Categories
Narayaneeyam

நாராயணீயம் அறுபத்தி இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 62nd Dashakam audio mp3

நாராயணீயம் அறுபத்தி இரண்டாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 62nd Dashakam audio mp3

Have given the 62nd dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये द्विषष्टितमं दशकम्

कदाचिद्गोपालान्, विहितमखसम्भार,विभवान्,

निरीक्ष्य त्वं शौरे, मघवमदं, उद्ध्वंसितुमना: ।

विजानन्नप्येतान्, विनयमृदु, नन्दादिपशुपान्,

अपृच्छ:, को वाऽयं जनक, भवतां, उद्यम इति ॥ १ ॥

 

बभाषे नन्दस्त्वां, सुत, ननु विधेयो, मघवतो

मखो, वर्षे वर्षे, सुखयति, स वर्षेण पृथिवीम् ।

नृणां वर्षायत्तं, निखिलमुपजीव्यं महितले,

विशेषात्, अस्माकं, तृणसलिलजीवा हि, पशव: ॥ २ ॥

 

इति श्रुत्वा वाचं पितु:, अयि भवान्, आह सरसं,

धिगेतत्, नो सत्यं, मघवजनिता, वृष्टिरिति यत् ।

अदृष्टं जीवानां, सृजति खलु वृष्टिं, समुचितां,

महारण्ये, वृक्षा:, किमिव बलिं, इन्द्राय ददते ॥ ३ ॥

 

इदं तावत् सत्यं, यदिह पशवो न: कुलधनं,

तदाजीव्याय, असौ बलि:, अचलभर्त्रे, समुचित: ।

सुरेभ्योपि, उत्कृष्टा:, ननु, धरणिदेवा:, क्षितितले,

तत:, तेपि, आराध्या:, इति जगदिथ, त्वं निजजनान् ॥ ४ ॥

 

भवद्वाचं श्रुत्वा, बहुमतियुतास्तेऽपि, पशुपा:,

द्विजेन्द्रान्, अर्चन्तो, बलिं अददु:, उच्चै:, क्षितिभृते ।

व्यधु: प्रादक्षिण्यं, सुभृशमनमन्, आदरयुता:,

त्वमादश्शैलात्मा, बलिमखिलं, आभीर,पुरत: ॥ ५ ॥

 

अवोचश्चैवं तान्, किमिह, वितथं मे निगदितं,

गिरीन्द्रो नन्वेष:, स्वबलिं, उपभुङ्क्ते, स्ववपुषा ।

अयं गोत्रो, गोत्रद्विषि च कुपिते, रक्षितुं, अलं

समस्तान्, इत्युक्ता:, जहृषु:, अखिला:, गोकुलजुष: ॥ ६ ॥

 

परिप्रीता याता: खलु, भवदुपेता:, व्रजजुष:,

व्रजं यावत्तावत्, निजमख,विभङ्गं निशमयन् ।

भवन्तं जानन्नपि, अधिकरजसाऽऽक्रान्तहृदय:,

न सेहे, देवेन्द्र:, त्वदुप,रचितात्मोन्नतिरपि ॥ ७ ॥

 

मनुष्यत्वं यातो, मधुभिदपि, देवेष्वविनयं,

विधत्ते चेत्, नष्टस्त्रिदशसदसां, कोऽपि महिमा ।

ततश्च ध्वंसिष्ये, पशुपहतकस्य श्रियमिति,

प्रवृत्तस्त्वां जेतुं, स किल मघवा, दुर्मदनिधि: ॥ ८ ॥

 

त्वदावासं हन्तुं, प्रलयजलदान्, अम्बरभुवि,

प्रहिण्वन्, बिभ्राण:  कुलिशं, अयमभ्रेभगमन: ।

प्रतस्थे, अन्यै:, अन्तर्दहनमरुदाद्यैर्विहसित:,

भवन्माया नैव, त्रिभुवनपते, मोहयति कम् ॥ ९ ॥

 

सुरेन्द्र:, क्रुद्धश्चेत्, द्विजकरुणया, शैलकृपयापि,

अनातङ्क:, अस्माकं नियत:, इति, विश्वास्य, पशुपान् ।

अहो किन्नायातो, गिरिभिदिति, सञ्चिन्त्य निवसान्,

मरुद्गेहाधीश, प्रणुद, मुरवैरिन्, मम गदान् ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये द्विषष्टितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 62nd dashakam.

Series Navigation<< நாராயணீயம் அறுபத்தி ஒன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 61st Dashakam audio mp3நாராயணீயம் அறுபத்தி மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 63rd Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.