Categories
Narayaneeyam

நாராயணீயம் அறுபத்தி நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 64th Dashakam audio mp3

நாராயணீயம் அறுபத்தி நான்காவது தசகம் ஒலிப்பதிவு; Narayaneeyam 64th Dashakam audio mp3

Have given the 64th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये चतुष्षष्टितमं दशकम्

आलोक्य शैलोद्धरणादिरूपं, प्रभावं, उच्चैस्तव गोपलोका: ।

विश्वेश्वरं त्वां, अभिमत्य विश्वे, नन्दं, भवज्जातकम्, अन्वपृच्छन् ॥ १ ॥

 

गर्गोदितो, निर्गदितो निजाय वर्गाय तातेन, तव प्रभाव: ।

पूर्वाधिकस्त्वयि, अनुराग एषाम्, ऐधिष्ट तावत्, बहुमानभार: ॥ २ ॥

 

ततोऽवमानोदित,तत्त्वबोध:, सुराधिराज:, सह दिव्यगव्या।

उपेत्य तुष्टाव, स नष्टगर्व:, स्पृष्ट्वा पदाब्जं, मणिमौलिना ते ॥ ३ ॥

 

स्नेहस्नुतैस्त्वां, सुरभि: पयोभि:, गोविन्दनामाङ्कितं, अभ्यषिञ्चत् ।

ऐरावतोपाहृत,दिव्यगङ्गापाथोभि:, इन्द्रोऽपि च, जातहर्ष: ॥ ४ ॥

 

जगत्त्रयीशे त्वयि, गोकुलेशे, तथाऽभिषिक्ते सति, गोपवाट: ।

नाकेऽपि, वैकुण्ठपदेऽपि, अलभ्यां श्रियं प्रपेदे, भवत: प्रभावात् ॥ ५ ॥

 

कदाचित्, अन्तर्यमुनं प्रभाते, स्नायन् पिता, वारुणपूरुषेण ।

नीतस्तं, आनेतुमगा: पुरीं त्वं, तां वारुणीं, कारणमर्त्यरूप: ॥ ६ ॥

 

ससम्भ्रमं, तेन जलाधिपेन, प्रपूजितस्त्वं, प्रतिगृह्य तातम् ।

उपागत:, तत्क्षणमात्मगेहं, पिताऽवदत्, तच्चरितं निजेभ्य: ॥ ७ ॥

 

हरिं विनिश्चित्य, भवन्तमेतान्, भवत्पदालोकनबद्धतृष्णान् ॥

निरीक्ष्य, विष्णो परमं पदं तत्, दुरापमन्यै:, त्वं, अदीदृशस्तान् ॥ ८ ॥

 

स्फुरत्परानन्दरसप्रवाह,प्रपूर्णकैवल्य,महापयोधौ ।

चिरं निमग्ना: खलु, गोपसङ्घा:, त्वयैव भूमन्, पुनरुद्धृतास्ते ॥ ९ ॥

 

करबदरवदेवं देव, कुत्रावतारे, निजपदमनवाप्यं, दर्शितं भक्तिभाजाम् ।

तदिह, पशुपरूपी, त्वं हि साक्षात् परात्मा, पवनपुरनिवासिन्, पाहि मामामयेभ्य: ॥ १० ॥

 

ॐ तत्सदिति श्रीमन्नारायणीये  चतुष्षष्टितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 64th dashakam.

Series Navigation<< நாராயணீயம் அறுபத்தி மூன்றாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 63rd Dashakam audio mp3நாராயணீயம் அறுபத்தி ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 65th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.