Categories
Sundarakandam moolam

ஸுந்தரகாண்டம் ஐம்பதாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 50th sargam audio mp3

ஸுந்தரகாண்டம் ஐம்பதாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 50th sargam audio mp3

Sundarakandam 50th sargam lyrics below, aligned to the book Govinda Damodara Swamigal used for parayanam. கோவிந்த தாமோதர ஸ்வாமிகள் பாராயணம் செய்த புத்தகத்தில் உள்ளபடி ஸுந்தரகாண்டம் ஐம்பதாவது ஸர்கம்

सुन्दरकाण्डे पञ्चाशस्सर्गः

तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरत: स्थितम्।

रोषेण महताऽविष्टो रावणो लोकरावणः।।5.50.1।।

शङ्काहतात्मा दध्यौ स: कपीन्द्रं तेजसावृतम्।

किमेष भगवान्नन्दी भवेत्साक्षादिहागतः।।5.50.2।।

येन शप्तोऽस्मि कैलासे मया सञ्चालिते पुरा।

सोऽयं वानरमूर्तिस्स्यात्किंस्विद्बाणो महाऽसुरः।।5.50.3।।

स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम्।

कालयुक्तमुवाचेदं वचोऽविपुलमर्थवत्।।5.50.4।।

दुरात्मा पृच्छ्यतामेष: कुतः किं वात्र कारणम्।

वनभङ्गे च कोऽस्यार्थो राक्षसीनां च तर्जने।।5.50.5।।

मत्पुरीमप्रधृष्यां वाऽगमने किं प्रयोजनम्।

आयोधने वा किं कार्यं पृच्छयतामेष दुर्मतिः।।5.50.6।।

रावणस्य वचश्श्रुत्वा प्रहस्तो वाक्यमब्रवीत्।

समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे।।5.50.7।।

यदि तावत्त्वमिन्द्रेण प्रेषितो रावणालयम्।

तत्वमाख्याहि मा भूत्ते भयं वानर मोक्ष्यसे।।5.50.8।।

यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च।

चाररूपमिदं कृत्वा प्रविष्टो नः पुरीमिमाम्।।5.50.9।।

विष्णुना प्रेषितो वाऽपि दूतो विजयकाङ्क्षिणा।

न हि ते वानरं तेजो रूपमात्रं तु वानरम्।।5.50.10।।

तत्त्वत: कथयस्वाद्य ततो वानर मोक्ष्यसे।

अनृतं वदतश्चापि दुर्लभं तव जीवितम्।।5.50.11।।

अथवा यन्निमिततं ते प्रवेशो रावणालये।

एवमुक्तो हरिवर: तदा रक्षोगणेश्वरम्।।5.50.12।।

अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा।

धनदेन न मे सख्यं विष्णुना नास्मि चोदितः।।5.50.13।।

जातिरेव मम त्वेषा वानरोऽहमिहागतः।

दर्शने राक्षसेन्द्रस्य दुर्लभे तदिदं मया।।5.50.14।।

वनं राक्षसराजस्य दर्शनार्थे विनाशितम्।

ततस्ते राक्षसाः प्राप्ता: बलिनो युद्धकाङ्क्षिणः।

रक्षणार्थं तु देहस्य प्रतियुद्धा मया रणे।।5.50.15।।

अस्त्रपाशैर्न शक्योऽहं बद्धुं देवासुरैरपि।।5.50.16।।

पितामहादेव वरो मामाप्येषोऽभ्युपागतः।

राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम्।।5.50.17।।

विमुक्तो ह्यहमस्त्रेण राक्षसैस्त्वभिपीडितः।

केनचिद्राजकार्येण सम्प्राप्तोऽस्मि तवान्तिकम्।।5.50.18।।

दूतोऽहमिति विज्ञेयो राघवस्यामितौजसः।

श्रूयतां चापि वचनं मम पथ्यमिदं प्रभो।।5.50.19।।

ॐ तत्सत् इति श्रीमद्रामायणे सुन्दरकाण्डे पञ्चाशस्सर्गः।।

Series Navigation<< ஸுந்தரகாண்டம் நாற்பத்தி ஒன்பதாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 49th sargam audio mp3ஸுந்தரகாண்டம் ஐம்பத்தி ஒன்றாவது ஸர்கம் ஒலிப்பதிவு; Sundarakandam 51st sargam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.