Categories
Narayaneeyam

நாராயணீயம் அறுபத்தி ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 66th Dashakam audio mp3

நாராயணீயம் அறுபத்தி ஆறாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 66th Dashakam audio mp3

Have given the 66th dashakam lyrics below, the way Govinda Damodara Swamigal splits while chanting. I have also attempted to chant that way in the recording above.

श्रीमन्नारायणीये षड्षष्टितमं दशकम्

उपयातानां सुदृशां, कुसुमायुधबाणपात, विवशानाम् ।
अभिवाञ्छितं विधातुं, कृतमतिरपि ता:, जगाथ वाममिव ॥ १ ॥

गगनगतं मुनिनिवहं, श्रावयितुं जगिथ, कुलवधूधर्मम् ।
धर्म्यं खलु ते वचनं, कर्म तु नो निर्मलस्य विश्वास्यम् ॥ २ ॥

आकर्ण्य, ते प्रतीपां वाणीं, एणीदृश: परं दीना: ।
मा मा करुणासिन्धो परित्यज, इत्यतिचिरं विलेपुस्ता: ॥ ३ ॥

तासां रुदितैर्लपितै:, करुणाकुलमानसो, मुरारे त्वम् ।
ताभिस्समं प्रवृत्तो, यमुनापुलिनेषु, काममभिरन्तुम् ॥ ४ ॥

चन्द्रकरस्यन्दलसत्सुन्दरयमुना,तटान्तवीथीषु ।
गोपीजनोत्तरीयै:,आपादितसंस्तरे, न्यषीदस्त्वम् ॥ ५ ॥

सुमधुरनर्मालपनै:, करसंग्रहणैश्च चुम्बनोल्लासै: ।
गाढालिङ्गनसङ्गै:, त्वमङ्गनालोकं, आकुलीचकृषे ॥ ६ ॥

वासोहरणदिने, यद्वासोहरणं प्रतिश्रुतं तासाम् ।
तदपि विभो, रसविवशस्वान्तानां, कान्त, सुभ्रुवामदधा: ॥ ७ ॥

कन्दलितघर्मलेशं, कुन्दमृदुस्मेरवक्त्रपाथोजम् ।
नन्दसुत, त्वां त्रिजगत्सुन्दरं, उपगूह्य, नन्दिता बाला: ॥ ८ ॥

विरहेष्वङ्गारमय:, शृङ्गारमयश्च सङ्गमे हि त्वम् ।
नितरां, अङ्गारमय:, तत्र पुनस्सङ्गमेऽपि चित्रमिदम् ॥ ९ ॥

राधातुङ्गपयोधर,साधुपरीरम्भलोलुपात्मानम् ।
आराधये भवन्तं, पवनपुराधीश, शमय, सकलगदान् ॥ १० ॥

ॐ तत्सदिति श्रीमन्नारायणीये षड्षष्टितमं दशकं समाप्तम् |

श्री हरये नम: | रमा रमण गोविन्द, गोविन्द | श्रीकृष्णार्पणमस्तु |

If you prefer regular lyrics it can be found here – Narayaneeyam 66th dashakam.

Series Navigation<< நாராயணீயம் அறுபத்தி ஐந்தாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 65th Dashakam audio mp3நாராயணீயம் அறுபத்தி ஏழாவது தசகம் ஒலிப்பதிவு; Narayaneeyam 67th Dashakam audio mp3 >>

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.