं तद्विदन्त:, त्वामालिङ्गन्, दृष्ट,नानाप्रभावा: ॥ ७ ॥

 

गावश्चैवं, लब्धजीवा:, क्षणेन, स्फीतानन्दा:, त्वां च दृष्ट्वा, पुरस्तात् ।

द्रागावव्रु:, सर्वतो हर्षबाष्पं, व्यामुञ्चन्त्यो, मन्दमुद्यन्, निनादा: ॥ ८ ॥

 

रोमाञ्चोऽयं, सर्वतो न: शरीरे, भूयसी:, अन्त: काचित्, आनन्दमूर्छा ।

आश्चर्योऽयं, क्ष्वेलवेगो मुकुन्देति, उक्तो गोपै:, नन्दितो वन्दितोऽभू: ॥ ९ ॥

 

एवं भक्तान्, मुक्तजीवानपि त्वं, मुग्धापाङ्गै:, अस्तरोगान् तनोषि ।

तादृग्भूतस्फीत,कारुण्यभूमा, रोगात् पाया:, वायुगेहाधिनाथ ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये चतु:पञ्चाशं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 54th dashakam.

Series Navigation<< நாராயணீயம் ஐம்பத்தி மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 53rd Dashakam audio mp3நாராயணீயம் ஐம்பத்தி ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 55th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.