Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் ஐம்பத்தி ஒன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 51st sargam audio mp3

ஸுந்தரகாண்டம் ஐம்பத்தி ஒன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 51st sargam audio mp3

Sundarakandam 51st sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் ஐம்பத்தி ஒன்றாவது ஸர்கம்

सुन्दरकाण्डे एकपञ्चाशस्सर्गः

तं समीक्ष्य महासत्त्वं सत्त्ववान्हरिसत्तमः।

वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम्।।5.51.1।।

अहं सुग्रीवसंदेशादिह प्राप्तस्तवालयम्।

राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत्।।5.51.2।।

भ्रातुश्शृणु समादेशं सुग्रीवस्य महात्मनः।

धर्मार्थोपहितं वाक्यमिह चामुत्र च क्षमम्।।5.51.3।।

राजा दशरथो नाम रथकुञ्जरवाजिमान्।

पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः।।5.51.4।।

ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः।

पितुर्निदेशान्निष्क्रान्तः प्रविष्टो दण्डकावनम्।।5.51.5।।

लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया।

रामो नाम महातेजा: धर्म्यं पन्थानमाश्रित:।।5.51.6।।

तस्य भार्या वने नष्टा सीता पतिमनुव्रता।

वैदेहस्य सुता राज्ञो जनकस्य महात्मनः।।5.51.7।।

स मार्गमाणस्तां देवीं राजपुत्रः सहानुजः।

ऋश्यमूकमनुप्राप्त: सुग्रीवेण समागतः।।5.51.8।।

तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम्।

सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम्।।5.51.9।।

ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम्।

सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः।।5.51.10।।

त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गवः।

रामेण निहतस्सङ्ख्ये शरेणैकेन वानरः।।5.51.11।।

स सीतामार्गणे व्यग्रस्सुग्रीवः सत्यसङ्गरः।

हरीन् सम्प्रेषयामास दिशस्सर्वा हरीश्वरः।।5.51.12।।

तां हरीणां सहस्राणि शतानि नियुतानि च।

दिक्षु सर्वासु मार्गन्ते ह्यधश्चोपरि चाम्बरे।।5.51.13।।

वैनतेयसमाः केचित्केचित्तत्रानिलोपमाः।

असङ्गगतयशशीघ्रा हरिवीरा महाबलाः।।5.51.14।।

अहं तु हनुमान्नाम मारुतस्यौरसस्सुतः।

सीतायास्तु कृते तूर्णं शतयोजनमायतम्।।5.51.15।।

समुद्रं लङ्घयित्वैव तां दिदृक्षुरिहागतः।

भ्रमता च मया दृष्टा गृहे ते जनकात्मजा।।5.51.16।।

तद्भवान् दृष्टधर्मार्थस्तपःकृतपरिग्रहः।

परदारान् महाप्राज्ञ नोपरोद्धुं त्वमर्हसि।।5.51.17।।

न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु।

मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः।।5.51.18।।

कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम्।

शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि।।5.51.19।।

न चापि त्रिषु लोकेषु राजन्विद्येत कश्चन।

राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात्।।5.51.20।।

तत् त्रिकालहितं वाक्यं धर्म्यमर्थानुबन्धि च।

मन्यस्व नरदेवाय जानकी प्रतिदीयताम्।।5.51.21।।

दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम्।

उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः।।5.51.22।।

लक्षितेयं मया सीता तथा शोकपरायणा।

गृह्य यां नाभिजानासि पञ्चास्यामिव पन्नगीम्।।5.51.23।।

नेयं जरयितुं शक्या सासुरैरमरैरपि।

विषसंसृष्टमत्यर्थं भुक्तमन्नमिवौजसा ।।5.51.24।।

तपस्सन्तापलब्धस्ते सोऽयं धर्मपरिग्रहः।

न स नाशयितुं न्याय्य: आत्मप्राणपरिग्रहः।।5.51.25।।

अवध्यतां तपोभिर्यां भवान् समनुपश्यति।

आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान्।।5.51.26।।

सुग्रीवो न हि देवोऽयं नासुरो न च राक्षसः।

न दानवो न गन्धर्वो न यक्षो न च पन्नगः।।5.51.27।।

तस्मात्प्राणपरित्राणं कथं राजन्करिष्यसि।

न तु धर्मोपसंहारमधर्मफलसंहितम्।।5.51.28।।

तदेव फलमन्वेति धर्मश्चाधर्मनाशन:।

प्राप्तं धर्मफलं तावद्भवता नात्र संशयः।

फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे।।5.51.29।।

जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा।।5.51.30।।

रामसुग्रीवसख्यं च बुध्यस्व हितमात्मनः।

कामं खल्वहमप्येकस्सवाजिरथकुञ्जराम्।।5.51.31।।

लङ्कां नाशयितुं शक्तस्तस्यैष तु न निश्चयः।

रामेण हि प्रतिज्ञातं हर्यृक्षगणसन्निधौ।।5.51.32।।

उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता।

अपकुर्वन् हि रामस्य साक्षादपि पुरन्दरः।।5.51.33।।

न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः।

यां सीतेत्यभिजानासि येयं तिष्ठति ते वशे।।5.51.34।।

कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम्।

तदलं कालपाशेन सीताविग्रहरूपिणा।।5.51.35।।

स्वयं स्कन्धावसक्तेन क्षममात्मनि चिन्त्यताम्।

सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम्।।5.51.36।।

दह्यमानामिमां पश्य पुरीं साट्टप्रतोलिकाम्।

स्वानि मित्राणि मन्त्रींश्च ज्ञातीन् भ्रात्रून् सुतान् हितान्।।5.51.37।।

भोगान्दारांश्च लङ्कां च मा विनाशमुपानय।

सत्यं राक्षसराजेन्द्र शृणुष्व वचनं मम।।5.51.38।।

रामदासस्य दूतस्य वानरस्य विशेषतः।

सर्वान् लोकान् सुसंहृत्य सभूतान् सचराचरान्।।5.51.39।।

पुनरेव तदा स्रष्टुं शक्तो रामो महायशाः।

देवासुरनरेन्द्रेषु यक्षरक्षोगणेषु च।।5.51.40।।

विद्याधरेषु सर्वेषु गन्धर्वेषूरगेषु च।

सिद्धेषु किन्नरेन्द्रेषु पतत्रिषु च सर्वतः।।5.51.41।।

सर्वभूतेषु सर्वत्र सर्वकालेषु नास्ति सः।

यो रामं प्रतियुध्येत विष्णुतुल्यपराक्रमम्।।5.51.42।।

सर्वलोकेश्वरस्यैवं कृत्वा विप्रियमीदृषम्।

रामस्य राजसिंहस्य दुर्लभं तव जीवितम्।।5.51.43।।

देवाश्च दैत्याश्च निशाचरेन्द्र गन्धर्वविद्याधरनागयक्षाः।

रामस्य लोकत्रयनायकस्य स्थातुं न शक्तास्समरेषु सर्वे।।5.51.44।।

ब्रह्मा स्वयम्भूश्चतुराननो वा रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा।

इन्द्रो महेन्द्रस्सुरनायको वा त्रातुं न शक्ता युधि रामवध्यम्।।5.51.45।।

स सौष्ठवोपेतमदीनवादिनः कपेर्निशम्याप्रतिमोऽप्रियं वचः।

दशाननः कोपविवृत्तलोचनः समादिशत्तस्य वधं महाकपेः।।5.51.46।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे एकपञ्चाशस्सर्गः।।

Series Navigation<< ஸுந்தரகாண்டம் ஐம்பதாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 50th sargam audio mp3ஸுந்தரகாண்டம் ஐம்பத்தி இரண்டாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 52nd sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.