நாராயணீயம் ஐம்பத்தி ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 55th Dashakam audio mp3
Have given the 55th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.
श्रीमन्नारायणीये पञ्चपञ्चाशं दशकम्
अथ वारिणि घोरतरं फणिनं, प्रतिवारयितुं, कृतधीर्भगवन् ।
द्रुतमारिथ, तीरगनीपतरुं, विषमारुत,शोषित,पर्णचयम् ॥ १ ॥
अधिरुह्य, पदाम्बुरुहेण च तं, नवपल्लवतुल्य,मनोज्ञरुचा ।
ह्रदवारिणि, दूरतरं न्यपत:, परिघूर्णित,घोरतरङ्गगणे ॥ २ ॥
भुवनत्रय,भारभृतो भवतो, गुरुभार,विकम्पि,विजृम्भिजला ।
परिमज्जयति स्म, धनुश्शतकं, तटिनी झटिति, स्फुटघोषवती ॥ ३ ॥
अथ दिक्षु विदिक्षु, परिक्षुभित भ्रमितोदर,वारिनिनादभरै: ।
उदकात्, उदगादुरगाधिपति:, त्वदुपान्तं, अशान्तरुषाऽन्धमना: ॥ ४ ॥
फणशृङ्गसहस्रविनिस्सृमर, ज्वलदग्निकणोग्र,विषाम्बुधरम् ।
पुरत: फणिनं, समलोकयथा:, बहुशृङगिणं, अञ्जनशैलमिव ॥ ५ ॥
ज्वलदक्षि परिक्षरदुग्रविष,श्वसनोष्मभर:, स महाभुजग: ।
परिदश्य भवन्तं, अनन्तबलं, समवेष्टयत्, अस्फुटचेष्टमहो ॥ ६ ॥
अविलोक्य भवन्तं, अथाकुलिते, तटगामिनि, बालकधेनुगणे ।
व्रजगेहतलेऽप्यनिमित्तशतं, समुदीक्ष्य गता यमुनां पशुपा: ॥ ७ ॥
अखिलेषु विभो, भवदीय दशां, अवलोक्य जिहासुषु, जीवभरम् ।
फणिबन्धनं, आशु विमुच्य जवात्, उदगम्यत, हासजुषा भवता ॥ ८ ॥
अधिरुह्य तत: फणिराजफणान्, ननृते भवता, मृदुपादरुचा ।
कलशिञ्जितनूपुरमञ्जुमिलत्, करकङ्कण,सङ्कुल,सङ्क्वणितम् ॥ ९ ॥
जहृषु: पशुपास्तुतुषुर्मुनयो, ववृषु: कुसुमानि, सुरेन्द्रगणा: ।
त्वयि नृत्यति मारुतगेहपते, परिपाहि स मां त्वं, अदान्तगदात् ॥ १० ॥
ॐ तत्सदिति श्रीमन्नारायणीये पञ्चपञ्चाशं दशकं समाप्तम् |
श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |
If you prefer regular lyrics it can be found here – Narayaneeyam 55th dashakam.